७ वायवीयसंहिता, अध्याय 48: वायवीयसंहितायामुत्तरखण्डे ऐहिकसिद्धिकर्मवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 282 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.२.३१. एकत्रिंशोऽध्यायः ।
शिवमहास्तोत्रवर्णनम् ।
उपमन्युरुवाच ।
स्तोत्रं वक्ष्यामि ते कृष्ण पञ्चावरणमार्गतः ।
योगेश्वरमिदं पुण्यं कर्म येन समाप्यते ॥ १॥
७.२.३२. द्वात्रिंशोऽध्यायः ।
ऐहिकसिद्धिकर्मवर्णनम् ।
उपमन्युरुवाच ।
एतत्ते कथितं कृष्ण कर्मेहामुत्र सिद्धिदम् ।
क्रियातपोजपध्यानसमुच्चयमयं परम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
जय जय जगदेकनाथ शम्भो, प्रकृतिमनोहर नित्यचित्स्वभाव ।
अतिगतकलुषप्रपञ्चवाचामपि मनसां पदवीमतीततत्त्वम् ॥ २॥
अथ वक्ष्यामि शैवानामिहैव फलदं नृणाम् ।
पूजाहोमजपध्यानतपोदानमयं महत् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
स्वभावनिर्मलाभोग जय सुन्दरचेष्टित ।
स्वात्मतुल्यमहाशक्ते जय शुद्धगुणार्णव ॥ ३॥
तत्र संसाधयेत्पूर्वं मन्त्रं मन्त्रार्थवित्तमः ।
दृष्टसिद्धिकरं कर्म नान्यथा फलदं यतः ॥ ३॥
अनन्तकान्तिसम्पन्न जयासदृशविग्रह ।
अतर्क्यमहिमाधार जयानाकुलमङ्गल ॥ ४॥
सिद्धमन्त्रोऽप्यदृष्टेन प्रबलेन तु केनचित् ।
प्रतिबन्धफलं कर्म न कुर्यात्सहसा बुधः ॥ ४॥
निरञ्जन निराधार जय निष्कारणोदय ।
निरन्तरपरानन्द जय निर्वृतिकारण ॥ ५॥
तस्य तु प्रतिबन्धस्य कर्तुं शक्येह निष्कृतिः ।
परीक्ष्य शकुनाद्यैस्तदादौ निष्कृतिमाचरेत् ॥ ५॥
जयातिपरमैश्वर्य जयातिकरुणास्पद ।
जय स्वतन्त्रसर्वस्व जयासदृशवैभव ॥ ६॥
योऽन्यथा कुरुते मोहात्कर्मैहिकफलं नरः ।
न तेन फलभाक्स स्यात्प्राप्नुयाच्चोपहास्यताम् ॥ ६॥
जयावृतमहाविश्व जयानावृत केनचित् ।
जयोत्तर समस्तस्य जयात्यन्तनिरुत्तर ॥ ७॥
अविस्रब्धो न कुर्वीत कर्म दृष्टफलं क्वचित् ।
स खल्वश्रद्धधानः स्यान्नाश्रद्धः फलमृच्छति ॥ ७॥
जयाद्भुत जयाक्षुद्र जयाक्षत जयाव्यय ।
जयामेय जयामाय जयाभाव जयामल ॥ ८॥
नापराधोऽस्ति देवस्य कर्मण्यपि तु निष्फले ।
यथोक्तकारिणां पुंसामिहैव फलदर्शनात् ॥ ८॥
महाभुज महासार महागुण महाकथ ।
महाबल महामाय महारस महारथ ॥ ९॥
साधकः सिद्धमन्त्रश्च निरस्तप्रतिबन्धकः ।
विश्वस्तः श्रद्धधानश्च कुर्वन्नाप्नोति तत्फलम् ॥ ९॥
नमः परमदेवाय नमः परमहेतवे ।
नमः शिवाय शान्ताय नमः शिवतराय ते ॥ १०॥
अथवा तत्फलावाप्त्यै ब्रह्मचर्यरतो भवेत् ।
रात्रौ हविष्यमश्नीयात्पायसं वा फलानि वा ॥ १०॥
त्वदधीनमिदं कृत्स्नं जगद्धि ससुरासुरम् ॥ ११॥
हिंसादि यन्निषिद्धं स्यान्न कुर्यान्मनसापि तत् ।
सदा भस्मानुलिप्ताङ्गः सुवेषश्च शुचिर्भवेत् ॥ ११॥
अतस्त्वद्विहितामाज्ञां क्षमते कोऽतिवर्तितुम् ॥ १२॥
इत्थमाचारवान्भूत्वा स्वानुकूले शुभेऽहनि ।
पूर्वोक्तलक्षणे देशे पुष्पदामाद्यलङ्कृते ॥ १२॥
अयं पुनर्जनो नित्यं भवदेकसमाश्रयः ।
भवानतोऽनुगृह्यास्मै प्रार्थितं सम्प्रयच्छतु ॥ १३॥
आलिप्य शकृता भूमिं हस्तमानावरां यथा ।
विलिखेत्कमले भद्रे दीप्यमानं स्वतेजसा ॥ १३॥
जयाम्बिके जगन्मातर्जय सर्वजगन्मयि ।
जयानवधिकैश्वर्ये जयानुपमविग्रहे ॥ १४॥