Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं

Containing 78 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 1

७.२.२७. सप्तविंशोऽध्यायः ।

अग्निकार्यवर्णनम् ।

उपमन्युरुवाच ।

अथाग्निकार्यं वक्ष्यामि कुण्डे वा स्थण्डिलेऽपि वा ।

वेद्यां वा ह्यायसे पात्रे मृण्मये वा नवे शुभे ॥ १॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 2

आधायाग्निं विधानेन संस्कृत्य च ततः परम् ।

तत्राराध्य महादेवं होमकर्मसमाचरेत् ॥ २॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 3

कुण्डं द्विहस्तमानं वा हस्तमात्रमथापि वा ।

वृत्तं वा चतुरस्रं वा कुर्याद्वेदिं च मण्डलम् ॥ ३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 4

कुण्डं विस्तारवन्निम्नं तन्मध्येऽष्टदलाम्बुजम् ।

चतुरङ्गुलमुत्सेधं तस्य द्व्यङ्गुलमेव वा ॥ ४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 5

वितस्तिद्विगुणोन्नत्या नाभिमन्तः प्रचक्षते ।

मध्ये च मध्यमाङ्गुल्या मध्यमोत्तमपर्वणोः ॥ ५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 6

अङ्गुलैः कथ्यते सद्भिश्चतुर्विंशतिभिः करः ।

मेखलानां त्रयं वापि द्वयमेकमथापि वा ॥ ६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 7

यथाशोभं प्रकुर्वीत श्लक्ष्णमिष्टं मृदा स्थिरम् ।

अश्वत्थपत्रवद्योनिं गजाधरवदेव वा ॥ ७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 8

झमेखलामध्यतः कुर्यात् पश्चिमे दक्षिणेऽपि वा ।

शोभनामग्रतः किञ्चिन्निम्नामुन्मीलिकां शनैः ॥ ८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 9

अग्रेण कुण्डाभिमुखीं किञ्चिदुत्सृज्य मेखलाम् ।

नोत्सेधनियमो वेद्याः सा मार्दी वाथ सैकती ॥ ९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 10

मण्डलं गोशकृत्तोयैर्मानं पात्रस्य नोदितम् ।

कुण्डं च मृण्मयं वेदिमालिम्पेद् गोमयाम्बुना ॥ १०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 11

प्रक्षाल्य तापयेत्पात्रं प्रोक्षयेदन्यदम्भसा ।

स्वसूत्रोक्तप्रकारेण कुण्डादौ विलिखेत्ततः ॥ ११॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 12

सम्प्रोक्ष्य कल्पयेद्दर्भैः पुष्पैर्वा वह्निविष्टरम् ।

अर्चनार्थं च होमार्थं सर्वद्रव्याणि साधयेत् ॥ १२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 13

प्रक्षाल्य क्षालनीयानि प्रोक्षण्या प्रोक्ष्य शोधयेत् ।

मणिजं काष्ठजं वाथ श्रोत्रियागारसम्भवम् ॥ १३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 14

अन्यं वाभ्यर्हितं वह्निं ततः साधारमानयेत् ।

त्रिःप्रदक्षिणमावृत्य कुण्डादेरुपरि क्रमात् ॥ १४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 15

बह्निबीजं समुच्चार्य त्वादधीताग्निमासने ।

योनिमार्गेण वा तद्वदात्मनः सम्मुखेन वा ॥ १५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 16

योनिप्रदेशगः सर्वं कुण्डं कुर्याद्विचक्षणः ।

स्वनाभ्यन्तःस्थितं वह्निं तद्रन्ध्नाद्विस्फुलिङ्गवत् ॥ १६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 17

निर्गम्य पावके बाह्ये लीनं बिम्बाकृतिं स्मरेत् ।

आज्यसंस्कारपर्यन्तमन्वाधानपुरःसरम् ॥ १७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 18

स्वसूत्रोक्तक्रमात्कुर्यात् मूलमन्त्रेण मन्त्रवित् ।

शिवमूर्तिं समभ्यर्च्य ततो दक्षिणपार्श्वतः ॥ १८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 19

न्यस्य मन्त्रं घृते मुद्रां दर्शयेद्धेनुसंज्ञिताम् ।

स्रुक्स्रुवौ तैजसौ ग्राह्यौ न कांस्यायससैसकौ ॥ १९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 20

यज्ञदारुमयौ वापि स्मार्तौ वा शिल्पसम्मतौ ।

पर्णे वा ब्रह्मवृक्षादेरच्छिद्रे मध्य उत्थिते ॥ २०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 21

सम्मृज्य दर्भैस्तौ वह्नौ सन्ताप्य प्रोक्षयेत्पुनः ।

परिषिच्य स्वसूत्रोक्तक्रमेण शिवपूर्वकैः ॥ २१॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 22

जुहुयादष्टभिर्बीजैरग्निसंस्कारसिद्धये ।

भ्रुं स्तुं ब्रुं श्रुं क्रमेणैव पुं ड्रुं द्रुं इत्यतः परम् ॥ २२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 23

बीजानि सप्त सप्तानां जिह्वानामनुपूर्वशः ।

त्रिशिखा मध्यमा जिह्वा बहुरूपसमाह्वया ॥ २३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 24

तस्याः शिखा दक्षिणतो ज्वलन्ती वामतः परा ।

हिरण्या प्रागुदग्जिह्वा कनका पूर्वतः स्थिता ॥ २४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 25

रक्ताग्नेयी नैरृती च कृष्णान्या सुप्रभा मता ।

अतिरिक्ता मरुज्जिह्वा स्वनामानुगुणप्रभा ॥ २५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 26

स्वबीजानन्तरं वाच्या स्वाहान्तञ्च यथाक्रमम् ।

जिह्वामन्त्रैस्तु हुत्वाज्यं जिह्वास्त्वैकैकशः क्रमात् ॥ २६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 46: वायवीयसंहितायामुत्तरखण्डे अग्निकार्यवर्णनं, Verse 27

रं वह्नयेति स्वाहेति मध्ये हुत्वाहुतित्रयम् ।

सर्पिषा वा समिद्भिर्वा परिषेचनमाचरेत् ॥ २७॥