७ वायवीयसंहिता, अध्याय 45: वायवीयसंहितायामुत्तरखण्डे साङ्गोपाङ्गपूजाविधानवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.२.१६. षड्विंशोऽध्यायः ।
साङ्गोपाङ्गपूजाविधानवर्णनम् ।
उपमन्युरुवाच ।
ब्रह्मघ्नो वा सुरापो वा स्तेयी वा गुरुतल्पगः ।
मातृहा पितृहा वापि वीरहा भ्रूणहापि वा ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
सम्पूज्यामन्त्रकं भक्त्या शिवं परमकारणम् ।
तैस्तैः पापैः प्रमुच्येत वर्षैर्द्वादशभिः क्रमात् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
तस्मात् सर्वप्रयत्नेन पतितोऽपि यजेत् शिवम् ।
भक्तश्चेन्नापरः कश्चिद्भिक्षाहारो जितेद्रियः ॥ ३॥
कृत्वापि सुमहत्पापं भक्त्या पञ्चाक्षरेण तु ।
पूजयेद्यदि देवेशं तस्मात्पापात्प्रमुच्यते ॥ ४॥
अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः ।
तेषामेतैर्व्रतैर्नास्ति शिवलोकसमागमः ॥ ५॥
भक्त्या पञ्चाक्षरेणैव यः शिवं सकृदर्चयेत् ।
सोऽपि गच्छेच्छिवस्थानं शिवमन्त्रस्य गौरवात् ॥ ६॥
तस्मात्तपांसि यज्ञाश्च सर्वे सर्वस्वदक्षिणाः ।
शिवमूर्त्यर्चनस्यैते कोट्यंशेनापि नो समाः ॥ ७॥
बद्धो वाप्यथ मुक्तो वा पाशात्पञ्चाक्षरेण चेत् ।
पूजयन्मुच्यते भक्तो नात्र कार्या विचारणा ॥ ८॥
अरुद्रो वा सरुद्रो वा सूक्तेन शिवमर्चयेत् ।
यः सकृत्पतितो वापि मूढो वा मुच्यते नरः ॥ ९॥
षडक्षरेण वा देवं सूक्तमन्त्रेण पूजयेत् ।
शिवभक्तो जितक्रोधो ह्यलब्धो लब्ध एव च ॥ १०॥
अलब्धाल्लब्ध एवात्र विशिष्टो नात्र संशयः ।
सब्रह्माङ्गेन वा तेन सहंसेन विमुच्यते ॥ ११॥
तस्मान्नित्यं शिवं भक्त्या सूक्तमन्त्रेण पूजयेत् ।
एककालं द्विकालं वा त्रिकालं नित्यमेव वा ॥ १२॥
येऽर्चयन्ति महादेवं विज्ञेयास्ते महेश्वराः ।
ज्ञानेनात्मसहायेन नार्चितो भगवान् शिवः ॥ १३॥
स चिरं संसरत्यस्मिन् संसारे दुःखसागरे ।
दुर्लभं प्राप्य मानुष्यं मूढो नार्चयते शिवम् ॥ १४॥
निष्फलं तस्य तज्जन्म मोक्षाय न भवेद्यतः ।
दुर्लभं प्राप्य मानुष्यं येऽर्चयन्ति पिनाकिनम् ॥ १५॥
तेषां हि सफलं जन्म कृतार्थास्ते नरोत्तमाः ।
भवभक्तिपरा ये च भवप्रणतचेतसः ॥ १६॥
भवसंस्मरणोद्युक्ता न ते दुःखस्य भागिनः ।
भवनानि मनोज्ञानि विभ्रमाभरणाः स्त्रियः ॥ १७॥
धनं चातृप्तिपर्यन्तं शिवपूजाविधेः फलम् ।
ये वाञ्छन्ति महाभोगान् राज्यं च त्रिदशालये ॥ १८॥
ते वाञ्छन्ति सदाकालं हरस्य चरणाम्बुजम् ।
सौभाग्यं कान्तिमद्रूपं सत्त्वं त्यागार्द्रभावता ॥ १९॥
शौर्यं वै जगति ख्यातिः शिवमर्चयतो भवेत् ।
तस्मात् सर्वं परित्यज्य शिवैकाहितमानसः ॥ २०॥
शिवपूजाविधिं कुर्याद्यदीच्छेत् शिवमात्मनः ।
त्वरितं जीवितं याति त्वरितं याति यौवनम् ॥ २१॥
त्वरितं व्याधिरभ्येति तस्मात् पूज्यः पिनाकधृक् ।
यावन्नायाति मरणं यावन्नाक्रमते जरा ॥ २२॥
यावन्नेन्द्रियवैकल्यं तावत्पूजय शङ्करम् ।
न शिवार्चनतुल्योऽस्ति धर्मोऽन्यो भुवनत्रये ॥ २३॥
इति विज्ञाय यत्नेन पूजनीयः सदाशिवः ।
द्वारयागं ज वनिकां परिवारबलिक्रियाम् ॥ २४॥
नित्योत्सवं च कुर्वीत प्रासादे यदि पूजयेत् ।
हविर्निवेदनादूर्ध्वं स्वयं चानुचरोऽपि वा ॥ २५॥
प्रासादपरिवारेभ्यो बलिं दद्याद्यथाक्रमम् ।
निर्गम्य सह वादित्रैस्तदाशाभिमुखः स्थितः ॥ २६॥
पुष्पं धूपं च दीपं च दद्यादन्नं जलैः सह ।
ततो दद्यात् महापीठे तिष्ठन् बलिमुदङ्मुखः ॥ २७॥