Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं

Containing 68 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 1

७.२.२५. पञ्चविंशोऽध्यायः ।

शिवशास्त्रोक्तपूजनवर्णनम् ।

उपमन्युरुवाच ।

अनुक्तं चात्र पूजायाः क्रमलोपभयादिव ।

यत्तदन्यत्प्रवक्ष्यामि समासान्न तु विस्तरात् ॥ १॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 2

हविर्निवेदनात्पूर्वं दीपदानादनन्तरम् ।

कुर्यादावरणाभ्यर्चां प्राप्ते नीराजनेऽथवा ॥ २॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 3

तत्रेशानादिसद्यान्तं रुद्राद्यस्त्रान्तमेव च ।

शिवस्य वा शिवायाश्च प्रथमावरणे यजेत् ॥ ३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 4

ऐशान्यां पूर्वभागे च दक्षिणे चोत्तरे तथा ।

पश्चिमे च तथाग्नेय्यामैशान्यां नैरृते तथा ॥ ४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 5

वायव्यां पुनरैशान्यां चतुर्दिक्षु ततः परम् ।

गर्भावरणमाख्यातं मन्त्रसङ्घातमेव वा ॥ ५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 6

हृदयाद्यस्त्रपर्यन्तमथवापि समर्चयेत् ।

तद्बहिः पूर्वतः शक्रं यमं दक्षिणतो यजेत् ॥ ६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 7

वरुणं वारुणे भागे धनदं चोत्तरे बुधः ।

ईशमैशेऽनलं स्वीये नैरृते निरृतिं यजेत् ॥ ७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 8

मारुते मारुतं विष्णुं नैरृते विधिमैश्वरे ।

बहिःपद्मस्य वज्राद्यान्याब्जान्तान्यायुधान्यपि ॥ ८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 9

प्रसिद्धरूपाण्याशासु लोकेशानां क्रमाद्यजेत् ।

देवं देवीं च सम्प्रेक्ष्य सर्वावरणदेवताः ॥ ९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 10

बद्धाञ्जलिपुटा ध्येयाः समासीना यथासुखम् ।

सर्वावरणदेवानां स्वाभिधानैर्नमोयुतैः ॥ १०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 11

पुष्पैः सम्पूजनं कुर्यान्नत्वा सर्वान्यथाक्रमम् ।

गर्भावरणमेवापि यजेत्स्वावरणेन वा ॥ ११॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 12

योगे ध्याने जपे होमे बाह्ये वाभ्यन्तरेऽपि वा ।

हविश्च षड्विधं देयं शुद्धं मुद्गान्नमेव च ॥ १२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 13

पायसं दधिसम्मिश्रं गौडं च मधुनाप्लुतम् ।

एतेष्वेकमनेकं वा नानाव्यञ्जनसंयुतम् ॥ १३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 14

गुडखण्डान्वितं दद्यान्मथितं दधि चोत्तमम् ।

भक्ष्याण्यपूपमुख्यानि स्वादुमन्ति फलानि च ॥ १४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 15

रक्तचन्दनपुष्पाढ्यं पानीयं चातिशीतलम् ।

मृदु एलारसाक्तं च खण्डं पूगफलस्य च ॥ १५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 16

दलानि नागवल्ल्याश्च युक्तानि खदिरादिभिः ।

गौराणि स्वर्णवर्णानि विहितानि शिवानि च ।

शैलमेव सितं चूर्णं नातिरूक्षं न दूषितम् ॥ १६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 17

कर्पूरं चाथ कङ्कोलं जात्यादि च नवं शुभम् ।

आलेपनं चन्दनं स्यान्मूलकाष्ठं रजोमयम् ॥ १७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 18

कस्तूरिका कुङ्कुमं च रसो मृगमदात्मकः ।

पुष्पाणि सुरभीण्येव पवित्राणि शुभानि च ॥ १८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 19

निर्गन्धान्युग्रगन्धानि दूषितान्युषितानि च ।

स्वयमेव विशीर्णानि न देयानि शिवार्चने ॥ १९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 20

वासांसि च मृदून्येव तपनीयमयानि च ।

विद्युद्वलयकल्पानि भूषणानि विशेषतः ॥ २०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 21

सर्वाण्येतानि कर्पूरनिर्यासागुरुचन्दनैः ।

आधूपितानि पुष्पौघैर्वासितानि समन्ततः ॥ २१॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 22

चन्दनागुरुकर्पूरकाष्ठगुग्गुलुचूर्णकैः ।

घृतेन मधुना चैव सिद्धो धूपः प्रशस्यते ॥ २२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 23

कपिलासम्भवेनैव घृतेनातिसुगन्धिना ।

नित्यं प्रदीपिता दीपाः शस्ताः कर्पूरसंयुताः ॥ २३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 24

पञ्चगव्यं च मधुरं पयो दधि घृतं तथा ।

कपिलासम्भवं शम्भोरिष्टं स्नाने च पानके ॥ २४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 25

आसनानि च भद्राणि गजदन्तमयानि च ।

सुवर्णरत्नयुक्तानि चित्राण्यास्तरणानि च ॥ २५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 26

मृदूपधानयुक्तानि सूक्ष्मतूलमयानि च ।

उच्चावचानि रम्याणि शयनानि सुखानि च ॥ २६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 44: वायवीयसंहितायामुत्तरखण्डे शिवशास्त्रोक्तपूजनवर्णनं, Verse 27

नद्यः समुद्रगामिन्या नदाद्वाम्भः समाहृतम् ।

शीतञ्च वस्त्रपूतं तद्विशिष्टं स्नानपानयोः ॥ २७॥