७ वायवीयसंहिता, अध्याय 42: वायवीयसंहितायामुत्तरखण्डे पूजाविधान व्याख्यानवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.२.२३. त्रयोविंशोऽध्यायः ।
पूजाविधान व्याख्यानवर्णनम् ।
उपमन्युरुवाच ।
व्याख्यां पूजाविधानस्य प्रवदामि समासतः ।
शिवशास्त्रे शिवेनैव शिवायै कथितस्य तु ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
अङ्गमभ्यन्तरं यागमग्निकार्यावसानकम् ।
विधाय वा न वा पश्चाद् बहिर्यागं समाचरेत् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
तत्र द्रव्याणि मनसा कल्पयित्वा विशोध्य च ।
ध्यात्वा विनायकं देवं पूजयित्वा विधानतः ॥ ३॥
दक्षिणे चोत्तरे चैव नन्दीशं सुयशां तथा ।
आराध्य मनसा सम्यगासनं कल्पयेद्बुधः ॥ ४॥
आराधनादिकैर्युक्तः सिंहयोगासनादिकम् ।
पद्मासनं वा विमलं तत्त्वत्रयसमन्वितम् ॥ ५॥
तस्योपरि शिवं ध्यायेत् साम्बं सर्वमनोहरम् ।
सर्वलक्षणसम्पन्नं सर्वावयवशोभनम् ॥ ६॥
सर्वातिशयसंयुक्तं सर्वाभरणभूषितम् ।
रक्तास्यपाणिचरणं कुन्दचन्द्रस्मिताननम् ॥ ७॥
शुद्धस्फटिकसङ्काशं फुल्लपद्मत्रिलोचनम् ।
चतुर्भुजमुदाराङ्गं चारुचन्द्रकलाधरम् ॥ ८॥
वरदाभयहस्तं च मृगटङ्कधरं हरम् ।
भुजङ्गहारवलयं चारुनीलगलान्तरम् ॥ ९॥
सर्वोपमानरहितं सानुगं सपरिच्छदम् ।
ततः सञ्चिन्तयेत्तस्य वामभागे महेश्वरीम् ॥ १०॥
प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम् ।
पूर्णचन्द्राभवदनां नीलकुञ्चितमूर्धजाम् ॥ ११॥
नीलोत्पलदलप्रख्यां चन्द्रार्द्धकृतशेखराम् ।
अतिवृत्तघनोत्तुङ्गस्निग्धपीनपयोधराम् ॥ १२॥
तनुमध्यां पृथुश्रोणीं पीतसूक्ष्मवराम्बराम् ।
सर्वाभरणसम्पन्नां ललाटतिलकोज्ज्वलाम् ॥ १३॥
विचित्रपुष्पसङ्कीर्णकेशपाशोपशोभिताम् ।
सर्वतोऽनुगुणाकारां किञ्चिल्लज्जानताननाम् ॥ १४॥
हेमारविन्दं विलसद्दधानां दक्षिणे करे ।
दण्डवच्चापरं हस्तं न्यस्यासीनां महासने ॥ १५॥
पाशविच्छेदिकां साक्षात्सच्चिदानन्दरूपिणीम् ।
एवं देवं च देवीं च ध्यात्वासनवरे शुभे ॥ १६॥
सर्वोपचारवद् भक्त्या भावपुष्पैः समर्चयेत् ।
अथवा परिकल्प्यैवं मूर्तिमन्यतमां विभोः ॥ १७॥
शैवीं सदाशिवाख्यां वा तथा माहेश्वरीं पराम् ।
षड्विंशकाभिधानां वा श्रीकण्ठाख्यामथापि वा ॥ १८॥
मन्त्रन्यासादिकांश्चापि कृत्वा स्वस्यां तनौ यथा ।
अस्यां मूर्तौ मूर्तिमन्तं शिवं सदसतः परम् ॥ १९॥
ध्यात्वा बाह्यक्रमेणैव पूजां निर्वर्त्तयेद्धिया ।
समिदाज्यादिभिः पश्चान्नाभौ होमं च भावयेत् ॥ २०॥
भ्रूमध्ये च शिवं ध्यायेच्छुद्धदीपशिखाकृतिम् ।
इत्थमङ्गे स्वतन्त्रे वा योगे ध्यानमये शुभे ॥ २१॥
अग्निकार्यावसानं च सर्वत्रैव समो विधिः ।
अथ चिन्तामयं सर्वं समाप्याराधनक्रमम् ॥ २२॥
लिङ्गे च पूजयेद्देवं स्थण्डिले वानलेऽपि वा ॥ २३॥