Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं

Containing 48 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 1

७.२.१७. सप्तदशोऽध्यायः ।

शिवदीक्षाविधानवर्णनम् ।

उपमन्युरुवाच ।

अतः परं समावेक्ष्य गुरुः शिष्यस्य योग्यताम् ।

षडध्वशुद्धिं कुर्वीत सर्वबन्धविमुक्तये ॥ १॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 2

कलां तत्त्वं च भुवनं वर्णं पदमतः परम् ।

मन्त्रश्चेति समासेन षडध्वा परिपठ्यते ॥ २॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 3

निवृत्त्याद्याः कलाः पञ्च कलाध्वा कथ्यते बुधैः ।

व्याप्ताः कलाभिरितरे त्वध्वानः पञ्च पञ्चभिः ॥ ३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 4

शिवतत्त्वादिभूम्यन्तं तत्त्वाध्वा समुदाहृतः ।

षड्विंशत्सङ्ख्ययोपेतः शुद्धाशुद्धोभयात्मकः ॥ ४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 5

आधाराद्युन्मनान्तश्च भुवनाध्वा प्रकीर्तितः ।

विना भेदोपभेदाभ्यां षष्टिसङ्ख्यासमन्वितः ॥ ५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 6

पञ्चाशद् रुद्ररूपास्तु वर्णा वर्णाध्वसंज्ञिताः ।

अनेकभेदसम्पन्नः पदाध्वा समुदाहृतः ॥ ६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 7

सर्वोपमन्त्रैर्मन्त्राध्वा व्याप्तः परमविद्यया ।

यथा शिवो न तत्त्वेषु गण्यते तत्त्वनायकः ॥ ७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 8

मन्त्राध्वनि न गण्येत तथासौ मन्त्रनायकः ।

कलाध्वनो व्यापकत्वं व्याप्यत्वं चेतराध्वनाम् ॥ ८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 9

न वेत्ति तत्त्वतो यः स नैवार्हत्यध्वशोधनम् ।

षड्विधस्याध्वनो रूपं न येन विदितं भवेत् ॥ ९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 10

व्याप्यव्यापकता तेन ज्ञातुमेव न शक्यते ।

तस्मादध्वस्वरूपं च व्याप्यव्यापकतां तथा ॥ १०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 11

यथावदवगम्यैव कुर्यादध्वविशोधनम् ।

कुण्डमण्डलपर्यन्तं तत्र कृत्वा यथा पुरा ॥ ११॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 12

द्विहस्तमानं कुर्वीत प्राच्यां कलशमण्डलम् ।

ततः स्नातः शिवाचार्यः सशिष्यः कृतनैत्यकः ॥ १२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 13

प्रविश्य मण्डलं शम्भोः पूजां पूर्ववदाचरेत् ।

तत्राढकावरैः सिद्धं तन्दुलैः पायसं प्रभोः ॥ १३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 14

अर्द्धं निवेद्य होमार्थं शेषं समुपकल्पयेत् ।

पुरतः कल्पिते वाथ मण्डले वर्णिमण्डिते ॥ १४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 15

स्थापयेत्पञ्चकलशान्दिक्षु मध्ये च देशिकः ।

तेषु ब्रह्माणि मूलार्णैर्बिन्दुनादसमन्वितैः ॥ १५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 16

नम आद्यैर्यकरान्तैः कल्पयेत्कल्पवित्तमः ।

ईशानं मध्यमे कुम्भे पुरुषं पुरतः स्थिते ॥ १६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 17

अघोरं दक्षिणे वामे वामं सद्यं च पश्चिमे ।

रक्षां विधाय मुद्रां च बद्धा कुम्भाभिमन्त्रणम् ॥ १७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 18

कृत्वा शिवानलैर्होमं प्रारभेत यथा पुरा ।

यदर्द्धं पायसं पूर्वं होमार्थं परिकल्पितम् ॥ १८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 19

हुत्वा शिष्यस्य तच्छेषं भोक्तुं समुपकल्पयेत् ।

तर्पणान्तं च मन्त्राणां कृत्वा कर्म यथा पुरा ॥ १९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 20

हुत्वा पूर्णाहुतिं तेषां ततः कुर्यात्प्रदीपनम् ।

ऊँ कारादनु हुङ्कारं ततो मूलं फडन्तकम् ॥ २०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 21

स्वाहान्तं दीपने प्राहुरङ्गानि च यथाक्रमम् ।

तेषामाहुतयस्तिस्रो देया दीपनकर्मणि ॥ २१॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 22

मन्त्रैरेकैकशस्तैस्तु विचिन्त्या दीप्तमूर्तयः ।

त्रिगुणं त्रिगुणीकृत्य द्विजकन्याकृतं सितम् ॥ २२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 23

सूत्रं सूत्रेण सम्मन्त्र्य शिखाग्रे बन्धयेच्छिशोः ।

चरणाङ्गुष्ठपर्यन्तमूर्ध्वकायस्य तिष्ठतः ॥ २३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 24

लम्बयित्वा तु तत्सूत्रं सुषुम्णां तत्र योजयेत् ।

शान्तया मुद्रयादाय मूलमन्त्रेण मन्त्रवित् ॥ २४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 25

हुत्वाहुतित्रयं तस्याः सान्निध्यमुपकल्पयेत् ।

हृदि सन्ताड्य शिष्यस्य पुष्पक्षेपेण पूर्ववत् ॥ २५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 26

चैतन्यं समुपादाय द्वादशान्ते निवेद्य च ।

सूत्रं सूत्रेण संयोज्य संरक्ष्यास्त्रेण वर्मणा ॥ २६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 40: वायवीयसंहितायामुत्तरखण्डे शिवदीक्षाविधानवर्णनं, Verse 27

अवगुण्ठ्याथ तत्सूत्रं शिष्यदेहं विचिन्तयेत् ।

मूलत्रयमयं पाशं भोगभोग्यत्वलक्षणम् ॥ २७॥