७ वायवीयसंहिता, अध्याय 39: वायवीयसंहितायामुत्तरखण्डे शिष्यसंस्कारवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 81 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.२.१६. षोडशोऽध्यायः ।
शिष्यसंस्कारवर्णनम् ।
उपमन्युरुवाच ।
पुण्येऽहनि शुचौ देशे बहुदोषविवर्जिते ।
देशिकः प्रथमं कुर्यात्संस्कारं समयाह्वयम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
परीक्ष्य भूमिं विधिवद् गन्धवर्णरसादिभिः ।
शिल्पिशास्त्रोक्तमार्गेण मण्डपं तत्र कल्पयेत् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
कृत्वा वेदिं च तन्मध्ये कुण्डानि परिकल्पयेत् ।
अष्टदिक्षु तथा दिक्षु तत्रैशान्यां पुनः क्रमात् ॥ ३॥
प्रधानकुण्डं कुर्वीत यद्वा पश्चिमभागतः ।
प्रधानमेकमेवाथ कृत्वा शोभां प्रकल्पयेत् ॥ ४॥
वितानध्वजमालाभिर्विविधाभिरनेकशः ।
वेदिमध्ये ततः कुर्यान्मण्डलं शुभलक्षणम् ॥ ५॥
रक्तहेमादिभिश्चूर्णैरीश्वरावाहनोचितम् ।
सिन्दूरशालिनीवारचूर्णैरेवाथ निर्धनः ॥ ६॥
एकहस्तं द्विहस्तं वा सितं वा रक्तमेव वा ।
एकहस्तस्य पद्मस्य कर्णिकाष्टाङ्गुला मता ॥ ७॥
केसराणि तदर्धानि शेषं चाष्टदलादिकम् ।
द्विहस्तस्य तु पद्मस्य द्विगुणं कर्णिकादिकम् ॥ ८॥
कृत्वा शोभोपशोभाढ्य मैशान्यां तस्य कल्पयेत् ।
एकहस्तं तदर्द्धं वा पुनर्वेद्यां तु मण्डलम् ॥ ९॥
व्रीहितन्दुलसिद्धार्थतिलपुष्पकुशास्तृते ।
तत्र लक्षणसंयुक्तं शिवकुम्भं प्रसाधयेत् ॥ १०॥
सौवर्णं राजतं वापि ताम्रजं मृन्मयं तु वा ।
गन्धपुष्पाक्षताकीर्णं कुशदूर्वाङ्कुराचितम् ॥ ११॥
सितसूत्रावृतं कण्ठे नववस्त्रयुगावृतम् ।
शुद्धाम्बुपूर्णमुत्कूर्चं सद्रव्यं सपिधानकम् ॥ १२॥
भृङ्गारं वर्धनीं चापि शङ्खं च चक्रमेव वा ।
विना सूत्रादिकं सर्वं पद्मपत्रमथापि वा ॥ १३॥
तस्यासनारविन्दस्य कल्पयेदुत्तरे दले ।
अग्रतश्चन्दनाम्भोभिरस्त्रराजस्य वर्धनीम् ॥ १४॥
मण्डलस्य ततः प्राच्यां मन्त्रकुम्भे च पूर्ववत् ।
कृत्वा विधिवदीशस्य महापूजां समाचरेत् ॥ १५॥
अथार्णवस्य तीरे वा नद्यां गोष्ठेऽपि वा गिरौ ।
देवागरे गृहे वापि देशेऽन्यस्मिन्मनोहरे ॥ १६॥
कृत्वा पूर्वोदितं सर्वं विना वा मण्डपादिकम् ।
मण्डलं पूर्ववत्कृत्वा स्थण्डिलं च विभावसोः ॥ १७॥
प्रविश्य पूजाभवनं प्रहृष्टवदनो गुरुः ।
सर्वमङ्गलसंयुक्तः समाचरितनैत्यकः ॥ १८॥
महापूजां महेशस्य कृत्वा मण्डलमध्यतः ।
शिवकुम्भे तथा भूयः शिवमावाह्य पूजयेत् ॥ १९॥
पश्चिमाभिमुखं ध्यात्वा यज्ञरक्षकमीश्वरम् ।
अर्चयेदस्त्रवर्द्धन्यामस्त्रमीशस्य दक्षिणे ॥ २०॥
मन्त्रकुम्भे च विन्यस्य मन्त्रं मन्त्रविशारदः ।
कृत्वा मुद्रादिकं सर्वं मन्त्रयागं समाचरेत् ॥ २१॥
ततः शिवानले होमं कुर्याद्देशिकसत्तमः ।
प्रधानकुण्डे परितो जुहुयुश्चापरे द्विजाः ॥ २२॥
आचार्यात्पादमर्द्धं वा होमस्तेषां विधीयते ।
प्रधानकुण्ड एवाथ जुहुयाद्देशिकोत्तमः ॥ २३॥
स्वाध्यायमपरे कुर्युः स्तोत्रं मङ्गलवाचनम् ।
जपं च विधिवच्चान्ये शिवभक्तिपरायणाः ॥ २४॥
नृत्यं गीतं च वाद्यं च मङ्गलान्यपराणि च ।
पूजनं च सदस्यानां कृत्वा सम्यग्विधानतः ॥ २५॥
पुण्याहं कारयित्वाथ पुनः सम्पूज्य शङ्करम् ।
प्रार्थयेद्देशिको देवं शिष्यानुग्रहकाम्यया ॥ २६॥
प्रसीद देवदेवेश देहमाविश्य मामकम् ।
विमोचयैनं विश्वेश घृणया च घृणानिधे ॥ २७॥