Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं

Containing 77 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 1

७.२.१५. पञ्चदशोऽध्यायः ।

दीक्षाविधाने गुरुमाहात्म्यवर्णनम् ।

श्रीकृष्ण उवाच ।

भगवन्मन्त्रमाहात्म्यं भवता कथितं प्रभो ।

तत्प्रयोगविधानं च साक्षाच्छ्रुतिसमं यथा ॥ १॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 2

इदानीं श्रोतुमिच्छामि शिवसंस्कारमुत्तमम् ।

मन्त्रसङ्ग्रहणे किञ्चित्सूचितं न तु विस्मृतम् ॥ २॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 3

उपमन्युरुवाच ।

हन्त ते कथयिष्यामि सर्वपापविशोधनम् ।

संस्कारं परमं पुण्यं शिवेन पतिभाषितम् ॥ ३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 4

सम्यक् कृताधिकारः स्यात्पूजादिषु नरो यतः ।

संस्कारः कथ्यते तेन षडध्वपरिशोधनम् ॥ ४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 5

दीयते येन विज्ञानं क्षीयते पाशबन्धनम् ।

तस्मात्संस्कार एवायं दीक्षेत्यपि च कथ्यते ॥ ५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 6

शाम्भवी चैव शाक्ती च मान्त्री चैव शिवागमे ।

दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना ॥ ६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 7

गुरोरालोकमात्रेण स्पर्शात्सम्भाषणादपि ।

सद्यः संज्ञा भवेज्जन्तोः पाशोपक्षयकारिणी ॥ ७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 8

सा दीक्षा शाम्भवी प्रोक्ता सा पुनर्भिद्यते द्विधा ।

तीव्रा तीव्रतरा चेति पाशोपक्षयभेदतः ॥ ८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 9

यया स्यान्निर्वृतिः सद्यः सैव तीव्रतरा मता ।

तीव्रा तु जीवतोऽत्यन्तं पुंसः पापविशोधिका ॥ ९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 10

शाक्ती ज्ञानवती दीक्षा शिष्यदेहं प्रविश्य तु ।

गुरुणा योगमार्गेण क्रियते ज्ञानचक्षुषा ॥ १०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 11

मान्त्री क्रियावती दीक्षा कुण्डमण्डलपूर्विका ।

मन्दमन्दतरोद्देशात्कर्तव्या गुरुणा बहिः ॥ ११॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 12

शक्तिपातानुसारेण शिष्योऽनुग्रहमर्हति ।

शैवधर्मानुसारस्य तन्मूलत्वात्समासतः ॥ १२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 13

यत्र शक्तिर्न पतिता तत्र शुद्धिर्न जायते ।

न विद्या न शिवाचारो न मुक्तिर्न च सिद्धयः ॥ १३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 14

तस्मात् लिङ्गानि संवीक्ष्य शक्तिपातस्य भूयसः ।

ज्ञानेन क्रियया वाथ गुरुः शिष्यं विशोधयेत् ॥ १४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 15

योऽन्यथा कुरुते मोहात् स विनश्यति दुर्मतिः ।

तस्मात्सर्वप्रकारेण गुरुः शिष्यं परीक्षयेत् ॥ १५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 16

लक्षणं शक्तिपातस्य प्रबोधानन्दसम्भवः ।

सा यस्मात्परमा शक्तिः प्रबोधानन्दरूपिणी ॥ १६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 17

आनन्दबोधयोर्लिङ्गमन्तःकरणविक्रियाः ।

यथा स्यात्कम्परोमाञ्चस्वरनेत्राङ्गविक्रियाः ॥ १७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 18

शिष्योऽपि लक्षणैरेभिः कुर्याद्गुरुपरीक्षणम् ।

तत्सम्पर्कैः शिवार्चादौ सङ्गतैर्वाथ तद्गतैः ॥ १८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 19

शिष्यस्तु शिक्षणीयत्वाद्गुरोर्गौरवकारणात् ।

तस्मात् सर्वप्रयत्नेन गुरोर्गौरवमाचरेत् ॥ १९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 20

यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ।

गुरुर्वा शिव एवाथ विद्याकारेण संस्थितः ॥ २०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 21

यथा शिवस्तथा विद्या यथा विद्या तथा गुरुः ।

शिवविद्या गुरूणां च पूजया सदृशं फलम् ॥ २१॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 22

सर्वदेवात्मकश्चासौ सर्वमन्त्रमयो गुरुः ।

तस्मात्सर्वप्रयत्नेन यस्याज्ञां शिरसा वहेत् ॥ २२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 23

श्रेयोऽर्थी यदि गुर्वाज्ञां मनसापि न लङ्घयेत् ।

गुर्वाज्ञापालको यस्मात् ज्ञानसम्पत्तिमश्नुते ॥ २३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 24

गच्छंस्तिष्ठन् स्वपन् भुञ्जन्नान्यत्कर्म समाचरेत् ।

समक्षं यदि कुर्वीत सर्वं चानुज्ञया गुरोः ॥ २४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 25

गुरोर्गृहे समक्षं वा न यथेष्टासनो भवेत् ।

गुरुर्देवो यतः साक्षात्तद्गृहं देवमन्दिरम् ॥ २५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 26

पापिनां च यथा सङ्गात्तत्पापात्पतितो भवेत् ।

यथेह वह्निसम्पर्कात् मलं त्यजति काञ्चनम् ।

तथैव गुरुसम्पर्कात् पापं त्यजति मानवः ॥ २६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 38: वायवीयसंहितायामुत्तरखण्डे दीक्षाविधाने गुरुमाहात्म्यवर्णनं, Verse 27

यथा वह्निसमीपस्थो घृतकुम्भो विलीयते तथा पापं विलीयेत ह्याचार्यस्य समीपतः ॥ २७॥