७ वायवीयसंहिता, अध्याय 37: वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमहिमवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 80 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.२.१४. चतुर्दशोऽध्यायः ।
पञ्चाक्षरमहिमवर्णनम् ।
ईश्वर उवाच ।
आज्ञाहीनं क्रियाहीनं श्रद्धाहीनं वरानने ।
आज्ञार्थं दक्षिणाहीनं सदा जप्तं च निष्फलम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
आज्ञासिद्धं क्रियासिद्धं श्रद्धासिद्धं ममात्मकम् ।
एवं चेद्दक्षिणायुक्तं मन्त्रसिद्धिर्महत्फलम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
उपगम्य गुरुं विप्रमाचार्यं तत्त्ववेदिनम् ।
जापिनं सद्गुणोपेतं ध्यानयोगपरायणम् ॥ ३॥
तोषयेत्तं प्रयत्नेन भावशुद्धिसमन्वितः ।
वाचा च मनसा चैव कायेन द्रविणेन च ॥ ४॥
आचार्यं पूजयेद्विप्रः सर्वदातिप्रयत्नतः ।
हस्त्यश्वरथरत्नानि क्षेत्राणि च गृहाणि च ॥ ५॥
भूषणानि च वासांसि धान्यानि च धनानि च ।
एतानि गुरवे दद्याद्भक्त्या च विभवे सति ॥ ६॥
वित्तशाठ्यं न कुर्वीत यदीच्छेत्सिद्धिमात्मनः ।
पश्चान्निवेद्य स्वात्मानं गुरवे सपरिच्छदम् ॥ ७॥
एवं सम्पूज्य विधिवद्यथाशक्ति त्ववञ्चयन् ।
आददीत गुरोर्मन्त्रं ज्ञानं चैव क्रमेण तु ॥ ८॥
एवं तुष्टो गुरुः शिष्यं पूजकं वत्सरोषितम् ।
शुश्रूषुमनहङ्कारं स्नातं शुचिमुपोषितम् ॥ ९॥
स्नापयित्वा विशुद्ध्यर्थं पूर्णकुम्भघृतेन वै ।
जलेन मन्त्रशुद्धेन पुण्यद्रव्ययुतेन च ॥ १०॥
अलङ्कृत्य सुवेषं च गन्धस्रग्वस्त्रभूषणैः ।
पुण्याहं वाचयित्वा च ब्राह्मणानभिपूज्य च ॥ ११॥
समुद्रतीरे नद्यां च गोष्ठे देवालयेऽपि वा ।
शुचौ देशे गृहे वापि काले सिद्धिकरे तिथौ ॥ १२॥
नक्षत्रे शुभयोगे च सर्वदोषविवर्जिते ।
अनुगृह्य ततो दद्याज्ज्ञानं मम यथाविधि ॥ १३॥
स्वरेणोच्चारयेत्सम्यगेकान्तेऽतिप्रसन्नधीः ।
उच्चार्योच्चारयित्वा तमावयोर्मन्त्रमुत्तमम् ॥ १४॥
शिवं चास्तु शुभं चास्तु शोभनोऽस्तु प्रियोऽस्त्विति ।
एवं दद्याद् गुरुर्मन्त्रमाज्ञां चैव ततः परम् ॥ १५॥
एवं लब्ध्वा गुरोर्मन्त्रमाज्ञां चैव समाहितः ।
सङ्कल्प्य च जपेन्नित्यं पुरश्चरणपूर्वकम् ॥ १६॥
यावज्जीवं जपेन्नित्यमष्टोत्तरसहस्रकम् ।
अनन्यस्तत्परो भूत्वा स याति परमां गतिम् ॥ १७॥
जपेदक्षरलक्षं वै चतुर्गुणितमादरात् ।
नक्ताशी संयमी यः स पौरश्चरणिकः स्मृतः ॥ १८॥
यः पुरश्चरणं कृत्वा नित्यजापी भवेत्पुनः ।
तस्य नास्ति समो लोके स सिद्धः सिद्धिदो भवेत् ॥ १९॥
स्नानं कृत्वा शुचौ देशे बद्ध्वा रुचिरमासनम् ।
त्वया मां हृदि सञ्चिन्त्य सञ्चिन्त्य स्वगुरुं ततः ॥ २०॥
उदङ्मुखः प्राङ्मुखो वा मौनी चैकाग्रमानसः ।
विशोध्य पञ्चतत्त्वानि दहनप्लावनादिभिः ॥ २१॥
मन्त्रन्यासादिकं कृत्वा सफलीकृतविग्रहः ।
आवयोर्विग्रहौ ध्यायन्प्राणापानौ नियम्य च ॥ २२॥
विद्यास्थानं स्वकं रूपं ऋषिं छन्दोऽधिदैवतम् ।
बीजं शक्तिं तथा वाक्यं स्मृत्वा पञ्चाक्षरीं जपेत् ॥ २३॥
उत्तमं मानसं जाप्यमुपांशुं चैव मध्यमम् ।
अधमं वाचिकं प्राहुरागमार्थविशारदाः ॥ २४॥
उत्तमं रुद्रदैवत्यं मध्यमं विष्णुदैवतम् ।
अधमं ब्रह्मदैवत्यमित्याहुरनुपूर्वशः ॥ २५॥
यदुच्चनीचस्वरितैः स्पष्टास्पष्टपदाक्षरैः ।
मन्त्रमुच्चारयेद्वाचा वाचिकोऽयं जपः स्मृतः ॥ २६॥
जिह्वामात्रपरिस्पन्दादीषदुच्चारितोऽपि वा ।
अपरैरश्रुतः किञ्चिच्छ्रुतो वोपांशुरुच्यते ॥ २७॥