७ वायवीयसंहिता, अध्याय 36: वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.२.१३. त्रयोदशोऽध्यायः ।
पञ्चाक्षरमाहात्म्यवर्णनम् ।
देव्युवाच ।
कलौ कलुषिते काले दुर्जये दुरतिक्रमे ।
अपुण्यतमसाच्छन्ने लोके धर्मपराङ्मुखे ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
क्षीणे वर्णाश्रमाचारे सङ्कटे समुपस्थिते ।
सर्वाधिकारे सन्दिग्धे निश्चिते वापि पर्यये ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
तदोपदेशे विहते गुरुशिष्यक्रमे गते ।
केनोपायेन मुच्यन्ते भक्तास्तव महेश्वर ॥ ३॥
ईश्वर उवाच ।
आश्रित्य परमां विद्यां हृद्यां पञ्चाक्षरीं मम ।
भक्त्या च भावितात्मानो मुच्यन्ते कलिजा नराः ॥ ४॥
मनोवाक्कायजैर्दोषैर्वक्तुं स्मर्तुमगोचरैः ।
दूषितानां कृतघ्नानां निन्दकानां छलात्मनाम् ॥ ५॥
लुब्धानां वक्रमनसामपि मत्प्रवणात्मनाम् ।
मम पञ्चाक्षरी विद्या संसारभयतारिणी ॥ ६॥
मयैवमसकृद्देवि प्रतिज्ञातं धरातले ।
पतितोऽपि विमुच्येत मद्भक्तो विद्ययाऽनया ॥ ७॥
देव्युवाच ।
कर्मायोग्यो भवेन्मर्त्यः पतितो यदि सर्वथा ।
कर्मायोगेन यत्कर्म कृतं च नरकाय हि ।
ततः कथं विमुच्येत पतितो विद्ययाऽनया ॥ ८॥
ईश्वर उवाच ।
तथ्यमेतत्त्वया प्रोक्तं तथा हि शृणु सुन्दरि ।
रहस्यमिति मत्वैतद्गोपितं यन्मया पुरा ॥ ९॥
समन्त्रकं मां पतितः पूजयेद्यदि मोहितः ।
नारकी स्यान्न सन्देहो मम पञ्चाक्षरं विना ॥ १०॥
अब्भक्षा वायुभक्षाश्च ये चान्ये व्रतकर्शिताः ।
तेषामेतैर्व्रतैर्नास्ति मम लोकसमागमः ॥ ११॥
भक्त्या पञ्चाक्षरेणैव यो हि मां सकृदर्चयेत् ।
सोऽपि गच्छेन्मम स्थानं मन्त्रस्यास्यैव गौरवात् ॥ १२॥
तस्मात्तपांसि यज्ञाश्च व्रतानि नियमास्तथा ।
पञ्चाक्षरार्चनस्यैते कोट्यंशेनापि नो समः ॥ १३॥
बद्धो वाप्यथ मुक्तो वा पाशात्पञ्चाक्षरेण यः ।
पूजयेन्मां स मुच्येत नात्र कार्या विचारणा ॥ १४॥
अरुद्रो वा सरुद्रो वा सकृत्पञ्चाक्षरेण यः ।
पूजयेत्पतितो वापि मूढो वा मुच्यते नरः ॥ १५॥
षडक्षरेण वा देवि तथा पञ्चाक्षरेण वा ।
स ब्रह्माङ्गेन मां भक्त्या पूजयेद्यदि मुच्यते ॥ १६॥
पतितोऽपतितो वापि मन्त्रेणानेन पूजयेत् ।
मम भक्तो जितक्रोधो सलब्धोऽलब्ध एव वा ॥ १७॥
अलब्धाल्लब्ध एवेह कोटिकोटिगुणाधिकः ।
तस्मात् लब्ध्वैव मां देवि मन्त्रेणानेन पूजयेत् ॥ १८॥
लब्ध्वा सम्पूजयेद्यस्तु मैत्र्यादिगुणसंयुतः ।
ब्रह्मचर्यरतो भक्त्या मत्सादृश्यमवाप्नुयात् ॥ १९॥
किमत्र बहुनोक्तेन भक्ताः सर्वेऽधिकारिणः ।
मम पञ्चाक्षरे मन्त्रे तस्मात् श्रेष्ठतरो हि सः ॥ २०॥
पञ्चाक्षरप्रभावेण लोकवेदमहर्षयः ।
तिष्ठन्ति शाश्वता धर्मा देवाः सर्वमिदं जगत् ॥ २१॥
प्रलये समनुप्राप्ते नष्टे स्थावरजङ्गमे ।
सर्वं प्रकृतिमापन्नं तत्र संलयमेष्यति ॥ २२॥
एकोऽहं संस्थितो देवि न द्वितीयोऽस्ति कुत्रचित् ।
तदा वेदाश्च शास्त्राणि सर्वे पञ्चाक्षरे स्थिताः ॥ २३॥
ते नाशं नैव सम्प्राप्ता मच्छक्त्या ह्यनुपालिताः ।
ततः सृष्टिरभून्मत्तः प्रकृत्यात्मप्रभेदतः ॥ २४॥
गुणमूर्त्यात्मनां चैव ततोऽवान्तरसंहृतिः ।
तदा नारायणः शेते देवो मायामयीं तनुम् ॥ २५॥
आस्थाय भोगिपर्यङ्कशयने तोयमध्यगः ।
तन्नाभिपङ्कजाज्जातः पञ्चवक्त्रः पितामहः ॥ २६॥
सिसृक्षमाणो लोकांस्त्रीन्न सक्तो ह्यसहायवान् ।
मुनीन्दश ससर्जादौ मानसानमितौजसः ॥ २७॥