७ वायवीयसंहिता, अध्याय 35: वायवीयसंहितायामुत्तरखण्डे पञ्चाक्षरमाहात्म्यवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 101 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.२.११. एकादशोऽध्यायः ।
शिवज्ञानवर्णनम् ।
ईश्वर उवाच ।
अथ वक्ष्यामि देवेशि भक्तानामधिकारिणाम् ।
विदुषां द्विजमुख्यानां वर्णधर्मसमासतः ॥ १॥
७.२.१२. द्वादशोऽध्यायः ।
पञ्चाक्षरमाहात्म्यवर्णनम् ।
श्रीकृष्ण उवाच ।
महर्षिवर सर्वज्ञ सर्वज्ञानमहोदधे ।
पञ्चाक्षरस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
त्रिःस्नानं चाग्निकार्यं च लिङ्गार्चनमनुक्रमम् ।
दानमीश्वरभावश्च दया सर्वत्र सर्वदा ॥ २॥
उपमन्युरुवाच ।
पञ्चाक्षरस्य माहात्म्यं वर्षकोटिशतैरपि ।
अशक्यं विस्तराद्वक्तुं तस्मात्सङ्क्षेपतः शृणु ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
सत्यं सन्तोषमास्तिक्यमहिंसा सर्वजन्तुषु ।
ह्रीःश्रद्धाध्ययनं योगः सदाध्यापनमेव च ॥ ३॥
वेदे शिवागमे चायमुभयत्र षडक्षरः ।
सर्वेषां शिवभक्तानामशेषार्थप्रसाधकः ॥ ३॥
व्याख्यानं ब्रह्मचर्यं च श्रवणं च तपः क्षमा ।
शौचं शिखोपवीतं च उष्णीषं चोत्तरीयकम् ॥ ४॥
तदल्पाक्षरमर्थाढ्यं वेदसारं विमुक्तिदम् ।
आज्ञासिद्धमसन्दिग्धं वाक्यमेतत् शिवात्मकम् ॥ ४॥
निषिद्धासेवनं चैव भस्मरुद्राक्षधारणम् ।
पर्वण्यभ्यर्चनं देवि चतुर्दश्यां विशेषतः ॥ ५॥
नानासिद्धियुतं दिव्यं लोकचित्तानुरञ्जकम् ।
सुनिश्चितार्थं गम्भीरं वाक्यं तत्पारमेश्वरम् ॥ ५॥
पानं च ब्रह्मकूर्चस्य मासि मासि यथाविधि ।
अभ्यर्चनं विशेषेण तेनैव स्नाप्य मां प्रिये ॥ ६॥
मन्त्रं सुखमुखोच्चार्यमशेषार्थप्रसिद्धये ।
प्राहोन्नमः शिवायेति सर्वज्ञः सर्वदेहिनाम् ॥ ६॥
सर्वक्रियान्नसन्त्यागः श्राद्धान्नस्य च वर्जनम् ।
तथा पर्युषितान्नस्य यावकस्य विशेषतः ॥ ७॥
तद्बीजं सर्वविद्यानां मन्त्रमाद्यं षडक्षरम् ।
अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत् ॥ ७॥
मद्यस्य मद्यगन्धस्य नैवेद्यस्य च वर्जनम् ।
सामान्यं सर्ववर्णानां ब्राह्मणानां विशेषतः ॥ ८॥
देवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः ।
ओमित्येकाक्षरे मन्त्रे स्थितः सर्वगतः शिवः ॥ ८॥
क्षमा शान्तिश्च सन्तोषः सत्यमस्तेयमेव च ।
ब्रह्मचर्यं मम ज्ञानं वैराग्यं भस्मसेवनम् ॥ ९॥
इशानाद्यानि सूक्ष्माणि ब्रह्माण्येकाक्षराणि तु ।
मन्त्रे नमः शिवायेति संस्थितानि यथाक्रमम् ।
मन्त्रे षडक्षरे सूक्ष्मे पञ्चब्रह्मतनुः शिवः ॥ ९॥
सर्वसङ्गनिवृत्तिश्च दशैतानि विशेषतः ।
लिङ्गानि योगिनां भूयो दिवा भिक्षाशनं तथा ॥ १०॥
वाच्यवाचकभावेन स्थितः साक्षात्स्वभावतः ।
वाच्यः शिवोऽप्रमेयत्वात् मन्त्रस्तद्वाचकः स्मृतः ॥ १०॥
वानप्रस्थाश्रमस्थानां समानमिदमिष्यते ।
रात्रौ न भोजनं कार्यं सर्वेषां ब्रह्मचारिणाम् ॥ ११॥
वाच्यवाचकभावोऽयमनादिः संस्थितस्तयोः ।
यथानादिप्रवृत्तोऽयं घोरसंसारसागरः ॥ ११॥
अध्यापनं याजनं च क्षत्रियस्याप्रतिग्रहः ।
वैश्यस्य च विशेषेण मया नात्र विधीयते ॥ १२॥
शिवोऽपि हि तथानादिः संसारान्मोचकः स्थितः ।
व्याधीनां भेषजं यद्वत्प्रतिपक्षः स्वभावतः ॥ १२॥
रक्षणं सर्ववर्णानां युद्धे शत्रुवधस्तथा ।
दुष्टपक्षिमृगाणां च दुष्टानां शातनं नृणाम् ॥ १३॥
तद्वत्संसारदोषाणां प्रतिपक्षः शिवः स्मृतः ।
असत्यस्मिन् जगन्नाथे तमोभूतमिदं भवेत् ॥ १३॥
अविश्वासश्च सर्वत्र विश्वासो मम योगिषु ।
स्त्रीसंसर्गश्च कालेषु चमूरक्षणमेव च ॥ १४॥