७ वायवीयसंहिता, अध्याय 34: वायवीयसंहितायामुत्तरखण्डे शिवभक्तिवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 75 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.२.१०. दशमोऽध्यायः ।
शिवभक्तिवर्णनम् ।
कृष्ण उवाच ।
भगवन् सर्वयोगीन्द्र गणेश्वर मुनीश्वर ।
षडाननसमप्रख्य सर्वज्ञाननिधे गुरो ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
प्रायस्त्वमवतीर्योर्व्यां पाशविच्छित्तये नृणाम् ।
महर्षिवपुरास्थाय स्थितोऽसि परमेश्वर ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
अन्यथा हि जगत्यस्मिन् देवो वा दानवोऽपि वा ।
त्वत्तोऽन्यः परमं भावं को जानीयात् शिवात्मकम् ॥ ३॥
तस्मात्तव मुखोद्गीर्णं साक्षादिव पिनाकिनः ।
शिवज्ञानामृतं पीत्वा न मे तृप्तमभून्मनः ॥ ४॥
साक्षात्सर्वजगत्कर्तुर्भर्तुरङ्कं समाश्रिता ।
भगवन्किन्नु पप्रच्छ भर्तारं परमेश्वरी ॥ ५॥
उपमन्युरुवाच ।
स्थाने पृष्टं त्वया कृष्ण तद्वक्ष्यामि यथातथम् ।
भवभक्तस्य युक्तस्य तव कल्याणचेतसः ॥ ६॥
महीधरवरे दिव्ये मन्दरे चारुकन्दरे ।
देव्या सह महादेवो दिव्यो ध्यानगतोऽभवत् ॥ ७॥
तदा देव्याः प्रियसखी सुस्मितास्या शुभावती ।
फुल्लान्यतिमनोज्ञानि पुष्पाणि समुदाहरत् ॥ ८॥
ततः स्वमङ्कमारोप्य देवीं देववरोहरः ।
अलङ्कृत्य च तैः पुष्पैरास्ते हृष्टतरः स्वयम् ॥ ९॥
अथान्तःपुरचारिण्यो देव्यो दिव्यविभूषणाः ।
अन्तरङ्गा गणेन्द्राश्च सर्वलोकमहेश्वरीम् ॥ १०॥
भर्तारं परिपूर्णं च सर्वलोकमहेश्वरम् ।
चामरासक्तहस्ताश्च देवीं देवं सिषेविरे ॥ ११॥
ततः प्रियाः कथा वृत्ता विनोदाय महेशयोः ।
त्राणाय च नृणां लोके ये शिवं शरणं गताः ॥ १२॥
तदावसरमालोक्य सर्वलोकमहेश्वरी ।
भर्तारं परिपप्रच्छ सर्वलोकमहेश्वरम् ॥ १३॥
देव्युवाच ।
केन वश्यो महादेवो मर्त्यानां मन्दचेतसाम् ।
आत्मतत्त्वाद्यशक्तानामात्मनामकृतात्मनाम् ॥ १४॥
ईश्वर उवाच ।
न कर्मणा न तपसा न जपैर्नासनादिभिः ।
न ज्ञानेन न चान्येन वश्योऽहं श्रद्धया विना ॥ १५॥
श्रद्धा मय्यस्ति चेत्पुंसां येन केनापि हेतुना ।
वश्यः स्पृश्यश्च दृश्यश्च पूज्यस्सम्भाष्य एव च ॥ १६॥
साध्या तस्मान् मयि शद्धा मां वशीकर्तुमिच्छता ।
श्रद्धा हेतुः स्वधर्मस्य रक्षणं वर्णिनामिह ॥ १७॥
स्ववर्णाश्रमधर्मेऽथ वर्तते यस्तु मानवः ।
तस्यैव भवति श्रद्धा मयि नान्यस्य कस्यचित् ॥ १८॥
आम्नायसिद्धमखिलं धर्ममाश्रमिणामिह ।
ब्रह्मणा कथितं पूर्वं ममैवाज्ञापुरः सरम् ॥ १९॥
स तु पैतामहो धर्मो बहुवित्तक्रियान्वितः ।
नात्यन्तफलभूयिष्ठः क्लेशायाससमन्वितः ।
तेन धर्मेण महता श्रद्धां प्राप्य सुदुर्ल्लभाम् ॥ २०॥
वर्णिनो ये प्रपद्यन्ते मामनन्यसमाश्रयाः ।
तेषां सुखेन मार्गेण धर्मकामार्थमुक्तयः ॥ २१॥
वर्णाश्रमसमाचारो मया भूयः प्रकल्पितः ।
तस्मिन् भक्तिमतामेव मदीयानां तु वर्णिनाम् ॥ २२॥
अधिकारो न चान्येषामित्याज्ञा नैष्ठिकी मम ।
तदाज्ञप्तेन मार्गेण वर्णिनो मदुपाश्रयाः ॥ २३॥
मलमायादिपाशेभ्यो विमुक्ता मत्प्रसादतः ।
परं मदीयमासाद्य पुनरावृत्तिदुर्लभम् ।
परमं मम साधर्म्यं प्राप्य निर्वृतिमाययुः ॥ २४॥
तस्मात् लब्ध्वाप्यलब्ध्वा वा वर्णधर्मं मयेरितम् ।
आश्रित्य मम भक्तश्चेत्स्वात्मनात्मानमुद्धरेत् ॥ २५॥
अलब्धलाभ एवैष कोटिकोटिगुणाधिकः ।
तस्मान्मे मुखतो लब्धं वर्णधर्मं समाचरेत् ॥ २६॥
ममावतारा हि शुभे योगाचार्यच्छलेन तु ।
सर्वान्तरेषु सन्त्यार्ये सन्ततिश्च सहस्रशः ॥ २७॥