७ वायवीयसंहिता, अध्याय 32: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्वकथनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.२.७. सप्तमोऽध्यायः ।
शिवतत्त्वकथनम् ।
उपमन्युरुवच ।
शक्तिः स्वाभविकी तस्य विद्या विश्वविलक्षणा ।
एकानेकस्य रूपेण भाति भानोरिव प्रभा ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
अनन्ताः शक्तयो यस्या इच्छाज्ञानक्रियादयः ।
मायाद्याश्चाभवन्वह्नोर्विस्फुलिङ्गा यथा तथा ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
सदाशिवेश्वराद्या हि विद्याविद्येश्वरादयः ।
अभवन् पुरुषाश्चास्याः प्रकृतिश्च परात्परा ॥ ३॥
महदादिविशेषान्तास्त्वजाद्याश्चापि मूर्तयः ।
यच्चान्यदस्ति तत्सर्वं तस्याः कार्यं न संशयः ॥ ४॥
सा शक्तिः सर्वगा सूक्ष्मा प्रबोधानन्दरूपिणी ।
शक्तिमानुच्यते देवः शिवः शीतांशुभूषणः ॥ ५॥
वेद्यः शिवः शिवा विद्या प्रज्ञा चैव श्रुतिः स्मृतिः ।
धृतिरेषा स्थितिर्निष्ठा ज्ञानेच्छाकर्मशक्तयः ॥ ६॥
आज्ञा चैव परं ब्रह्म द्वे विद्ये च परापरे ।
शुद्धविद्या शुद्धकला सर्वं शक्तिकृतं यतः ॥ ७॥
माया च प्रकृतिर्जीवो विकारो विकृतिस्तथा ।
असच्च सच्च यत्किञ्चित्तया सर्वमिदं ततम् ॥ ८॥
सा देवी मायया सर्वं ब्रह्माण्डं सचराचरम् ।
मोहयत्यप्रयत्नेन मोचयत्यपि लीलया ॥ ९॥
अनया सह सर्वेशः सप्तविंशप्रकारया ।
विश्वं व्याप्य स्थितस्तस्मात् मुक्तिरत्र प्रवर्तते ॥ १०॥
मुमुक्षवः पुरा केचिन्मुनयो ब्रह्मवादिनः ।
संशयाविष्टमनसो विस्मृशन्ति यथातथम् ॥ ११॥
किं कारणं कुतो जाता जीवामः केन वा वयम् ।
कुत्रास्माकं सम्प्रतिष्ठा केन वाधिष्ठिता वयम् ॥ १२॥
केन वर्तामहे शश्वत्सुखेष्वन्येषु चानिशम् ।
अविलङ्घ्या च विश्वस्य व्यवस्था केन वा कृता ॥ १३॥
कालस्य भावो नियतिर्यदृच्छा नात्र युज्यते ।
भूतानि योनिः पुरुषो योगी चैषां परोऽथवा ॥ १४॥
अचेतनत्वात्कालादेश्चेतनत्वेऽपि चात्मनः ।
सुखदुःखानि भूतत्वादनीशत्वाद्विचार्यते ॥ १५॥
तद्ध्यानयोगानुगताः प्रपश्यन् शक्तिमैश्वरीम् ।
पाशविच्छेदिकां साक्षान्निगूढां स्वगुणैर्भृशम् ॥ १६॥
तया विच्छिन्नपाशास्ते सर्वकारणकारणम् ।
शक्तिमन्तं महादेवमपश्यन्दिव्यचक्षुषा ॥ १७॥
यः कारणान्यशेषाणि कालात्मसहितानि च ।
अप्रमेयोऽनया शक्त्या सकलं योऽधितिष्ठति ॥ १८॥
ततः प्रसादयोगेन योगेन परमेण च ।
दृष्टेन भक्तियोगेन दिव्यां गतिमवाप्नुयुः ॥ १९॥
तस्मात्सह तथा शक्त्या हृदि पश्यन्ति ये शिवम् ।
तेषां शाश्वतिकी शान्तिर्नैतरेषामिति श्रुतिः ॥ २०॥
न हि शक्तिमतः शक्त्या विप्रयोगोऽस्ति जातुचित् ।
तस्मात् शक्तेः शक्तिमतस्तादात्म्यान्निर्वृतिर्द्वयोः ॥ २१॥
क्रमो विवक्षितो नूनं विमुक्तौ ज्ञानकर्मणोः ।
प्रसादे सति सा मूर्तिर्यस्मात्करतले स्थिता ॥ २२॥
देवो वा दानवो वापि पशुर्वा विहगोऽपि वा ।
कीरो वाथ कृमिर्वापि मुच्यते तत्प्रसादतः ॥ २३॥
गर्भस्थो जायमानो वा बालो वा तरुणोऽपि वा ।
वृद्धो वा म्रियमाणो वा स्वर्गस्थो वाथ नारकी ॥ २४॥
पतितो वापि धर्मात्मा पण्डितो मूढ एव वा ।
प्रसादे तत्क्षणादेव मुच्यते नात्र संशयः ॥ २५॥
अयोग्यानां च कारुण्याद्भक्तानां परमेश्वरः ।
प्रसीदति न सन्देहो विगृह्य विविधान् मलान् ॥ २६॥
प्रसदादेव सा भक्तिः प्रसादो भक्तिसम्भवः ।
अवस्थाभेदमुत्प्रेक्ष्य विद्वांस्तत्र न मुह्यति ॥ २७॥