Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं

Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 1

७.२.६. षष्ठोऽध्यायः ।

शिवतत्त्ववर्णनम् ।

उपमन्युरुवाच ।

न शिवस्याणवो बन्धः कार्यो मायेय एव वा ।

प्राकृतो वाथ बोद्धा वा ह्यहङ्कारात्मकस्तथा ॥ १॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 2

नैवास्य मानसो बन्धो न चैत्तो नेन्द्रियात्मकः ।

न च तन्मात्रबन्धोऽपि भूतबन्धो न कश्चन ॥ २॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 3

न च कालः कला चैव नाविद्या नियतिस्तथा ।

न रागो न च विद्वेषः शम्भोरमिततेजसः ॥ ३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 4

न चास्त्यभिनिवेशोऽस्य कुशलाकुशलान्यपि ।

कर्माणि तद्विपाकश्च सुखदुःखे च तत्फले ॥ ४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 5

आशयैर्नापि सम्बन्धः संस्कारैः कर्मणामपि ।

भोगैश्च भोगसंस्कारैः कालत्रितयगोचरैः ॥ ५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 6

न तस्य कारणं कर्ता नादिरन्तस्तथान्तरम् ।

न कर्म करणं वापि नाकार्यं कार्यमेव च ॥ ६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 7

नास्य बन्धुरबन्धुर्वा नियन्ता प्रेरकोऽपि वा ।

न पतिर्न गुरुस्त्राता नाधिको न समस्तथा ॥ ७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 8

न जन्ममरणे तस्य न काङ्क्षितमकाङ्क्षितम् ।

न विधिर्न निषेधश्च न मुक्तिर्न च बन्धनम् ॥ ८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 9

नास्ति यद्यदकल्याणं तत्तदस्य कदाचन ।

कल्याणं सकलं चास्ति परमात्मा शिवो यतः ॥ ९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 10

स शिवः सर्वमेवेदमधिष्ठाय स्वशक्तिभिः ।

अप्रच्युतः स्वतो भावः स्थितः स्थाणुरतः स्मृतः ॥ १०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 11

शिवेनाधिष्ठितं यस्मात् जगत्स्थावरजङ्गमम् ।

सर्वरूपः स्मृतः शर्वस्तथा ज्ञात्वा न मुह्यति ॥ ११॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 12

शर्वो रुद्रो नमस्तस्मै पुरुषः सत्परो महान् ।

हिरण्यबाहुर्भगवान् हिरण्यपतिरीश्वरः ॥ १२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 13

अम्बिकापतिरीशानः पिनाकी वृषवाहनः ।

एको रुद्रः परं ब्रह्म पुरुषः कृष्णपिङ्गलः ॥ १३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 14

बालाग्रमात्रो हृन्मध्ये विचिन्त्यो दहरान्तरे ।

हिरण्यकेशः पद्माक्षो ह्यरुणस्ताम्र एव च ॥ १४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 15

योऽवसर्पत्यसौ देवो नीलग्रीवो हिरण्मयः ।

सौम्योऽघोरस्तथा मिश्रश्चाक्षारश्चामृतोऽव्ययः ॥ १५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 16

स पुंविशेषः परमो भगवानन्तकान्तकः ।

चेतनाचेतनोन्मुक्तः प्रपञ्चाच्च परात्परः ॥ १६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 17

शिवेनातिशयत्वेन ज्ञानैश्वर्ये विलोकिते ।

लोकेशातिशयत्वेन स्थितं प्राहुर्मनीषिणः ॥ १७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 18

प्रतिसर्गप्रसूतानां ब्रह्मणां शास्त्रविस्तरम् ।

उपदेष्टा स एवादौ कालावच्छेदवर्तिनाम् ॥ १८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 19

कालावच्छेदयुक्तानां गुरूणामप्यसौ गुरुः ।

सर्वेषामेव सर्वेशः कालावच्छेदवर्जितः ॥ १९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 20

शुद्धा स्वाभाविकी तस्य शक्तिः सर्वातिशायिनी ।

ज्ञानमप्रतिमं नित्यं वपुरत्यन्तनिर्मिलम् ॥ २०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 21

ऐश्वर्यमप्रतिद्वन्द्वं सुखमात्यन्तिकं बलम् ।

तेजःप्रभावो वीर्यं च क्षमा कारुण्यमेव च ॥ २१॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 22

परिपूर्णस्य सर्गाद्यैर्नात्मनोऽस्ति प्रयोजनम् ।

परानुग्रह एवास्य फलं सर्वस्य कर्मणः ॥ २२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 23

प्रणवो वाचकस्तस्य शिवस्य परमात्मनः ।

शिवरुद्रादिशब्दानां प्रणवो हि परः स्मृतः ॥ २३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 24

शम्भोः प्रणववाच्यस्य भवनात्तज्जपादपि ।

या सिद्धिः सा परा प्राप्या भवत्येव न संशयः ॥ २४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 25

तस्मादेकाक्षरं देवमाहुरागमपारगाः ।

वाच्यवाचकयोरैक्यं मन्यमाना मनस्विनः ॥ २५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 26

अस्य मात्राः समाख्याताश्चतस्रो वेदमूर्द्धनि ।

अकारश्चाप्युकारश्च मकारो नाद इत्यपि ॥ २६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 31: वायवीयसंहितायामुत्तरखण्डे शिवतत्त्ववर्णनं, Verse 27

अकारं बह्वृचं प्राहुरुकारो यजुरुच्यते ।

मकारः सामनादोऽस्य श्रुतिराथर्वणी स्मृता ॥ २७॥