Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो

Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 1

७.२.५. पञ्चमोऽध्यायः ।

पशुपतित्वज्ञानयोगः ।

उपमन्युरुवाच ।

विग्रहं देवदेवस्य विश्वमेतत् चराचरम् ।

तदेवं न विजानन्ति पशवः पाशगौरवात् ॥ १॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 2

तमेकमेव बहुधा वदन्ति यदुनन्दन ।

अजानन्तः परं भावमविकल्पं महर्षयः ॥ २॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 3

अपरं ब्रह्मरूपं च परं ब्रह्मात्मकं तथा ।

केचिदाहुर्महादेवमनादिनिधनं परम् ॥ ३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 4

भूतेन्द्रियान्तःकरणप्रधानविषयात्मकम् ।

अपरं ब्रह्म निर्दिष्टं परं ब्रह्म चिदात्मकम् ॥ ४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 5

बृहत्त्वाद् बृंहणत्वाद्वा ब्रह्म चेत्यभिधीयते ।

उभे ते ब्रह्मणो रूपे ब्रह्मणोऽधिपतेः प्रभोः ।

विद्याविद्यास्वरूपीति कैश्चिदीशो निगद्यते ॥ ५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 6

विद्यां तु चेतनां प्राहुस्तथाविद्यामचेतनाम् ।

विद्याविद्यात्मकं चैव विश्वं विश्वगुरोर्विभोः ॥ ६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 7

रूपमेव न सन्देहो विश्वं तस्य वशे यतः ।

भ्रान्तिर्विद्या परा चेति शार्वं रूपं परं विदुः ॥ ७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 8

अयथाबुद्धिरर्थेषु बहुधा भ्रान्तिरुच्यते ।

यथार्थाकारसंवित्तिर्विद्येति परिकीर्त्यते ॥ ८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 9

विकल्परहितं तत्त्वं परमित्यभिधीयते ।

वैपरीत्यादसत् शब्दः कथ्यते वेदवादिभिः ॥ ९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 10

तयोः पतित्वात्तु शिवः सदसत्पतिरुच्यते ।

क्षराक्षरात्मकं प्राहुः क्षराक्षरपरं परे ॥ १०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 11

क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ।

उभे ते परमेशस्य रूपे तस्य वशे यतः ॥ ११॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 12

तयोः परः शिवः शान्तः क्षराक्षरापरः स्मृतः ।

समष्टिव्यष्ठिरूपं च समष्टिव्यष्टिकारणम् ॥ १२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 13

वदन्ति मुनयः केचित् शिवं परमकारणम् ।

समष्टिमाहुरव्यक्तं व्यष्टिं व्यक्तं तथैव च ॥ १३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 14

ते रूपे परमेशस्य तदिच्छायाः प्रवर्तनात् ।

तयोः कारणभावेन शिवं परमकारणम् ॥ १४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 15

कारणार्थविदः प्राहुः समष्टिव्यष्टिकारणम् ।

जातिव्यक्तिस्वरूपीति कथ्यते कैश्चिदीश्वरः ॥ १५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 16

या पिण्डेऽप्यनुवर्तेत सा जातिरिति कथ्यते ।

व्यक्तिर्व्यावृत्तिरूपं तं पिण्डजातं समाश्रयम् ॥ १६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 17

जातयो व्यक्तयश्चैव तदाज्ञापरिपालिताः ।

यतस्ततो महादेवो जातिव्यक्तिवपुः स्मृतः ॥ १७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 18

प्रधानपुरुषव्यक्तकालात्मा कथ्यते शिवः ।

प्रधानं प्रकृतिं प्राहुःक्षेत्रज्ञं पुरुषं तथा ॥ १८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 19

त्रयोविंशतितत्त्वानि व्यक्तमाहुर्मनीषिणः ।

कालः कार्यप्रपञ्चस्य परिणामैककारणम् ॥ १९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 20

एषामीशोऽधिपो धाता प्रवर्तकनिवर्तकः ।

आविर्भावतिरोभावहेतुरेकः स्वराडजः ॥ २०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 21

तस्मात् प्रधानपुरुषव्यक्तकालस्वरूपवान् ।

हेतुर्नेताधिपस्तेषां धाता चोक्तो महेश्वरः ॥ २१॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 22

विराड् हिरण्यगर्भात्मा कैश्चिदीशो निगद्यते ।

हिरण्यगर्भो लोकानां हेतुर्विश्वात्मको विराट् ॥ २२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 23

अन्तर्यामी परश्चेति कथ्यते कविभिः शिवः ।

प्राज्ञस्तैजसविश्वात्मेत्यपरे सम्प्रचक्षते ॥ २३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 24

तुरीयमपरे प्राहुः सौम्यमेव परे विदुः ।

माता मानं च मेयं च मतिं चाहुरथापरे ॥ २४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 25

कर्ता क्रिया च कार्यं च करणं कारणं परे ।

जाग्रत्स्वप्नसुषुप्त्यात्मेत्यपरे सम्प्रचक्षते ॥ २५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 26

तुरीयमपरे प्राहुस्तुर्यातीतमितीतरे ।

तमाहुर्विगुणं केचिद्गुणवन्तं परे विदुः ॥ २६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 27

केचित्संसारिणं प्राहुस्तमसंसारिणं परे ।

स्वतन्त्रमपरे प्राहुरस्वतन्त्रं परे विदुः ॥ २७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 30: वायवीयसंहितायामुत्तरखण्डे पशुपतित्वज्ञानयोगो, Verse 28

घोरमित्यपरे प्राहुः सौम्यमेव परे विदुः ।

रागवन्तं परे प्राहुर्वीतरागं तथा परे ॥ २८॥