Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो

Containing 90 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 1

७.२.४. चतुर्थोऽध्यायः ।

गौरीशङ्करविभूतियोगः ।

श्रीकृष्ण उवाच ।

भगवन् परमेशस्य शर्वस्यामिततेजसः ।

मूर्तिभिर्विश्वमेवेदं यथा व्याप्तं तथा श्रुतम् ॥ १॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 2

अथैतत् ज्ञातुमिच्छामि याथात्म्यं परमेशयोः ।

स्त्रीपुम्भावात्मकं चेदं ताभ्यां कथमधिष्ठितम् ॥ २॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 3

उपमन्युरुवाच ।

श्रीमद्विभूतिं शिवयोर्याथात्म्यं च समासतः ।

वक्ष्ये तद्विस्तराद्वक्तुं भवेनापि न शक्यते ॥ ३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 4

शक्ति साक्षान्महादेवी महादेवश्च शक्तिमान् ।

तयोर्विभूतिलेशो वै सर्वमेतच्चराचरम् ॥ ४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 5

वस्तु किञ्चिदचिद्रूपं किञ्चिद्वस्तु चिदात्मकम् ।

द्वयं शुद्धमशुद्धं च परं चापरमेव च ॥ ५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 6

यत्संसरति चिच्चक्रमचिच्चक्रसमन्वितम् ।

तदेवाशुद्धमपरमितरं तु परं शुभम् ॥ ६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 7

अपरं च परं चैव द्वयं चिदचिदात्मकम् ।

शिवस्य च शिवायाश्च स्वाम्यं चैतत्स्वभावतः ॥ ७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 8

शिवयोर्वै वशे विश्वं न विश्वस्य वशे शिवौ ।

ईशितव्यमिदं यस्मात्तस्माद्विश्वेश्वरौ शिवौ ॥ ८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 9

यथा शिवस्तथा देवी यथा देवी तथा शिवः ।

नानयोरन्तरं विद्याच्चन्द्रचन्द्रिकयोरिव ॥ ९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 10

चन्द्रो न खलु भात्येष यथा चन्द्रिकया विना ।

न भाति विद्यमानोऽपि तथा शक्त्या विना शिवः ॥ १०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 11

प्रभया हि विना यद्वद्भानुरेष न विद्यते ।

प्रभा च भानुना तेन सुतरां तदुपाश्रया ॥ ११॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 12

एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता ।

न शिवेन विना शक्तिर्न शक्त्या च विना शिवः ॥ १२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 13

शक्तौ यया शिवो नित्यं भक्तौ मुक्तौ च देहिनाम् ।

आद्या सैका परा शक्तिश्चिन्मयी शिवसंश्रया ॥ १३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 14

यामाहुरखिलेशस्य तैस्तैरनुगुणैर्गुणैः ।

समानधर्मिणीमेव शिवस्य परमात्मनः ॥ १४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 15

सैका परा च चिद्रूपा शक्तिः प्रसवधर्मिणी ।

विभज्य बहुधा विश्वं विदधाति शिवेच्छया ॥ १५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 16

सा मूलप्रकृतिर्माया त्रिगुणा च त्रिधा स्मृता ।

शिवया च विपर्यस्तं यया ततमिदं जगत् ॥ १६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 17

एकधा च द्विधा चैव तथा शतसहस्रधा ।

शक्तयः खलु भिद्यन्ते बहुधा व्यवहारतः ॥ १७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 18

शिवेच्छया पराशक्तिः शिवतत्त्वैकतां गता ।

ततः परिस्फुरत्यादौ सर्गे तैलं तिलादिव ॥ १८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 19

ततः क्रियाख्यया शक्त्या शक्तौ शक्तिमदुत्थया ।

तस्यां विक्षोभ्यमाणायामादौ नादः समुद्बभौ ॥ १९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 20

नादाद्विनिःसृतो बिन्दुर्बिन्दोदेवः सदाशिवः ।

तस्मान् महेश्वरो जातः शुद्धविद्या महेश्वरात् ॥ २०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 21

सा वाचामीश्वरी शक्तिर्वागीशाख्या हि शूलिनः ।

या सा वर्णस्वरूपेण मातृकेऽपि विजृम्भते ॥ २१॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 22

अथानन्तसमावेशान्माया कालमवासृजत् ।

नियतिं च कलां विद्यां कलातो रागपूरुषौ ॥ २२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 23

मायातः पुनरेवाभूदव्यक्तं त्रिगुणात्मकम् ।

त्रिगुणाच्च ततोऽव्यक्ताद्विभक्ताः स्युस्त्रयो गुणाः ॥ २३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 24

सत्त्वं रजस्तमश्चेति यैर्व्याप्तमखिलं जगत् ।

गुणेभ्यः क्षोभ्यमाणेभ्यो गुणेशाख्यास्त्रिमूर्तयः ॥ २४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 25

अभवन् महदादीनि तत्त्वानि च यथाक्रमम् ।

तेभ्यः स्युरण्डपिण्डानि त्वसङ्ख्यानि शिवाज्ञया ।

अधिष्ठितान्यनन्ताद्यैर्विद्येशैश्चक्रवर्तिभिः ॥ २५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 26

शरीरान्तरभेदेन शक्तेर्भेदाः प्रकीर्तिताः ।

नानारूपास्तु विज्ञेयाः स्थूलसूक्ष्मविभेदतः ॥ २६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 27

रुद्रस्य रौद्री सा शक्तिर्विष्णौर्वै वैष्णवी मता ।

ब्रह्माणी ब्रह्मणः प्रोक्ता चेन्द्रस्यैन्द्रीति कथ्यते ॥ २७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 29: वायवीयसंहितायामुत्तरखण्डे गौरीशङ्करविभूतियोगो, Verse 28

किमत्र बहुनोक्तेन यद्विश्वमिति कीर्तितम् ।

शक्यात्मनैव तद्व्याप्तं यथा देहेऽन्तरात्मना ॥ २८॥