Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 1

७.२.३. तृतीयोऽध्यायः ।

ऋष्णायोपमन्योरुपदेशवर्णनम् ।

उपमन्युरुवाच ।

श‍ृणु कृष्ण महेशस्य शिवस्य परमात्मनः ।

मूर्त्यात्मभिस्ततं कृत्स्नं जगदेतच्चराचरम् ॥ १॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 2

स शिवः सर्वमेवेदं स्वकीयाभिश्च मूर्तिभिः ।

अधितिष्ठत्यमेयात्मा ह्येतत्सर्वमनुस्मृतम् ॥ २॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 3

ब्रह्मा विष्णुस्तथा रुद्रो महेशानः सदाशिवः ।

मूर्तयस्तस्य विज्ञेया याभिर्विश्वमिदं ततम् ॥ ३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 4

अथान्याश्चापि तनवः पञ्च ब्रह्मसमाह्वयाः ।

तनूभिस्ताभिराव्याप्तमिह किञ्चिन्न विद्यते ॥ ४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 5

ईशानः पुरुषोऽघोरो वामः सद्यस्तथैव च ।

ब्रह्माण्येतानि देवस्य मूर्तयः पञ्च विश्रुताः ॥ ५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 6

ईशानाख्या तु या तस्य मूर्तिराद्या गरीयसी ।

भोक्तारं प्रकृतेः साक्षात् क्षेत्रज्ञमधितिष्ठति ॥ ६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 7

स्थाणोस्तत्पुरुषाख्या या मूर्तिर्मूर्तिमतः प्रभोः ।

गुणाश्रयात्मकं भोग्यमव्यक्तमधितिष्ठति ॥ ७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 8

धर्माद्यष्टाङ्गसंयुक्तं बुद्धितत्त्वं पिनाकिनः ।

अधितिष्ठत्यघोराख्या मूर्तिरत्यन्तपूजिता ॥ ८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 9

वामदेवाह्वयां मूर्तिं महादेवस्य वेधसः ।

अहङ्कृतेरधिष्ठात्रीमाहुरागमवेदिनः ॥ ९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 10

सद्यो जाताह्वयां मूर्तिं शम्भोरमितवर्चसः ।

मानसः समधिष्ठात्रीं मतिमन्तः प्रचक्षते ॥ १०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 11

श्रोत्रस्य वाचः शब्दस्य विभोर्व्योम्नस्तथैव च ।

ईश्वरीमीश्वरस्येमामीशाख्यां हि विदुर्बुधाः ॥ ११॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 12

त्वक्पाणिस्पर्शवायूनामीश्वरीं मूर्तिमैश्वरीम् ।

पुरुषाख्यं विदुः सर्वे पुराणार्थविशारदाः ॥ १२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 13

चक्षुषश्चरणस्यापि रूपस्याग्नेस्तथैव च ।

अघोराख्यामधिष्ठात्रीं मूर्तिमाहुर्मनीषिणः ॥ १३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 14

रमनायाश्च पायोश्च रसस्यापां तथैव च ।

ईश्वरीं वामदेवाख्यां मूर्तिं तन्निरतां विदुः ॥ १४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 15

घ्राणस्य चैवोपस्थस्य गन्धस्य च भुवस्तथा ।

सद्योज्ञाताह्वयां मूर्तिमीश्वरीं सम्प्रचक्षते ॥ १५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 16

मूर्तयः पञ्च देवस्य वन्दनीयाः प्रयत्नतः ।

श्रेयोऽर्थिभिर्नरैर्नित्यं श्रेयसामेकहेतवः ॥ १६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 17

तस्य देवादिदेवस्य मूर्त्यष्टकमयं जगत् ।

तस्मिन् व्याप्य स्थितं विश्वं सूत्रे मणिगणा इव ॥ १७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 18

शर्वो भवस्तथा रुद्र उग्रो भीमः पशोः पतिः ।

ईशानश्च महादेवो मूर्तयश्चाष्ट विश्रुताः ॥ १८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 19

भूम्यम्भोऽग्निमरुद्व्योमक्षेत्रज्ञार्कनिशाकराः ।

अधिष्ठिता महेशस्य शर्वाद्यैरष्टमूर्तिभिः ॥ १९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 20

चराचरात्मकं विश्वं धत्ते विश्वम्भरात्मिका ।

शार्वी र्शिवाह्वया मूर्तिरिति शास्त्रस्य निश्चयः ॥ २०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 21

सञ्जीवनं समस्तस्य जगतः सलिलात्मिकाज् ।

भावीति गीयते मूर्तिभवस्य परमात्मनः ॥ २१॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 22

बहिरन्तर्गता विश्वं व्याप्य तेजोमयी शुभा ।

रौद्री रुद्राव्यया मूर्तिरास्थिता घोररूपिणी ॥ २२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 23

स्पन्दयत्यनिलात्मेदं बिभर्ति स्पन्दते स्वयम् ।

औग्रीति कथ्यते सद्भिर्मूर्तिरुग्रस्य वेधसः ॥ २३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 24

सर्वावकाशदा सर्वव्यापिका गगनात्मिका ।

मूर्तिर्भीमस्य भीमाख्या भूतवृन्दस्य भेदिका ॥ २४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 25

सर्वात्मनामधिष्ठात्री सर्वक्षेत्रनिवासिनी ।

मूर्तिः पशुपतेर्ज्ञेया पशुपाशनिकृन्तनी ॥ २५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 26

दीपयन्ती जगत्सर्वं दिवाकरसमाह्वया ।

ईशानाख्या महेशस्य मूर्तिर्दिवि विसर्पति ॥ २६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 28: वायवीयसंहितायामुत्तरखण्डे कृष्णायोपमन्योरुपदेशवर्णनं, Verse 27

आप्याययति यो विश्वममृतांशुर्निशाकरः ।

महादेवस्य सा मूर्तिर्महादेवसमाह्वया ॥ २७॥