७ वायवीयसंहिता, अध्याय 26: चतुर्विंशतिसाहस्र्यां संहितायां तदन्तर्गतायां सप्तम्यां वायवीयसंहितायां पूर्वखण्डे उपमन्युचरितवर्णनं, Verse 1
७.१.३४ ॥
श्रीगणेशाय नमः ॥
Containing 68 sacred Sanskrit shlokas with multi-author commentaries and translations.
७.१.३४ ॥
श्रीगणेशाय नमः ॥
७.१.३५. पञ्चत्रिंशोऽध्यायः ।
उपमन्युचरितवर्णनम् ।
वायुरुवाच ।
अथ सर्वे प्रदीप्ताङ्गा वैकुण्ठं प्रययुर्द्रुतम् ।
प्रणम्याहुश्च तत्सर्वं हरये देवसत्तमाः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
श्रुत्वा तेषां तदा वाक्यं भगवान्पुरुषोत्तमः ।
किमिदं त्विति सञ्चिन्त्य ज्ञात्वा तत्कारणं च सः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
जगाम मन्दरं तूर्णं महेश्वरदिदृक्षया ।
दृष्ट्वा देवं प्रणम्यैवं प्रोवाच सुकृताञ्जलिः ॥ ३॥
विष्णुरुवाच ।
भगवन्ब्राह्मणः कश्चिदुपमन्युरिति श्रुतः ।
क्षीरार्थमदहत्सर्वं तपसा तन्निवारय ॥ ४॥
वायुरुवाच ।
इति श्रुत्वा वचो विष्णोः प्राह देवो महेश्वरः ।
शिशुं निवारयिष्यामि तत्त्वं गच्छ स्वमाश्रमम् ॥ ५॥
तच्छ्रुत्वा शम्भुवचनं स विष्णुर्देववल्लभः ।
जगामाश्वास्य तान्सर्वान् स्वलोकममरादिकान् ॥ ६॥
एतस्मिन्नन्तरे देवः पिनाकी परमेश्वरः ।
शक्रस्य रूपमास्थाय गन्तुं चक्रे मतिं ततः ॥ ७॥
अथ जगाम मुनेस्तु तपोवनं गजवरेण सितेन सदाशिवः ।
सह सुरासुरसिद्धमहोरगै- रमरराजतनुं स्वयमास्थितः ॥ ८॥
स वारणश्चारु तदा विभुं तं निवीज्य वालव्यजनेन दिव्यम् ।
दधार शच्या सहितं सुरेन्द्रं करेण वामेन सितातपत्रम् ॥ ९॥
रराज भगवान्सोमः शक्ररूपी सदाशिवः ।
तेनातपत्रेण यथा चन्द्रबिम्बेन मन्दरः ॥ १०॥
आस्थायैवं हि शक्रस्य स्वरूपं परमेश्वरः ।
जगामानुग्रहं कर्तुमुपमन्योस्तदाश्रमम् ॥ ११॥
तं दृष्ट्वा परमेशानं शक्ररूपधरं शिवम् ।
प्रणम्य शिरसा प्राह महामुनिवरः स्वयम् ॥ १२॥
उपमन्युरुवाच ।
पावितश्चाश्रमः सोऽयं मम देवेश्वर स्वयम् ।
प्राप्तो यत्त्वं जगन्नाथ भगवन्देवसत्तम ॥ १३॥
वायुरुवाच ।
एवमुक्त्वा स्थितं प्रेक्ष्य कृताञ्जलिपुटं द्विजम् ।
प्राह गम्भीरया वाचा शक्ररूपधरो हरः ॥ १४॥
शक्र उवाच ।
तुष्टोऽस्मि ते वरं ब्रूहि तपसाऽनेन सुव्रत ।
ददामि चेप्सितान्सर्वान् धौम्याग्रज महामुने ॥ १५॥
वायुरुवाच ।
एवमुक्तस्तदा तेन शक्रेण मुनिपुङ्गवः ।
वरयामि शिवे भक्तिमित्युवाच कृताञ्जलिः ॥ १६॥
तन्निशम्य हरिः प्राह मां न जानासि लेखपम् ।
त्रैलोक्याधिपतिं शक्रं सर्वदेवनमस्कृतम् ॥ १७॥
मद्भक्तो भव विप्रर्षे मामेवार्चय सर्वदा ।
ददामि सर्वं भद्रं ते त्यज रुद्रं च निर्गुणम् ॥ १८॥
रुद्रेण निर्गुणेनापि किं ते कार्यं भविष्यति ।
देवपङ्क्तिबहिर्भूतो यः पिशाचत्वमागतः ॥ १९॥
वायुरुवाच ।
तच्छ्रुत्वा प्राह स मुनिर्जपन्पञ्चाक्षरं मनुम् ।
मन्यमानो धर्मविघ्नं प्राह तं कर्तुमागतम् ॥ २०॥
उपमन्युरुवाच ।
त्वयैवं कथितं सर्वं भवनिन्दारतेन वै ।
प्रसङ्गादेव देवस्य निर्गुणत्वं महात्मनः ॥ २१॥
त्वं न जानामि वै रुद्रं सर्वदेवेश्वरेश्वरम् ।
ब्रह्मविष्णुमहेशानां जनकं प्रकृतेः परम् ॥ २२॥
सदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः ।
नित्यमेकमनेकं च वरं तस्माद् वृणोम्यहम् ॥ २३॥
हेतुवादविनिर्मुक्तं साङ्ख्ययोगार्थदं परम् ।
उपासते यं तत्त्वज्ञा वरं तस्माद् वृणोम्यहम् ॥ २४॥
नास्ति शम्भोः परं तत्त्वं सर्वकारणकारणात् ।
ब्रह्मविष्ण्वादिदेवानां स्रष्टुर्गुणपराद्विभोः ॥ २५॥
बहुनात्र किमुक्तेन मयाद्यानुमितं महत् ।
भवान्तरे कृतं पापं श्रुता निन्दा भवस्य चेत् ॥ २६॥
श्रुत्वा निन्दां भवस्याथ तत्क्षणादेव सन्त्यजेत् ।
स्वदेहं तन्निहत्याशु शिवलोकं स गच्छति ॥ २७॥