२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 10: रुद्र संहितायां प्रथमखण्डे सृष्ट्युपाख्याने पूजाविधिवर्णने सारासारविचारवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 181 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
२.१.११. एकादशोऽध्यायः ।
शिवपूजाविधिवर्णनम् ।
ऋषय ऊचुः ।
सूत सूत महाभाग व्यासशिष्य नमोऽस्तु ते ।
श्राविताद्याद्भुता शैवी कथा परमपावनी ॥ १॥
२.१.१२. द्वादशोऽध्यायः ।
पूजाविधिवर्णने सारासारविचारवर्णनम् ।
नारद उवाच ।
ब्रह्मन्प्रजापते तात धन्यस्त्वं शिवसक्तधीः ।
एतदेव पुनः सम्यग्ब्रूहि मे विस्तराद्विधे ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
तत्राद्भुता महादिव्या लिङ्गोत्पत्तिः श्रुता शुभा ।
श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह ॥ २॥
ब्रह्मोवाच ।
एकस्मिन्समये तात ऋषीनाहूय सर्वतः ।
निर्जरांश्चावदं प्रीत्या सुवचः पद्मसम्भवः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
ब्रह्मनारदसंवादमनुसृत्य दयानिधे ।
शिवार्चनविधिं ब्रूहि येन तुष्टो भवेच्छिवः ॥ ३॥
यदि नित्यसुखे श्रद्धा यदि सिद्धेश्च कामुकाः ।
आगन्तव्यं मया सार्धं तीरं क्षीरपयोनिधेः ॥ ३॥
॥
द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैर्वा पूज्यते शिवः ।
कथं कार्यं च तद् ब्रूहि यथा व्यासमुखाच्छ्रुतम् ॥ ४॥
इत्येतद्वचनं श्रुत्वा गतास्ते हि मया सह ।
यत्रास्ते भगवान्विष्णुः सर्वेषां हितकारकः ॥ ४॥
तच्छ्रुत्वा वचनं तेषां शर्मदं श्रुतिसम्मतम् ।
उवाच सकलं प्रीत्या मुनिप्रश्नानुसारतः ॥ ५॥
तत्र गत्वा जगन्नाथं देवदेवं जनार्दनम् ।
उपतस्थुः सुरा नत्वा सुकृताञ्जलयो मुने ॥ ५॥
सूत उवाच ।
साधु पृष्टं भवद्भिश्च तद्रहस्यं मुनीश्वराः ।
तदहं कथयाम्यद्य यथाबुद्धि यथाश्रुतम् ॥ ६॥
तान्दृष्ट्वा च तदा विष्णुर्ब्रह्माद्यानमरान्स्थितान् ।
स्मरन् शिवपदाम्भोजमब्रवीत्परमं वचः ॥ ६॥
भवद्भिः पृच्छ्यते यद्वत्तथा व्यासेन वै पुरा ।
पृष्टं सनत्कुमाराय तच्छ्रुतं ह्युपमन्युना ॥ ७॥
विष्णुरुवाच ।
किमर्थमागता यूयं ब्रह्माद्याश्च सुरर्षयः ।
सर्वं वदत तत्प्रीत्या किं कार्यं विद्यतेऽधुना ॥ ७॥
ततो व्यासेन वै श्रुत्वा शिवपूजादिकं च यत् ।
मह्यं च पाठितं तेन लोकानां हितकाम्यया ॥ ८॥
विनिवेदयितुं कार्यं ह्यब्रुवन्वचनं शुभम् ॥ ८॥
तच्छ्रुतं चैव कृष्णेन ह्युपमन्योर्महात्मनः ।
तदहं कथयिष्यामि यथा ब्रह्मावदत्पुरा ॥ ९॥
देवा ऊचुः ।
नित्यं सेवा तु कस्यैव कार्या दुःखापहारिणी ॥ ९॥
ब्रह्मोवाच ।
शृणु नारद वक्ष्यामि सङ्क्षेपाल्लिङ्गपूजनम् ।
वक्तुं वर्षशतेनापि न शक्यं विस्तरान्मुने ॥ १०॥
इत्येतद्वचनं श्रुत्वा भगवान्भक्तवत्सलः ।
सामरस्य मम प्रीत्या कृपया वाक्यमब्रवीत् ॥ १०॥
एवं तु शाङ्करं रूपं सुखं स्वच्छं सनातनम् ।
पूजयेत्परया भक्त्या सर्वकामफलाप्तये ॥ ११॥
श्रीभगवानुवाच ।
ब्रह्मन् शृणु सुरैः सम्यक् श्रुतं च भवता पुरा ।
तथापि कथ्यते तुभ्यं देवेभ्यश्च तथा पुनः ॥ ११॥
दारिद्र्यं रोगदुःखं च पीडनं शत्रुसम्भवम् ।
पापं चतुर्विधं तावद्यावन्नार्चयते शिवम् ॥ १२॥
दृष्टं च दृश्यतेऽद्यैव किं पुनः पृच्छ्यतेऽधुना ।
ब्रह्मन्देवैः समस्तैश्च बहुधा कार्यतत्परैः ॥ १२॥
सम्पूजिते शिवे देवे सर्वदुःखं विलीयते ।
सम्पद्यते सुखं सर्वं पश्चान्मुक्तिरवाप्यते ॥ १३॥
सेव्यः सेव्यः सदा देवः शङ्करः सर्वदुःखहा ।
ममापि कथितं तेन ब्रह्मणोऽपि विशेषतः ॥ १३॥