७ वायवीयसंहिता, अध्याय 25: वायवीयसंहितायां पूर्वखण्डे उपमन्युतपोवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 62 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.१.३४. चतुस्त्रिंशोऽध्यायः ।
उपमन्युतपोवर्णनम् ।
ऋषय ऊचुः ।
धौम्याग्रजेन शिशुना क्षीरार्थं हि तपः कृतम् ।
तस्मात् क्षीरार्णवो दत्तस्तस्मै देवेन शूलिना ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
स कथं शिशुको लेभे शिवशास्त्रप्रवक्तृताम् ।
कथं वा शिवसद्भावं ज्ञात्वा तपसि निष्ठितः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
कथं च लब्धविज्ञानस्तपश्चरणपर्वणि ।
रुद्राग्नेर्यत्परं वीर्यं लभे भस्म स्वरक्षकम् ॥ ३॥
वायुरुवाच ।
न ह्येष शिशुकः कश्चित्प्राकृतः कृतवांस्तपः ।
मुनिवर्यस्य तनयो व्याघ्रपादस्य धीमतः ॥ ४॥
जन्मान्तरेण संसिद्धः केनापि खलु हेतुना ।
स्वपदप्रच्युतो दिष्ट्या प्राप्तो मुनिकुमारताम् ॥ ५॥
महादेवप्रसादस्य भाग्यापन्नस्य भाविनः ।
दुग्धाभिलाषप्रभवद्वारतामगमत्तपः ॥ ६॥
अतः सर्वगणेशत्वं कुमारत्वं च शाश्वतम् ।
सह दुग्धाब्धिना तस्मै प्रददौ शङ्करः स्वयम् ॥ ७॥
तस्य ज्ञानागमोऽप्यस्य प्रसादादेव शाङ्करात् ।
कौमारं हि परं साक्षाज्ज्ञानं शक्तिमयं विदुः ॥ ८॥
शिवशास्त्रप्रवक्तृत्वमपि तस्य हि तत्कृतम् ।
कुमारोमुखतो लब्धज्ञानाब्धेरिव नन्दिनः ॥ ९॥
दृष्टं तु कारणं तस्य शिवज्ञानसमन्वये ।
स्वमातृवचनं साक्षाच्छोकजं क्षीरकारणात् ॥ १०॥
कदाचित्क्षीरमत्यल्पं पीतवान्मातुलाश्रमे ।
ईर्ष्यया मातुलसुतं सन्तृप्तक्षीरमुत्तमम् ॥ ११॥
पीत्वा स्थितं यथाकामं दृष्ट्वा वै मातुलात्मजम् ।
उपमन्युर्व्याघ्रपादिः प्रीत्या प्रोवाच मातरम् ॥ १२॥
उपमन्युरुवाच ।
मातर्मातर्महाभागे मम देहि तपस्विनि ।
गव्यं क्षीरमतिस्वादु नाल्पमुष्णं पिबाम्यहम् ॥ १३॥
वायुरुवाच ।
तच्छ्रुत्वा पुत्रवचनं तन्माता च तपस्विनी ।
व्याघ्रपादस्य महिषी दुःखमापत्तदा च सा ॥ १४॥
उपलाल्याथ सुप्रीत्या पुत्रमालिङ्ग्य सादरम् ।
दुःखिता विललापाथ स्मृत्वा नैर्धन्यमात्मनः ॥ १५॥
स्मृत्वा स्मृत्वा पुनः क्षीरमुपमन्युः स बालकः ।
देहि देहीति तामाह रुद्रन्भूयो महाद्युतिः ॥ १६॥
तद् हठं सा परिज्ञाय द्विजपत्नी तपस्विनी ।
शान्तये तद् हठस्याथ शुभोपायमरीरचत् ॥ १७॥
उञ्छवृत्त्यार्जितान्बीजान्स्वयं दृष्ट्वा च सा तदा ।
बीजपिष्टमथालोड्य तोयेन कलभाषिणी ॥ १८॥
एह्येहि मम पुत्रेति सामपूर्वं ततः सुतम् ।
आलिङ्ग्यादाय दुःखार्ता प्रददौ कृत्रिमं पयः ॥ १९॥
पीत्वा च कृत्रिमं क्षीरं मात्रां दत्तं स बालकः ।
नैतत्क्षीरमिति प्राह मातरं चातिविह्वलः ॥ २०॥
दुःखिता सा तदा प्राह सम्प्रेक्ष्याघ्राय मूर्द्धनि ।
सम्मार्ज्य नेत्र पुत्रस्य कराभ्यां कमलायते ॥ २१॥
जनन्युवाच ।
तटिनी रत्नपूर्णास्ताः स्वर्गपातालगोचराः ।
भाग्यहीना न पश्यन्ति भक्तिहीनाश्च ये शिवे ॥ २२॥
राज्यं स्वर्गं च मोक्षं च भोजनं क्षीरसम्भवम् ।
न लभन्ते प्रियाण्येषां न तुष्यति यदा शिवः ॥ २३॥
भवप्रसादजं सर्वं नान्यद्देवप्रसादजम् ।
अन्यदेवेषु निरता दुःखार्ता विभ्रमन्ति च ॥ २४॥
क्षीरं तत्र कुतोऽस्माकं वने निवसतां सदा ।
क्व दुग्धसाधनं वत्स क्व वयं वनवासिनः ॥ २५॥
कृत्स्नाभावेन दारिद्र्यान्मया ते भाग्यहीनया ।
मिथ्यादुग्धमिदं दत्तं पिष्टमालोड्य वारिणा ॥ २६॥
त्वं मातुलगृहे स्वल्पं पीत्वा स्वादु पयः श्रुतम् ।
ज्ञात्वा स्वादु त्वया पीतं तज्जातीयमनुस्मरन् ॥ २७॥