७ वायवीयसंहिता, अध्याय 24: वायवीयसंहितायां पूर्वखण्डे पशुपतिव्रतविधानवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 101 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.१.३३. त्रयस्त्रिंशोऽध्यायः ।
पशुपतिव्रतविधानवर्णनम् ।
ऋषय ऊचुः ।
भगवञ्छ्रोतुमिच्छामो व्रतं पाशुपतं परम् ।
ब्रह्मादयोऽपि यत्कृत्वा सर्वे पाशुपताः स्मृताः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
वायुरुवाच ।
रहस्यं वः प्रवक्ष्यामि सर्वपापनिकृन्तनम् ।
व्रतं पाशुपतं श्रौतमथर्वशिरसि श्रुतम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
कालश्चैत्री पौर्णमासी देशः शिवपरिग्रहः ।
क्षेत्रारामाद्यरण्यं वा प्रशस्तः शुभलक्षणः ॥ ३॥
तत्र पूर्वं त्रयोदश्यां सुस्नातः सुकृताह्निकः ।
अनुज्ञाप्य स्वमाचार्यं सम्पूज्य प्रणिपत्य च ॥ ४॥
पूजां वैशेषिकीं कृत्वा शुक्लाम्बरधरः स्वयम् ।
शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः ॥ ५॥
दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च ।
प्राणायामत्रयं कृत्वा प्राङ्मुखो वाप्युदङ्मुखः ।
ध्यात्वा देवं च देवीं च तद्विज्ञापनवर्त्मना ॥ ६॥
व्रतमेतत्करोमीति भवेत्सङ्कल्प्य दीक्षितः ।
यावच्छरीरपातं वा द्वादशाब्दमथापि वा ॥ ७॥
तदर्धं वा तदर्धं वा मासद्वादशकं तु वा ।
तदर्धं वा तदर्धं वा मासमेकमथापि वा ॥ ८॥
दिनद्वादशकं वाथ दिनषट्कमथापि वा ।
तदर्धं दिनमेकं वा व्रतसङ्कल्पनावधि ॥ ९॥
अग्निमाधाय विधिवद्विरजाहोमकारणात् ।
हुत्वाज्येन समिद्भिश्च चरुणा च यथाक्रमम् ॥ १०॥
पूर्णामापूर्य तां भूयस्तत्त्वानां शुद्धिमुद्दिशन् ।
जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः ॥ ११॥
तत्त्वान्येतानि मद्देहे शुद्ध्यन्तामित्यनुस्मरन् ।
पञ्चभूतानि तन्मात्राः पञ्चकर्मेन्द्रियाणि च ॥ १२॥
ज्ञानकर्मविभेदेन पञ्चकर्मविभागशः ।
त्वगादिधातवः सप्त पञ्च प्राणादिवायवः ॥ १३॥
मनोबुद्धिरहङ्ख्यातिर्गुणाः प्रकृतिपूरुषौ ।
रागो विद्याकले चैव नियतिः काल एव च ॥ १४॥
माया च शुद्धिविद्या च महेश्वरसदाशिवौ ।
शक्तिश्च शिवतत्त्वं च तत्त्वानि क्रमशो विदुः ॥ १५॥
मन्त्रैस्तु विरजैर्हुत्वा होतासौ विरजा भवेत् ।
शिवानुग्रहमासाद्य ज्ञानवान्स हि जायते ॥ १६॥
अथ गोमयमादाय पिण्डीकृत्याभिमन्त्र्य च ।
विन्यस्याग्नौ च सम्प्रोक्ष्य दिने तस्मिन्हविष्यभुक् ॥ १७॥
प्रभाते तु चतुर्दश्यां कृत्वा सर्वं पुरोदितम् ।
दिने तस्मिन्निराहारः कालं शेषं समापयेत् ॥ १८॥
प्रातः पर्वणि चाप्येवं कृत्वा होमावसानतः ।
उपसंहृत्य रुद्राग्निं गृह्णीयाद्भस्म यत्नतः ॥ १९॥
ततश्च जटिलो मुण्डी शिखैकजट एव वा ।
भूत्वा स्नात्वा ततो वीतलज्जश्चेत्स्याद्दिगम्बरः ॥ २०॥
अपि काषायवसनश्चर्मचीराम्बरोऽथ वा ।
एकाम्बरो वल्कली वा भवेद्दण्डी च मेखली ॥ २१॥
प्रक्षाल्य चरणौ पश्चाद् द्विराचम्यात्मनस्तनुम् ।
सङ्कुलीकृत्य तद्भस्म विरजानलसम्भवम् ॥ २२॥
अग्निरित्यादिभिर्मन्त्रैः षड्भिराथर्वणैः क्रमात् ।
विमृज्याङ्गानि मूर्द्धादिचरणान्तानि तैः स्पृशेत् ॥ २३॥
ततस्तेन क्रमेणैव समुद्धृत्य च भस्मना ।
सर्वाङ्गोद्धूलनं कुर्यात्प्रणवेन शिवेन वा ॥ २४॥
ततस्त्रिपुण्ड्रं रचयेत्त्रियायुषसमाह्वयम् ।
शिवभावं समागम्य शिवयोगमथाचरेत् ॥ २५॥
कुर्यात् त्रिसन्ध्यमप्येवमेतत्पाशुपतं व्रतम् ।
भुक्तिमुक्तिप्रदं चैतत्पशुत्वं विनिवर्तयेत् ॥ २६॥
तत्पशुत्वं परित्यज्य कृत्वा पाशुपतं व्रतम् ।
पूजनीयो महादेवो लिङ्गमूर्तिः सनातनः ॥ २७॥