७ वायवीयसंहिता, अध्याय 19: वायवीयसंहितायां पूर्वखण्डे शिवमन्दरगिरिनिवासक्रीडोक्तिवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.१.२४. चतुर्विंशोऽध्यायः ।
शिवमन्दरगिरिनिवासक्रीडोक्तिवर्णनम् ।
ऋषय ऊचुः ।
अन्तर्धानगतो देव्या सह सानुचरो हरः ।
क्व यातः कुत्र वा वासः किं कृत्वा विरराम ह ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
वायुरुवाच ।
महीधरवरः श्रीमान् मन्दरश्चित्रकन्दरः ।
दयितो देवदेवस्य निवासस्तपसोऽभवत् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
तपो महत्कृतं तेन वोढुं स्वशिरसा शिवौ ।
चिरेण लब्धं तत्पादपङ्कजस्पर्शजं सुखम् ॥ ३॥
तस्य शैलस्य सौन्दर्यं सहस्रवदनैरपि ।
न शक्यं विस्तराद्वक्तुं वर्षकोटिशतैरपि ॥ ४॥
शक्यमप्यस्य सौन्दर्यं न वर्णयितुमुत्सहे ।
पर्वतान्तरसौन्दर्यं साधारणविधारणात् ॥ ५॥
इदं तु शक्यते वक्तुमस्मिन्पर्वतसुन्दरे ।
ऋद्ध्या कयापि सौन्दर्यमीश्वरावासयोग्यता ॥ ६॥
अत एव हि देवेन देव्याः प्रियचिकीर्षया ।
अतीव रमणीयोऽयं गिरिरन्तःपुरीकृतः ॥ ७॥
मेखलाभूमयस्तस्य विमलोपलपादपाः ।
शिवयोर्नित्यसान्निध्यान्न्यक्कुर्वन्त्यखिलं जगत् ॥ ८॥
पितृभ्यां जगतो नित्यं स्नानपानोपयोगतः ।
अवाप्तपुण्यसंस्कारः प्रसरद्भिरितस्ततः ॥ ९॥
लघुशीतलसंस्पर्शैरच्छाच्छैर्निर्झराम्बुभिः ।
अधिराज्येन चाद्रीणामद्रीरेषोऽभिषिच्यते ॥ १०॥
निशासु शिखरप्रान्तर्वर्तिना स शिलोच्चयः ।
चन्द्रेणाचलसाम्राज्यच्छत्रेणेव विराजते ॥ ११॥
स शैलश्चञ्चलीभूतैर्बालैश्चामरयोषिताम् ।
सर्वपर्वतसाम्राज्यचामरैरिव वीज्यते ॥ १२॥
प्रातरभ्युदिते भानौ भूधरो रत्नभूषितः ।
दर्पणे देहसौभाग्यं द्रष्टुकाम इव स्थितः ॥ १३॥
कूजद्विहङ्गवाचालैर्वातोद्धृतलताभुजैः ।
विमुक्तपुष्पैः सततं व्यालम्बिमृदुपल्लवैः ॥ १४॥
लताप्रतानजटिलैस्तरुभिस्तापसैरिव ।
जयाशिषा सहाभ्यर्च्य निषेव्यत इवाद्रिराट् ॥ १५॥
अधोमुखैरूर्ध्वमुखैः शृङ्गैस्तिर्यङ्मुखैस्तथा ।
प्रपतन्निव पाताले भूपृष्ठादुत्पतन्निव ॥ १६॥
परीतः सर्वतो दिक्षु भ्रमन्निव विहायसि ।
पश्यन्निव जगत्सर्वं नृत्यन्निव निरन्तरम् ॥ १७॥
गुहामुखैः प्रतिदिनं व्यात्तास्यो विपुलोदरैः ।
अजीर्णलावण्यतया जृम्भमाण इवाचलः ॥ १८॥
ग्रसन्निव जगत्सर्वं पिबन्निव पयोनिधिम् ।
वमन्निव तमोऽन्तस्थं माद्यन्निव खमम्बुदैः ॥ १९॥
निवासभूमयस्तास्ता दर्पणप्रतिमोदराः ।
तिरस्कृतातपाः स्निग्धाश्रमच्छायामहीरुहाः ॥ २०॥
सरित्सरस्तडागादिसम्पर्कशिशिरानिलाः ।
तत्र तत्र निषण्णाभ्यां शिवाभ्यां सफलीकृताः ॥ २१॥
तमिमं सर्वतः श्रेष्ठं स्मृत्वा साम्बस्त्रियम्बकः ।
रैभ्याश्रमसमीपस्थश्चान्तर्धानं गतो ययौ ॥ २२॥
तत्रोद्यानमनुप्राप्य देव्या सह महेश्वरः ।
रराम रमणीयासु देव्यान्तःपुरभूमिषु ॥ २३॥
तथा गतेषु कालेषु प्रवृद्धासु प्रजासु च ।
दैत्यौ शुम्भनिशुम्भाख्यौ भ्रातरौ सम्बभूवतुः ॥ २४॥
ताभ्यां तपोबलाद्दत्तं ब्रह्मणा परमेष्ठिना ।
अवध्यत्वं जगत्यस्मिन्पुरुषैरखिलैरपि ॥ २५॥
अयोनिजा तु या कन्या ह्यम्बिकांशसमुद्भवा ।
अजातपुंस्पर्शरतिरविलङ्घ्यपराक्रमा ॥ २६॥
तया तु नौ वधः सङ्ख्ये तस्यां कामाभिभूतयोः ।
इति चाभ्यर्थितो ब्रह्मा ताभ्यां प्राह तथास्त्विति ॥ २७॥