७ वायवीयसंहिता, अध्याय 18: वायवीयसंहितायां पूर्वखण्डे गिरिशानुनयो, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.१.२३. त्रयोविंशोऽध्यायः ।
गिरिशानुनयः ।
वायुरुवाच ।
इति सञ्छिन्नभिन्नाङ्गा देवा विष्णुपुरोगमाः ।
क्षणात्कष्टां दशामेत्य त्रेसुः स्तोकावशेषिताः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
त्रस्तांस्तान्समरे वीरान् देवानन्यांश्च वै गणाः ।
प्रमथाः परमक्रुद्धा वीरभद्रप्रणोदिताः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
प्रगृह्य च तथा दोषं निगडैरायसैर्दृढैः ।
बबन्धुः पाणिपादेषु कन्धरेषूदरेषु च ॥ ३॥
तस्मिन्नवसरे ब्रह्मा भद्रमद्रीन्द्रजानुतम् ।
सारथ्याल्लब्धवात्सल्यः प्रार्थयन् प्रणतोऽब्रवीत् ॥ ४॥
अलं क्रोधेन भगवन्नष्टाश्चैते दिवौकसः ।
प्रसीद क्षम्यतां सर्वं रोमजैः सह सुव्रत ॥ ५॥
एवं विज्ञापितस्तेन ब्रह्मणा परमेष्ठिना ।
शमं जगाम सम्प्रीतो गणपस्तस्य गौरवात् ॥ ६॥
देवाश्च लब्धावसरा देवदेवस्य मन्त्रिणः ।
धारयन्तोऽञ्जलीन्मूर्ध्नि तुष्टुवुर्विविधैः स्तवैः ॥ ७॥
देवा ऊचुः ।
नमः शिवाय शान्ताय यज्ञहन्त्रे त्रिशूलिने ।
रुद्रभद्राय रुद्राणां पतये रुद्रभूतये ॥ ८॥
कालाग्निरुद्ररूपाय कालकामाङ्गहारिणे ।
देवतानां शिरोहन्त्रे दक्षस्य च दुरात्मनः ॥ ९॥
संसर्गादस्य पापस्य दक्षस्य क्लिष्टकर्मणः ।
शासिताः समरे वीर त्वया वयमनिन्दिताः ॥ १०॥
दग्धाश्चामी वयं सर्वे त्वत्तो भीताश्च भो प्रभो ।
त्वमेव गतिरस्माकं त्राहि नः शरणागतान् ॥ ११॥
वायुरुवाच ।
तुष्टस्त्वेवं स्तुतो देवान् विसृज्य निगडात्प्रभुः ।
आनयद्देवदेवस्य समीपममरानिह ॥ १२॥
देवोऽपि तत्र भगवानन्तरिक्षे स्थितः प्रभुः ।
सगणः सर्वगः शर्वः सर्वलोकमहेश्वरः ॥ १३॥
तं दृष्ट्वा परमेशानं देवा विष्णुपुरोगमाः ।
प्रीता अपि च भीताश्च नमश्चक्रुर्महेश्वरम् ॥ १४॥
दृष्ट्वा तानमरान्भीतान्प्रणतार्तिहरो हरः ।
इदमाह महादेवः प्रहसन् प्रेक्ष्य पार्वतीम् ॥ १५॥
महादेव उवाच ।
मा भैष्ट त्रिदशाः सर्वे यूयं वै मामिकाः प्रजाः ।
अनुग्रहार्थमेवेह धृतो दण्डः कृपालुना ॥ १६॥
भवतां निर्ज्जराणां हि क्षान्तोऽस्माभिर्व्यतिक्रमः ।
क्रुद्धेष्वस्मासु युष्माकं न स्थितिर्न च जीवितम् ॥ १७॥
वायुरुवाच ।
इत्युक्तास्त्रिदशाः सर्वे शर्वेणामिततेजसा ।
सद्यो विगतसन्देहा ननृतुर्विबुधा मुदा ॥ १८॥
प्रसन्नमनसो भूत्वानन्दविह्वलमानसाः ।
स्तुतिमारेभिरे कर्तुं शङ्करस्य दिवौकसः ॥ १९॥
देवा ऊचुः ।
त्वमेव देवाखिललोककर्ता पाता च हर्ता परमेश्वरोऽसि ।
कविष्णुरुद्राख्यस्वरूपभेदै रजस्तमः सत्त्वधृतात्ममूर्त्ते ॥ २०॥
सर्वमूर्त्ते नमस्तेऽस्तु विश्वभावन पावन ।
अमूर्त्ते भक्तहेतोर्हि गृहीताकृतिसौख्यद ॥ २१॥
चन्द्रोऽगदो हि देवेश कृपातस्तव शङ्कर ।
निमज्जनान्मृतः प्राप सुखं मिहिरजाजलिः ॥ २२॥
सीमन्तिनी हतधवा तव पूजनतः प्रभो ।
सौभाग्यमतुलं प्राप सोमवारव्रतात्सुतान् ॥ २३॥
श्रीकराय ददौ देवः स्वीयं पदमनुत्तमम् ।
सुदर्शनमरक्षस्त्वं नृपमण्डलभीतितः ॥ २४॥
मेदुरं तारयामास सदारं च घृणानिधिः ।
शारदां विधवां चक्रे सधवां क्रियया भवान् ॥ २५॥
भद्रायुषो विपत्तिं च विच्छिद्य त्वमदाः सुखम् ।
सौमिनी भवबन्धाद्वै मुक्ताभूत्तव सेवनात् ॥ २६॥
विष्णुरुवाच ।
त्वं शम्भो कहरीशाश्च रजस्सत्त्वतमोगुणैः ।
कर्ता पाता तथा हर्ता जनानुग्रहकाङ्क्षया ॥ २७॥