Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं

Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 1

२.१.१०. दशमोऽध्यायः ।

परमशिवतत्त्ववर्णनम् ।

परमेश्वर उवाच ।

अन्यच्छृणु हरे विष्णो शासनं मम सुव्रत ।

सदा सर्वेषु लोकेषु मान्यः पूज्यो भविष्यसि ॥ १॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 2

ब्रह्मणा निर्मिते लोके यदा दुःखं प्रजायते ।

तदा त्वं सर्वदुःखानां नाशाय तत्परो भव ॥ २॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 3

सहायं ते करिष्यामि सर्वकार्ये च दुःसहे ।

तव शत्रून्हनिष्यामि दुःसाध्यान्परमोत्कटान् ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 4

॥

द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 4

विविधानवतारांश्च गृहीत्वा कीर्तिमुत्तमाम् ।

विस्तारय हरे लोके तारणाय परो भव ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 5

गुणरूपो ह्यहं रुद्रो ह्यनेन वपुषा सदा ।

कार्यं करिष्ये लोकानां तवाशक्यं न संशयः ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 6

रुद्रध्येयो भवांश्चैव भवद्ध्येयो हरस्तथा ।

युवयोरन्तरं नैव तव रुद्रस्य किञ्चन ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 7

वस्तुतश्चापि चैकत्वं वरतोऽपि तथैव च ।

लीलयापि महाविष्णो सत्यं सत्यं न संशयः ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 8

रुद्रभक्तो नरो यस्तु तव निन्दां करिष्यति ।

तस्य पुण्यं च निखिलं द्रुतं भस्म भविष्यति ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 9

नरके पतनं तस्य त्वद्द्वेषात्पुरुषोत्तम ।

मदाज्ञया भवेद्विष्णो सत्यं सत्यं न संशयः ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 10

लोकेऽस्मिन्मुक्तिदो नृणां भुक्तिदश्च विशेषतः ।

ध्येयः पूज्यश्च भक्तानां निग्रहानुग्रहौ कुरु ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 11

इत्युक्त्वा मां च धातारं हस्ते धृत्वा स्वयं हरिम् ।

कथयामास दुःखेषु सहायो भव सर्वदा ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 12

सर्वाध्यक्षश्च सर्वेषु भक्तिमुक्तिप्रदायकः ।

भव त्वं सर्वदा श्रेष्ठः सर्वकामप्रसाधकः ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 13

सर्वेषां प्राणरूपश्च भव त्वं च ममाज्ञया ।

सङ्कटे भजनीयो हि स रुद्रो मत्तनुर्हरे ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 14

त्वां यः समाश्रितो नूनं मामेव स समाश्रितः ।

अन्तरं यश्च जानाति निरये पतति ध्रुवम् ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 15

आयुर्बलं श‍ृणुष्वाद्य त्रिदेवानां विशेषतः ।

सन्देहोऽत्र न कर्तव्यो ब्रह्मविष्णुहरात्मनाम् ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 16

चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ।

रात्रिश्च तावती तस्य मानमेतत्क्रमेण ह ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 17

तेषां त्रिंशद्दिनैर्मासो द्वादशैस्तैश्च वत्सरः ।

शतवर्षप्रमाणेन ब्रह्मायुः परिकीर्तितम् ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 18

ब्रह्मणो वर्षमात्रेण दिनं वैष्णवमुच्यते ।

सोऽपि वर्षशतं यावदात्ममानेन जीवति ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 19

वैष्णवेन तु वर्षेण दिनं रौद्रं भवेद् ध्रुवम् ।

हरो वर्षशते याते नररूपेण संस्थितः ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 20

यावदुच्छ्वसितं वक्त्रे सदाशिवसमुद्भवम् ।

पश्चाच्छक्तिं समभ्येति यावन्निःश्वसितं भवेत् ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 21

निःश्वासोच्छ्वसितानां च सर्वेषामेव देहिनाम् ।

ब्रह्मविष्णुहराणां च गन्धर्वोरगरक्षसाम् ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 22

एकविंशसहस्राणि शतैः षड्भिः शतानि च ।

अहोरात्राणि चोक्तानि प्रमाणं सुरसत्तमौ ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 23

षड्भिरुच्छ्वासनिःश्वासैः पलमेकं प्रवर्तितम् ।

घटी षष्टिपला प्रोक्ता सा षष्ट्या च दिनं निशा ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 24

निःश्वासोच्छ्वासितानां च परिसङ्ख्या न विद्यते ।

सदाशिवसमुत्थानमेतस्मात्सोऽक्षयः स्मृतः ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 25

इत्थं रूपं त्वया तावद्रक्षणीयं ममाज्ञया ।

तावत्सृष्टेश्च कार्यं वै कर्तव्यं विविधैर्गुणैः ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 9: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं, Verse 26

ब्रह्मोवाच ।

इत्याकर्ण्य वचः शम्भोर्मया च भगवान्हरिः ।

प्रणिपत्य च विश्वेशं प्राह मन्दतरं वशी ॥ २६॥