Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं

Containing 69 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 1

विद्येश्वरसंहिता १.२. द्वितीयोऽध्यायः ।

मुनिप्रश्नानामुत्तराणि ।

सूत उवाच ।

साधु पृष्टं साधवो वस्त्रैलोक्यहितकारकम् ।

गुरुं स्मृत्वा भवत्स्नेहाद्वक्ष्ये तच्छृणुतादरात् ॥ १॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 2

वेदान्तसारसर्वस्वं पुराणं चैवमुत्तमम् ।

सर्वाघौघोद्धारकरं परत्र परमार्थदम् ॥ २॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 3

कलिकल्मषविध्वंसि यस्मिञ्छिवयशः परम् ।

विजृम्भते सदा विप्राश्चतुर्वर्गफलप्रदम् ॥ ३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 4

तस्याध्ययनमात्रेण पुराणस्य द्विजोत्तमाः ।

सर्वोत्तमस्य शैवस्य ते यास्यन्ति सुसद्गतिम् ॥ ४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 5

तावद्विजृम्भते पापं ब्रह्महत्यापुरस्सरम् ।

यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 6

तावत्कलिमहोत्पाताः सञ्चरिष्यन्ति निर्भयाः ।

यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 7

तावत्सर्वाणि शास्त्राणि विवदन्ते परस्परम् ।

यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 8

तावत्स्वरूपं दुर्बोधं शिवस्य महतामपि ।

यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ८॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 9

तावद्यमभटाः क्रूराः सञ्चरिष्यन्ति निर्भयाः ।

यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ९॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 10

तावत्सर्वपुराणानि प्रगर्जन्ति महीतले ।

यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ १०॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 11

तावत्सर्वाणि तीर्थानि विवदन्ते महीतले ।

यावच्छिवपुराणं हि नोदेष्यति जगत्यहो ॥ ११॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 12

तावत्सर्वे मुदा मन्त्रा विवदन्ते महीतले ।

यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १२॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 13

तावत्सर्वाणि क्षेत्राणि विवदन्ते महीतले ।

यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 14

तावत्सर्वाणि पीठानि विवदन्ते महीतले ।

यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 15

तावत्सर्वाणि दानानि विवदन्ते महीतले ।

यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 16

तावत्सर्वे च ते देवा विवदन्ते महीतले ।

यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 17

तावत्सर्वे च सिद्धान्ता विवदन्ते महीतले ।

यावच्छिवपुराणं हि नोदेष्यति महीतले ॥ १७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 18

अस्य शैवपुराणस्य कीर्तनश्रवणाद् द्विजाः ।

फलं वक्तुं न शक्नोमि कार्त्स्न्येन मुनिसत्तमाः ॥ १८॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 19

तथापि तस्य माहात्म्यं वक्ष्ये किञ्चित्तु वोऽनघाः ।

चित्तमाधाय श‍ृणुत व्यासेनोक्तं पुरा मम ॥ १९॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 20

एतच्छिवपुराणं हि श्लोकं श्लोकार्धमेव च ।

यः पठेद्भक्तिसंयुक्तः स पापान्मुच्यते क्षणात् ॥ २०॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 21

एतच्छिवपुराणं हि यः प्रत्यहमतन्द्रितः ।

यथाशक्ति पठेद् भक्त्या स जीवन्मुक्त उच्यते ॥ २१॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 22

एतच्छिवपुराणं हि यो भक्त्यार्चयते सदा ।

दिने दिनेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् ॥ २२॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 23

एतच्छिवपुराणं यः साधारणपदेच्छया ।

अन्यतः श‍ृणुयात् सोऽपि मत्तो मुच्येत पातकात् ॥ २३॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 24

एतच्छिवपुराणं यो नमस्कुर्याददूरतः ।

सर्वदेवार्चनफलं स प्राप्नोति न संशयः ॥ २४॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 25

एतच्छिवपुराणं वै लिखित्वा पुस्तकं स्वयम् ।

यो दद्याच्छिवभक्तेभ्यस्तस्य पुण्यफलं श‍ृणु ॥ २५॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 26

अधीतेषु च शास्त्रेषु वेदेषु व्याकृतेषु च ।

यत्फलं दुर्लभं लोके तत्फलं तस्य सम्भवेत् ॥ २६॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 27

एतच्छिवपुराणं हि चतुर्दश्यामुपोषितः ।

शिवभक्तसभायां यो व्याकरोति स उत्तमः ॥ २७॥

Shiva Purana

१ विद्येश्वरसंहिता, अध्याय 2: विद्येश्वरसंहितायां मुनिप्रश्नोत्तरवर्णनं, Verse 28

प्रत्यक्षरं तु गायत्रीपुरश्चर्याफलं लभेत् ।

इह भुक्त्वाखिलान् कामानन्ते निर्वाणतां व्रजेत् ॥ २८॥