७ वायवीयसंहिता, अध्याय 15: वायवीयसंहितायां पूर्वखण्डे सृष्टिकथनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 68 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.१.१७. सप्तदशोऽध्यायः ।
सृष्टिकथनम् ।
वायुरुवाच ।
एवं लब्ध्वा परां शक्तिमीश्वरादेव शाश्वतीम् ।
मैथुनप्रभवां सृष्टिं कर्तृकामः प्रजापतिः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
स्वयमप्यर्द्धतो नारी चार्द्धेन पुरुषोऽभवत् ।
यार्द्धेन नारी सा तस्माच्छतरूपा व्यजायत ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
विराजमसृजद्ब्रह्मा सोऽर्द्धेन पुरुषोऽभवत् ।
स वै स्वायम्भुवः पूर्वं पुरुषो मनुरुच्यते ॥ ३॥
सा देवी शतरूपा तु तपः कृत्वा सुदुश्चरम् ।
भर्त्तारं दीप्तयशसं मनुमेवान्वपद्यत ॥ ४॥
तस्मात्तु शतरूपा सा पुत्रद्वयमसूयत ।
प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ ॥ ५॥
कन्ये द्वे च महाभागे याभ्यां जातास्त्विमाः प्रजाः ।
आकूतिरेका विज्ञेया प्रसूतिरपरा स्मृता ॥ ६॥
स्वायम्भुवः प्रसूतिं च ददौ दक्षाय तां प्रभुः ।
रुचेः प्रजापतेश्चैव चाकूतिं समपादयत् ॥ ७॥
आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् ।
यज्ञश्च दक्षिणा चैव याभ्यां संवर्तितं जगत् ॥ ८॥
स्वायम्भुवसुतायां तु प्रसूत्यां लोकमातरः ।
चतस्रो विंशतिः कन्या दक्षस्त्वजनयत्प्रभुः ॥ ९॥
श्रद्धा लक्ष्मीर्धृतिः पुष्टिस्तुष्टिर्मेधा क्रिया तथा ।
बुद्धिर्लज्जा वपुः शान्तिस्सिद्धिः कीर्तिस्त्रयोदशी ॥ १०॥
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ।
ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ॥ ११॥
ख्यातिः सत्यथ सम्भूतिः स्मृतिः प्रीतिः क्षमा तथा ।
सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥ १२॥
भृगुः शर्वो मरीचिश्च अङ्गिराः पुलहः क्रतुः ।
पुलस्त्योऽत्रिर्वशिष्ठश्च पावकः पितरस्तथा ॥ १३॥
ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः ।
कामाद्यास्तु यशोऽन्ता ये ते त्रयोदश सूनवः ॥ १४॥
धर्मस्य जज्ञिरे तास्तु श्रद्धाद्याः सुसुखोत्तराः ।
दुःखोत्तराश्च हिंसायामधर्मस्य च सन्ततौ ॥ १५॥
निकृत्यादय उत्पन्नाः पुत्राश्च धर्मलक्षणाः ।
नैषां भार्याश्च पुत्रा वा सर्वे त्वनियमाः स्मृताः ॥ १६॥
स एष तामसः सर्गो जज्ञे धर्मनियामकः ।
या सा दक्षस्य दुहिता रुद्रस्य दयिता सती ॥ १७॥
भर्तृनिन्दाप्रसङ्गेन त्यक्त्वा दाक्षायिणीं तनुम् ।
दक्षं च दक्षभार्य्यां च विनिन्द्य सह बन्धुभिः ॥ १८॥
सा मेनायामाविरभूत्पुत्री हिमवतो गिरेः ।
रुद्रस्तु तां सतीं दृष्ट्वा रुद्रांस्त्वात्मसमप्रभान् ॥ १९॥
यथाऽसृजदसङ्ख्यातांस्तथा कथितमेव च ।
भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया ॥ २०॥
देवौ धातृविधातारौ मन्वन्तरविधारिणौ ।
तयोर्वै पुत्रपौत्राद्याः शतशोऽथ सहस्रशः ॥ २१॥
स्वायम्भुवेऽन्तरे नीताः सर्वे ते भार्गवा मताः ।
मरीचेरपि सम्भूतिः पौर्णमासमसूयत ॥ २२॥
कन्याचतुष्टयं चैव महीयांसस्तदन्वयाः ।
येषां वंशे समुत्पन्नो बहुपुत्रस्य कश्यपः ॥ २३॥
स्मृतिश्चाङ्गिरसः पत्नी जनयामास वै सुतौ ।
आग्नीध्रं शरभञ्चैव तथा कन्याचतुष्टयम् ॥ २४॥
तदीयाः पुत्रपौत्राश्च येऽतीतास्ते सहस्रशः ।
प्रीत्यां पुलस्त्यभार्यायां दन्तोऽग्निरभवत्सुतः ।
पूर्वजन्मनि योऽगस्त्यः स्मृतः स्वायम्भुवेऽन्तरे ॥ २५॥
तत्सन्ततीया बहवः पौलस्त्या इति विश्रुताः ।
क्षमा तु सुषुवे पुत्रान् पुलहस्य प्रजापतेः ॥ २६॥
कर्दमश्चासुरिश्चैव सहिष्णुश्चेति ते त्रयः ।
त्रेताग्निवर्चसः सर्वे येषां वंशः प्रतिष्ठितः ॥ २७॥