७ वायवीयसंहिता, अध्याय 14: वायवीयसंहितायां पूर्वखण्डे देवीशक्त्युद्भवो, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.१.१६. षोडशोऽध्यायः ।
देवीशक्त्युद्भवः ।
वायुरुवाच ।
अथ देवो महादेवो महाजलदनादया ।
वाचा मधुरगम्भीरशिवदश्लक्ष्णवर्णया ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
अर्थसम्पन्नपदया राजलक्षणयुक्तया ।
अशेषविषयारम्भरक्षाविमलयदक्षया ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
मनोहरतरोदारमधुरस्मितपूर्वया ।
सम्बभाषेसुसम्प्रीतो विश्वकर्माणमीश्वरः ॥ ३॥
ईश्वर उवाच ।
वत्स वत्स महाभाग मम पुत्र पितामह ।
ज्ञातमेव मया सर्वं तव वाक्यस्य गौरवम् ॥ ४॥
प्रजानामेव वृद्ध्यर्थं तपस्तप्तं त्वयाधुना ।
तपसानेन तुष्टोऽस्मि ददामि च तवेप्सितम् ॥ ५॥
इत्युक्त्वा परमोदारं स्वभावमधुरं वचः ।
ससर्ज वपुषो भागाद्देवीं देववरो हरः ॥ ६॥
यामाहुर्ब्रह्मविद्वांसो देवीं दिव्यगुणान्विताम् ।
परस्य परमां शक्तिं भवस्य परमात्मनः ॥ ७॥
यस्यां न खलु विद्यन्ते जन्ममृत्युजरादयः ।
या भवानी भवस्याङ्गात्समाविरभवत्किल ॥ ८॥
यस्या वाचो निवर्तन्ते मनसा चेन्द्रियैः सह ।
सा भर्तुर्वपुषो भागाज्जातेव समदृश्यत ॥ ९॥
या सा जगदिदं कृत्स्नं महिम्ना व्याप्य तिष्ठति ।
शरीरिणीव स देवी विचित्रं समलक्ष्यत ॥ १०॥
सर्वं जगदिदं चैषा सम्मोहयति मायया ।
ईश्वरात्सैव जाताऽभूदजाता परमार्थतः ॥ ११॥
न यस्याः परमो भावः सुराणामपि गोचरः ।
विश्वामरेश्वरी चैव विभक्ता भर्तुरङ्गतः ॥ १२॥
तां दृष्ट्वा परमेशानीं सर्वलोकमहेश्वरीम् ।
सर्वज्ञां सर्वगां सूक्ष्मां सदसद्व्यक्तिवर्जिताम् ॥ १३॥
परमां निखिलं भासा भासयन्तीमिदं जगत् ।
प्रणिपत्य महादेवीं प्रार्थयामास वै विराट् ॥ १४॥
ब्रह्मोवाच ।
देवि देवेन सृष्टोऽहमादौ सर्वजगन्मयि ।
प्रजासर्गे नियुक्तश्च सृजामि सकलं जगत् ॥ १५॥
मनसा निर्मिताः सर्वे देवि देवादयो मया ।
न वृद्धिमुपगच्छन्ति सृज्यमानाः पुनः पुनः ॥ १६॥
मिथुनप्रभवामेव कृत्वा सृष्टिमतः परम् ।
संवर्धयितुमिच्छामि सर्वा एव मम प्रजाः ॥ १७॥
न निर्गतं पुरा त्वत्तो नारीणां कुलमव्ययम् ।
तेन नारीकुलं स्रष्टुं शक्तिर्मम न विद्यते ॥ १८॥
सर्वासामेव शक्तीनां त्वत्तः खलु समुद्भवः ।
तस्मात्सर्वत्र सर्वेषां सर्वशक्तिप्रदायिनीम् ॥ १९॥
त्वामेव वरदां मायां प्रार्थयामि सुरेश्वरीम् ।
चराचरविवृद्ध्यर्थमंशेनैकेन सर्वगे ॥ २०॥
दक्षस्य मम पुत्रस्य पुत्री भव भवार्दिनि ।
एवं सा याचिता देवी ब्रह्मणा ब्रह्मयोनिना ॥ २१॥
शक्तिमेकां भ्रुवोर्मध्यात् ससर्जात्मसमप्रभाम् ।
तामाह प्रहसन् प्रेक्ष्य देवदेववरो हरः ॥ २२॥
ब्रह्माणं तपसाराध्य कुरु तस्य यथेप्सितम् ।
तामाज्ञां परमेशस्य शिरसा प्रतिगृह्य सा ॥ २३॥
ब्रह्मणो वचनाद्देवी दक्षस्य दुहिताऽभवत् ।
दत्त्वैवमतुलां शक्तिं ब्रह्मणे ब्रह्मरूपिणीम् ॥ २४॥
विवेश देहं देवस्य देवश्चान्तरधीयत ।
तदाप्रभृति लोकेऽस्मिन् स्त्रियां भोगः प्रतिष्ठितः ॥ २५॥
प्रजासृष्टिश्च विप्रेन्द्रा मैथुनेन प्रवर्तते ।
ब्रह्मापि प्राप सानन्दं सन्तोषं मुनिपुङ्गवाः ॥ २६॥
एतद्वः सर्वमाख्यातं देव्याः शक्तिसमुद्भवम् ।
पुण्यवृद्धिकरं श्राव्यं भूतसर्गानुषङ्गतः ॥ २७॥