७ वायवीयसंहिता, अध्याय 13: वायवीयसंहितायां पूर्वखण्डे शिवशिवास्तुतिवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.१.१५. पञ्चदशोऽध्यायः ।
शिवशिवास्तुतिवर्णनम् ।
वायुरुवाच ।
यदा पुनः प्रजाः सृष्टा न व्यवर्द्धन्त वेधसः ।
तदा मैथुनजां सृष्टिं ब्रह्मा कर्तुममन्यत ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
न निर्गतं पुरा यस्मान्नारीणां कुलमीश्वरात् ।
तेन मैथुनजां सृष्टिं न शशाक पितामहः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
ततः स विदधे बुद्धिमर्थनिश्चयगामिनीम् ।
प्रजानमेव वृद्ध्यर्थं प्रष्टव्यः परमेश्वर ॥ ३॥
प्रसादेन विना तस्य न वर्द्धेरन्निमाः प्रजाः ।
एवं सञ्चिन्त्य विश्वात्मा तपः कर्तुं प्रचक्रमे ॥ ४॥
तदाद्या परमा शक्तिरनन्ता लोकभाविनी ।
आद्या सूक्ष्मतरा शुद्धा भावगम्या मनोहरा ॥ ५॥
निर्गुणा निष्प्रपञ्चा च निष्कला निरुपप्लवा ।
निरन्तररता नित्या नित्यमीश्वरपार्श्वगा ॥ ६॥
तया परमया शक्त्या भगवन्तं त्रियम्बकम् ।
सञ्चिन्त्य हृदये ब्रह्मा तताप परमं तपः ॥ ७॥
तीव्रेण तपसा तस्य युक्तस्य परमेष्ठिनः ।
अचिरेणैव कालेन पिता सम्प्रतुतोष ह ॥ ८॥
ततः केनचिदंशेन मूर्तिमाविश्य कामपि ।
अर्द्धनारीश्वरो भूत्वा ययौ देवः स्वयं हरः ॥ ९॥
तं दृष्ट्वा परमं देवं तमसः परमव्ययम् ।
अद्वितीयमनिर्देश्यमदृश्यमकृतात्मभिः ॥ १०॥
सर्वलोकविधातारं सर्वलोकेश्वरेश्वरम् ।
सर्वलोकविधायिन्या शक्त्या परमया युतम् ॥ ११॥
अप्रतर्क्यमनाभासममेयमजरं ध्रुवम् ।
अचलं निर्गुणं शान्तमनन्तमहिमास्पदम् ॥ १२॥
सर्वगं सर्वदं सर्वसदसद्व्यक्तिवर्जितम् ।
सर्वोपमाननिर्मुक्तं शरण्यं शाश्वतं शिवम् ॥ १३॥
प्रणम्य दण्डवद् ब्रह्मा समुत्थाय कृताञ्जलिः ।
श्रद्धाविनयसम्पन्नैः श्राव्यैः संस्कारसंयुतैः ॥ १४॥
यथार्थयुक्तसर्वार्थैर्वेदार्थपरिबृंहितैः ।
तुष्टाव देवं देवीं च सूक्तैः सूक्ष्मार्थगोचरैः ॥ १५॥
ब्रह्मोवाच ।
जय देव महादेव जयेश्वर महेश्वर ।
जय सर्वगुणश्रेष्ठ जय सर्वसुराधिप ॥ १६॥
जय प्रकृतिकल्याणि जय प्रकृतिनायिके ।
जय प्रकृतिदूरे त्वं जय प्रकृतिसुन्दरि ॥ १७॥
जयामोघमहामाय जयामोघमनोरथ ।
जयामोघमहालील जयामोघमहाबल ॥ १८॥
जय विश्वजगन्मातर्जय विश्वजगन्मयि ।
जय विश्वजगद्धात्रि जय विश्वजगत्सखि ॥ १९॥
जय शाश्वतिकैश्वर्य जय शाश्वतिकालय ।
जय शाश्वतिकाकार जय शाश्वतिकानुग ॥ २०॥
जयात्मत्रयनिर्मात्रि जयात्मत्रयपालिनि ।
जयात्मत्रयसंहर्त्रि जयात्मत्रयनायिके ॥ २१॥
जयावलोकनायत्तजगत्कारणबृंहण ।
जयोपेक्षाकटाक्षोत्थहुतभुग्भुक्तभौतिक ॥ २२॥
जय देवाद्यविज्ञेये स्वात्मसूक्ष्मदृशोज्ज्वले ।
जय स्थूलात्मशक्त्येशे जय व्याप्तचराचरे ॥ २३॥
जय नानैकविन्यस्तविश्वतत्त्वसमुच्चय ।
जयासुरशिरोनिष्ठश्रेष्ठानुगकदम्बक ॥ २४॥
जयोपाश्रितसंरक्षासंविधानपटीयसि ।
जयोन्मूलितसंसारविषवृक्षाङ्कुरोद्गमे ॥ २५॥
जय प्रादेशिकैश्वर्यवीर्यशौर्यविजृम्भण ।
जय विश्वबहिर्भूत निरस्तपरवैभव ॥ २६॥
जय प्रणीतपञ्चार्थप्रयोगपरमामृत ।
जय पञ्चार्थविज्ञानसुधास्रोतःस्वरूपिणि ॥ २७॥