७ वायवीयसंहिता, अध्याय 12: वायवीयसंहितायां पूर्वखण्डे रुद्राविर्भाववर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.१.१४. चतुर्दशोऽध्यायः ।
रुद्राविर्भाववर्णनम् ।
वायुरुवाच ।
प्रतिकल्पं प्रवक्ष्यामि रुद्राविर्भावकारणम् ।
यतोऽविच्छिन्नसन्ताना ब्रह्मसृष्टिः प्रवर्तते ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
कल्पे कल्पे प्रजाः सृष्ट्वा ब्रह्मा ब्रह्माण्डसम्भवः ।
अवृद्धिहेतोर्भूतानां मुमोह भृशदुःखितः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
तस्य दुःखप्रशान्त्यर्थं प्रजानां च विवृद्धये ।
तत्तत्कल्पेषु कालात्मा रुद्रो रुद्रगणाधिपः ॥ ३॥
निर्दिष्टः परमेशेन महेशो नीललोहितः ।
पुत्रो भूत्वानुगृह्णाति ब्रह्माणं ब्रह्मणोऽनुजः ॥ ४॥
स एव भगवानीशस्तेजोराशिरनामयः ।
अनादिनिधनो धाता भूतसङ्कोचको विभुः ॥ ५॥
परमैश्वर्यसंयुक्तः परमेश्वरभावितः ।
तच्छक्त्याधिष्ठितः शश्वत्तच्चिह्नैरपि चिह्नितः ॥ ६॥
तन्नामनामा तद्रूपस्तत्कार्यकरणक्षमः ।
तत्तुल्यव्यवहारश्च तदाज्ञापरिपालकः ॥ ७॥
सहस्रादित्यसङ्काशश्चन्द्रावयवभूषणः ।
भुजङ्गहारकेयूरवलयो मुञ्जमेखलः ॥ ८॥
जलन्धरविरिञ्चेन्द्रकपालशकलोज्ज्वलः ।
गङ्गातुङ्गतरङ्गार्द्रपिङ्गलाननमूर्द्धजः ॥ ९॥
भग्नदंष्ट्राङ्कुराक्रान्तप्रान्तकान्तधराधरः ।
सव्यश्रवणपार्श्वान्तमण्डलीकृतकुण्डलः ॥ १०॥
महावृषभनिर्याणो महाजलदनिःस्वनः ।
महानलसमप्रख्यो महाबलपराक्रमः ॥ ११॥
एवं घोरमहारूपो ब्रह्मपुत्रो महेश्वरः ।
विज्ञानं ब्रह्मणे दत्त्वा सर्गं सह करोति च ॥ १२॥
तस्माद् रुद्रप्रसादेन प्रतिकल्पं प्रजापतेः ।
प्रवाहरूपतो नित्या प्रजासृष्टिः प्रवर्तते ॥ १३॥
कदाचित्प्रार्थितः स्रष्टुं ब्रह्मणा नीललोहितः ।
स्वात्मना सदृशान् सर्वान् ससर्ज मनसा विभुः ॥ १४॥
कपर्दिनो निरातङ्कान्नीलग्रीवाँस्त्रिलोचनान् ।
जरामरणनिर्मुक्तान् दीप्तशूलवरायुधान् ॥ १५॥
तैस्तु सञ्छादितं सर्वं चतुर्दशविधं जगत् ।
तान्दृष्ट्वा विविधान् रुद्रान् रुद्रमाह पितामहः ॥ १६॥
नमस्ते देवदेवेश मास्राक्षीरीदृशीः प्रजाः ।
अन्याः सृज त्वं भद्रं ते प्रजा मृत्युसमन्विताः ॥ १७॥
इत्युक्तः प्रहसन्प्राह ब्रह्माणं परमेश्वरः ।
नास्ति मे तादृशः सर्गः सृज त्वमशुभाः प्रजाः ॥ १८॥
ये त्विमे मनसा सृष्टा महात्मानो महाबलाः ।
चरिष्यन्ति मया सार्द्धं सर्व एव हि याज्ञिकाः ॥ १९॥
इत्युक्त्वा विश्वकर्माणं विश्वभूतेश्वरो हरः ।
सह रुद्रैः प्रजासर्गान्निवृत्तात्माध्यतिष्ठत ॥ २०॥
ततः प्रभृति देवोऽसौ न प्रसूते प्रजाः शुभाः ।
ऊर्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसम्प्लवम् ॥ २१॥