Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं

Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 1

७.१.१३. त्रयोदशोऽध्यायः ।

ब्रह्मविष्णुसृष्टिकथनम् ।

ऋषय ऊचुः ।

भवता कथिता सृष्टिर्भवस्य परमात्मनः ।

चतुर्मुखमुखात्तस्य संशयो नः प्रजायते ॥ १॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 2

देवश्रेष्ठो विरूपाक्षो दीप्तः शूलधरो हरः ।

कालात्मा भगवान् रुद्रः कपर्दी नीललोहितः ॥ २॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 3

सब्रह्मकमिमं लोकं सविष्णुमपि पावकम् ।

यः संहरति सङ्क्रुद्धो युगान्ते समुपस्थिते ॥ ३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 4

यस्य ब्रह्मा च विष्णुश्च प्रणामं कुरुतो भयात् ।

लोकसङ्कोचकस्यास्य यस्य तौ वशवर्तिनौ ॥ ४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 5

योऽयं देवः स्वकादङ्गाद् ब्रह्मविष्णू पुरासृजत् ।

स एव हि तयोर्नित्यं योगक्षेमकरः प्रभुः ॥ ५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 6

स कथं भगवान् रुद्र आदिदेवः पुरातनः ।

पुत्रत्वमगमच्छम्भुर्ब्रह्मणोऽव्यक्तजन्मनः ॥ ६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 7

प्रजापतिश्च विष्णुश्च रुद्रस्यैतौ परस्परम् ।

सृष्टौ परस्परस्याङ्गादिति प्रागपि शुश्रुम ॥ ७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 8

कथं पुनरशेषाणां भूतानां हेतुभूतयोः ।

गुणप्रधानभावेन प्रादुर्भावः परस्परात् ॥ ८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 9

नापृष्टं भवता किञ्चिन्नाश्रुतं च कथञ्चन ।

भगवच्छिष्यभूतेन भवता सकलं स्मृतम् ॥ ९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 10

तत्त्वं वद यथा ब्रह्मा मुनीनामवदद्विभुः ।

वयं श्रद्धालवस्तात श्रोतुमीश्वरसद्यशः ॥ १०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 11

वायुरुवाच ।

स्थाने पृष्टमिदं विप्रा भवद्भिः प्रश्नकोविदैः ।

इदमेव पुरा पृष्टो मम प्राह पितामहः ॥ ११॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 12

तदहं सम्प्रवक्ष्यामि यथा रुद्रसमुद्भवः ।

यथा च पुनरुत्पत्तिर्ब्रह्मविष्ण्वोः परस्परम् ॥ १२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 13

त्रयस्ते कारणात्मानो जाताः साक्षान्महेश्वरात् ।

चराचरस्य विश्वस्य सर्गस्थित्यन्तहेतवः ॥ १३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 14

परमैश्वर्यसंयुक्ताः परमेश्वरभाविताः ।

तच्छक्त्याधिष्ठिता नित्यं तत्कार्यकरणक्षमाः ॥ १४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 15

पित्रा नियमिताः पूर्वं त्रयोऽपि त्रिषु कर्मसु ।

ब्रह्मा सर्गे हरिस्त्राणे रुद्रः संहरणे तथा ॥ १५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 16

तथाप्यन्योऽन्यमात्सर्यादन्योऽन्यातिशयाशिनः ।

तपसा तोषयित्वा स्वं पितरं परमेश्वरम् ॥ १६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 17

लब्ध्वा सर्वात्मना तस्य प्रसादात्परमेष्ठिनः ।

ब्रह्मनारायणौ पूर्वं रुद्रः कल्पान्तरेऽसृजत् ॥ १७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 18

कल्पान्तरे पुनर्ब्रह्मा रुद्रविष्णू जगन्मयः ।

विष्णुश्च भगवान् रुद्रं ब्रह्माणमसृजत्पुनः ॥ १८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 19

नारायणं पुनर्ब्रह्मा ब्रह्माणं च पुनर्भवः ।

एवं कल्पेषु कल्पेषु ब्रह्मविष्णुमहेश्वराः ॥ १९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 20

परस्परेण जायन्ते परस्परहितैषिणः ।

तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः ॥ २०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 21

प्रभावः कथ्यते तेषां परस्परसमुद्भवात् ।

श‍ृणु तेषां कथां चित्रां पुण्यां पापप्रमोचिनीम् ॥ २१॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 22

कल्पे तत्पुरुषे वृत्तां ब्रह्मणः परमेष्ठिनः ।

पुरा नारायणो नाम कल्पे वै मेघवाहने ॥ २२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 23

दिव्यं वर्षसहस्रं तु मेघो भूत्वावहद्धराम् ।

तस्य भावं समालक्ष्य विष्णोर्विश्वजगद्गुरुः ॥ २३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 24

सर्वः सर्वात्मभावेन प्रददौ शक्तिमव्ययाम् ।

शक्तिं लब्ध्वा तु सर्वात्मा शिवात्सर्वेश्वरात्तदा ॥ २४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 25

ससर्ज भगावन् विष्णुर्विश्वं विश्वसृजा सह ।

विष्णोस्तद्वैभवं दृष्ट्वा सृष्टस्तेन पितामहः ॥ २५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 26

ईर्ष्यया परया ग्रस्तः प्रहसन्निदमब्रवीत् ।

गच्छ विष्णो मया ज्ञातं तव सर्गस्य कारणम् ।

आवयोरधिकश्चास्ति स रुद्रो नात्र संशयः ॥ २६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 11: वायवीयसंहितायां पूर्वखण्डे ब्रह्मविष्णुसृष्टिकथनं, Verse 27

तस्य देवाधिदेवस्य प्रसादात्परमेष्ठिनः ।

स्रष्टा त्वं भगवानाद्यः पालकः परमार्थतः ॥ २७॥