७ वायवीयसंहिता, अध्याय 10: वायवीयसंहितायां पूर्वखण्डे सृष्टिवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 120 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.१.११. एकादशोऽध्यायः ।
सृष्ट्यादिवर्णनम् ।
मुनय ऊचुः ।
मन्वन्तराणि सर्वाणि कल्पभेदांश्च सर्वशः ।
तेष्वेवान्तरसर्गं च प्रतिसर्गं च नो वद ॥ १॥
७.१.१२. द्वादशोऽध्यायः ।
सृष्टिवर्णनम् ।
वायुरुवाच ।
सर्गं चिन्तयतस्तस्य तदा वै बुद्धिपूर्वकम् ।
प्रध्यानकाले मोहस्तु प्रादुर्भूतस्तमोमयः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
वायुरुवाच ।
कालसङ्ख्याविवृत्तस्य परार्द्धो ब्रह्मणः स्मृतः ।
तावांश्चैवास्य कालोऽन्यस्तस्यान्ते प्रतिसृज्यते ॥ २॥
तमोमोहो महामोहस्तामिस्रश्चान्धसंज्ञितः ।
अविद्या पञ्चमी चैषा प्रादुर्भूता महात्मनः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
दिवसे दिवसे तस्य ब्रह्मणः पूर्वजन्मनः ।
चतुर्दश महाभागा मनूनां परिवृत्तयः ॥ ३॥
पञ्चधाऽवस्थितः सर्गो ध्यायतस्त्वभिमानिनः ।
सर्वतस्तमसातीव बीजकुम्भवदावृतः ॥ ३॥
अनादित्वादनन्तत्वादज्ञेयत्वाच्च कृत्स्नशः ।
मन्वन्तराणि कल्पाश्च न शक्या वचनात्पृथक् ॥ ४॥
बहिरन्तश्चाप्रकाशः स्तब्धो निःसंज्ञ एव च ।
तस्मात्तेषां वृता बुद्धिर्मुखानि करणानि च ॥ ४॥
उक्तेष्वपि च सर्वेषु शृण्वतां वो वचो मम ।
किमिहास्ति फलं तस्मान्न पृथग वक्तुमुत्सहे ॥ ५॥
तस्मात्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः ।
तं दृष्ट्वासाधकं ब्रह्मा प्रथमं सर्गमीदृशम् ॥ ५॥
य एव खलु कल्पेषु कल्पः सम्प्रति वर्तते ।
तत्र सङ्क्षिप्य वर्तन्ते सृष्टयः प्रतिसृष्टयः ॥ ६॥
अप्रसन्नमना भूत्वा द्वितीयं सोऽभ्यमन्यत ।
तस्याभिधायतः सर्गं तिर्य्यक्स्रोतोऽभ्यवर्त्तत ॥ ६॥
यस्त्वयं वर्तते कल्पो वाराहो नाम नामतः ।
अस्मिन्नपि द्विजश्रेष्ठा मनवस्तु चतुर्दश ॥ ७॥
अन्तःप्रकाशास्तिर्य्यञ्च आवृताश्च बहिः पुनः ।
पश्वात्मानस्ततो जाता उत्पथग्राहिणश्च ते ॥ ७॥
स्वायम्भुवादयः सप्त सप्त सावर्णिकादयः ।
तेषु वैवस्वतो नाम सप्तमो वर्तते मनुः ॥ ८॥
तमप्यसाधकं ज्ञात्वा सर्गमन्यममन्यत ।
तदोर्ध्वस्रोतसो वृत्तो देवसर्गस्तु सात्त्विकः ॥ ८॥
मन्वन्तरेषु सर्वेषु सर्गसंहारवृत्तयः ।
प्रायः समा भवन्तीति तर्कः कार्यो विजानता ॥ ९॥
ते सुखप्रीतिबहुला बहिरन्तश्च नावृताः ।
प्रकाशा बहिरन्तश्च स्वभावादेव संज्ञिताः ॥ ९॥
पूर्वकल्पे परावृत्ते प्रवृत्ते कालमारुते ।
समुन्मूलितमूलेषु वृक्षेषु च वनेषु च ॥ १०॥
ततोऽभिध्यायतोऽव्यक्तादर्वाक्स्रोतस्तु साधकः ।
मनुष्यनामा सञ्जातः सर्गो दुःखसमुत्कटः ॥ १०॥
जगन्ति तृणवक्त्रीणि देवे दहति पावके ।
वृष्ट्या भुवि निषिक्तायां विवेलेष्वर्णवेषु च ॥ ११॥
प्रकाशा बहिरन्तस्ते तमोद्रिक्ता रजोऽधिकाः ।
पञ्चमोऽनुग्रहः सर्गश्चतुर्धा संव्यवस्थितः ॥ ११॥
दिक्षु सर्वासु मग्नासु वारिपूरे महीयसि ।
तदद्भिश्चटुलाक्षेपैस्तरङ्गभुजमण्डलैः ॥ १२॥
विपर्य्येण शक्त्या च तुष्ट्या सिद्ध्या तथैव च ।
तेऽपरिग्राहिणः सर्वे संविभागरताः पुनः ॥ १२॥
प्रारब्धचण्डनृत्येषु ततः प्रलयवारिषु ।
ब्रह्मा नारायणो भूत्वा सुष्वाप सलिले सुखम् ॥ १३॥
खादनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः ।
प्रथमो महतः सर्गो ब्रह्मणः परमेष्ठिनः ॥ १३॥
इमं चोदाहरन्मन्त्रं श्लोकं नारायणं प्रति ।
तं शृणुध्वं मुनिश्रेष्ठास्तदर्थं चाक्षराश्रयम् ॥ १४॥