Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं

Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 1

७.१.१०. दशमोऽध्यायः ।

ब्रह्माण्डस्थितिवर्णनम् ।

वायुरुवाच ।

पुरुषाधिष्ठितात्पूर्वमव्यक्तादीश्वराज्ञया ।

बुद्ध्यादयो विशेषान्ता विकाराश्चाभवन् क्रमात् ॥ १॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 2

ततस्तेभ्यो विकारेभ्यो रुद्रो विष्णुः पितामहः ।

कारणत्वेन सर्वेषां त्रयो देवाः प्रजज्ञिरे ॥ २॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 3

सर्वतो भुवनव्याप्तिशक्तिमव्याहतां क्वचित् ।

ज्ञानमप्रतिमं शश्वदैश्वर्यं चाणिमादिकम् ॥ ३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 4

सृष्टिस्थितिलयाख्येषु कर्मसु त्रिषु हेतुताम् ।

प्रभुत्वेन सहैतेषां प्रसीदति महेश्वरः ॥ ४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 5

कल्पान्तरे पुनस्तेषामस्पर्द्धाबुद्धिमोहिनाम् ।

सर्गरक्षालयाचारं प्रत्येकं प्रददौ च सः ॥ ५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 6

एते परस्परोत्पन्ना धारयन्ति परस्परम् ।

परस्परेण वर्द्धन्ते परस्परमनुव्रताः ॥ ६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 7

क्वचिद्ब्रह्मा क्वचिद्विष्णुः क्वचिद् रुद्रः प्रशस्यते ।

नानेन तेषामाधिक्यमैश्वर्यं चातिरिच्यते ॥ ७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 8

मूर्खा निन्दन्ति तान्वाग्भिः संरम्भाभिनिवेशिनः ।

यातुधाना भवन्त्येव पिशाचाश्च न संशयः ॥ ८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 9

देवो गुणत्रयातीतश्चतुर्व्यूहो महेश्वरः ।

सकलः सकलाधारः शक्तेरुत्पत्तिकारणम् ॥ ९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 10

सोऽयमात्मा त्रयस्यास्य प्रकृतेः पुरुषस्य च ।

लीलाकृतजगत्सृष्टिरीश्वरत्वे व्यवस्थितः ॥ १०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 11

यः सर्वस्मात्परो नित्यो निष्कलः परमेश्वरः ।

स एव च तदाधारस्तदात्मा तदधिष्ठितः ॥ ११॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 12

तस्मान्महेश्वरश्चैव प्रकृतिः पुरुषस्तथा ।

सदाशिवो भवो विष्णुर्ब्रह्मा सर्वं शिवात्मकम् ॥ १२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 13

प्रधानात्प्रथमं जज्ञे बुद्धिः ख्यातिर्मतिर्महान् ।

महत्तत्त्वस्य सङ्क्षोभादहङ्कारस्त्रिधाऽभवत् ॥ १३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 14

अहङ्कारश्च भूतानि तन्मात्राणीन्द्रियाणि च ।

वैकारिकादहङ्कारात्सत्त्वोद्रिक्तात्तु सात्त्विकः ॥ १४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 15

वैकारिकः स सर्गस्तु युगपत्सम्प्रवर्तते ।

बुद्धीन्द्रियाणि पञ्चैव पञ्चकर्मेन्द्रियाणि च ॥ १५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 16

एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् ।

तमोयुक्तादहङ्काराद्भूततन्मात्रसम्भवः ॥ १६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 17

भूतानामादिभूतत्वाद् भूतादिः कथ्यते तु सः ।

भूतादेः शब्दमात्रं स्यात्तत्र चाकाशसम्भवः ॥ १७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 18

आकाशात्स्पर्श उत्पन्नः स्पर्शाद्वायुसमुद्भवः ।

वायो रूपं ततस्तेजस्तेजसो रससम्भवः ॥ १८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 19

रसादापः समुत्पन्नास्ताभ्यो गन्धसमुद्भवः ।

गन्धाच्च पृथिवी जाता भूतेभ्योऽन्यच्चराचरम् ॥ १९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 20

पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च ।

महदादिविशेषान्ता ह्यण्डमुत्पादयन्ति ते ॥ २०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 21

तत्र कार्यं च करणं संसिद्धं ब्रह्मणो यदा ।

तदण्डे सुप्रवृद्धोऽभूत् क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥ २१॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 22

स वै शरीरी प्रथमः स वै पुरुष उच्यते ।

आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ २२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 23

तस्येश्वरस्याप्रतिमा ज्ञानवैराग्यलक्षणा ।

धर्मैश्वर्यकरी बुद्धिर्ब्राह्मी यज्ञेऽभिमानिनः ॥ २३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 24

अव्यक्ताज्जायते तस्य मनसा यद्यदीप्सितम् ।

वशीकृतत्वात्त्रैगुण्यात्सापेक्षत्वात्स्वभावतः ॥ २४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 25

त्रिधा विभज्य चात्मानं त्रैलोक्ये सम्प्रवर्त्तते ।

सृजते ग्रसते चैव वीक्षते च त्रिभिः स्वयम् ॥ २५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 26

चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चान्तकः स्मृतः ।

सहस्रमूर्द्धा पुरुषस्तिस्रोऽवस्थास्स्वयम्भुवः ॥ २६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 9: वायवीयसंहितायां पूर्वखण्डे ब्रह्माण्डस्थितिवर्णनं, Verse 27

सत्त्वं रजश्च ब्रह्मत्वे च कालत्वे च तमो रजः ।

विष्णुत्वे केवलं सत्त्वं गुणवृद्धिस्त्रिधा विभोः ॥ २७॥