७ वायवीयसंहिता, अध्याय 7: वायवीयसंहितायां पूर्वखण्डे कालमहिमवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.१.७. सप्तमोऽध्यायः ।
कालमहिमवर्णनम् ।
मुनय ऊचुः ।
कालादुत्पद्यते सर्वं कालादेव विपद्यते ।
न कालनिरपेक्षं हि क्वचित्किञ्चन विद्यते ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
यदास्यान्तर्गतं विश्वं शश्वत्संसारमण्डलम् ।
सर्गसंहृतिमुद्राभ्यां चक्रवत्परिवर्तते ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
ब्रह्मा हरिश्च रुद्रश्च तथान्ये च सुरासुराः ।
यत्कृतां नियतिं प्राप्य प्रभवो नातिवर्तितुम् ॥ ३॥
भूतभव्यभविष्याद्यैर्विभज्य जरयन् प्रजाः ।
अतिप्रभुरिति स्वैरं वर्ततेऽतिभयङ्करः ॥ ४॥
क एष भगवान् कालः कस्य वा वशवर्त्ययम् ।
क एवास्य वशे न स्यात्कथयैतद्विचक्षण ॥ ५॥
वायुरुवाच ।
कालकाष्ठानिमेषादिकलाकलितविग्रहम् ।
कालात्मेति समाख्यातं तेजो माहेश्वरं परम् ॥ ६॥
यदलङ्घ्यमशेषस्य स्थावरस्य चरस्य च ।
नियोगरूपमीशस्य बलं विश्वनियामकम् ॥ ७॥
तस्यांशांशमयी शक्तिः कालात्मनि महात्मनि ।
ततो निष्क्रम्य सङ्क्रान्ता विसृष्टाग्रेरिवायसी ॥ ८॥
तस्मात्कालवशे विश्वं न स विश्ववशे स्थितः ।
शिवस्य तु वशे कालो न कालस्य वशे शिवः ॥ ९॥
यतोऽप्रतिहतं शार्वं तेजः काले प्रतिष्ठितम् ।
महती तेन कालस्य मर्यादा हि दुरत्यया ॥ १०॥
कालं प्रज्ञाविशेषेण कोऽतिवर्तितुमर्हति ।
कालेन तु कृतं कर्म न कश्चिदतिवर्तते ॥ ११॥
एकच्छत्रां महीं कृत्स्नां ये पराक्रम्य शासति ।
तेऽपि नैवातिवर्तन्ते कालं वेलामिवाब्धयः ॥ १२॥
ये निगृह्येन्द्रियग्रामं जयन्ति सकलं जगत् ।
न जयन्त्यपि ते कालं कालो जयति तानपि ॥ १३॥
आयुर्वेदविदो वैद्याः त्वनुष्ठितरसायनाः ।
न मृत्युमतिवर्तन्ते कालो हि दुरतिक्रमः ॥ १४॥
श्रिया रूपेण शीलेन बलेन च कुलेन च ।
अन्यच्चिन्तयते जन्तुः कालोऽन्यत्कुरुते बलात् ॥ १५॥
अप्रियैश्च प्रियैश्चैव ह्यचिन्तितसमागमैः ।
संयोजयति भूतानि वियोजयति चेश्वरः ॥ १६॥
यदैव दुःखितः कश्चित्तदैव सुखितः परः ।
दुर्विज्ञेयस्वभावस्य कालास्याहो विचित्रता ॥ १७॥
यो युवा स भवेद् वृद्धो यो बलीयान्स दुर्बलः ।
यः श्रीमान्सोऽपि निःश्रीकः कालश्चित्रगतिर्द्विजा ॥ १८॥
नाभिजात्यं न वै शीलं न बलं न च नैपुणम् ।
भवेत्कार्याय पर्याप्तं कालश्चत् प्रतिरोधकः ॥ १९॥
ये सनाथाश्च दातारो गीतवाद्यैरुपस्थिताः ।
ये चानाथाः परान्नादाः कालस्तेषु समक्रियः ॥ २०॥
फलन्त्यकाले न रसायनानि सम्यक् प्रयुक्तान्यपि चौषधानि ।
तान्येव कालेन समाहृतानि सिद्धिं प्रयान्त्याशु सुखं दिशन्ति ॥ २१॥
नाकालतोऽयं म्रियते जायते वा नाकालतः पुष्टिमग्र्यामुपैति ।
नाकालतः सुखितं दुःखितं वा नाकालिकं वस्तु समस्ति किञ्चित् ॥ २२॥
कालेन शीतः प्रतिवाति वातः कालेन वृष्टिर्जलदानुपैति ।
कालेन चोष्मा प्रशमं प्रयाति कालेन सर्वं सफलत्वमेति ॥ २३॥
कालश्च सर्वस्य भवस्य हेतुः कालेन सस्यानि भवन्ति नित्यम् ।
कालेन सस्यानि लयं प्रयान्ति कालेन सञ्जीवति जीवलोकः ॥ २४॥
इत्थं कालात्मनस्तत्त्वं यो विजानाति तत्त्वतः ।
कालात्मानमतिक्रम्य कालातीतं स पश्यति ॥ २५॥
न यस्य कालो न च बन्धमुक्ती न यः पुमान्न प्रकृतिर्न विश्वम् ।
विचित्ररूपाय शिवाय तस्मै नमःपरस्मै परमेश्वराय ॥ २६॥