७ वायवीयसंहिता, अध्याय 6: वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वज्ञानवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 79 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.१.६. षष्ठोऽध्यायः ।
शिवतत्त्वज्ञानवर्णनम् ।
मुनय ऊचुः ।
योऽयं पशुरिति प्रोक्तो यश्च पाश उदाहृतः ।
आभ्यां विलक्षणः कश्चित्कोऽयमस्ति तयोः पतिः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
वायुरुवाच ।
अस्ति कश्चिदपर्यन्तरमणीयगुणाश्रयः ।
पतिर्विश्वस्य निर्माता पशुपाशविमोचनः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
अभावे तस्य विश्वस्य सृष्टिरेषा कथं भवेत् ।
अचेतनत्वादज्ञानादनयोः पशुपाशयोः ॥ ३॥
प्रधानपरमाण्वादि यावत्किञ्चिदचेतनम् ।
तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ॥ ४॥
जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ।
तस्मात्कार्यस्य कर्तृत्वं पत्युर्न पशुपाशयोः ॥ ५॥
पशोरपि च कर्तृत्वं पत्युः प्रेरणपूर्वकम् ।
अयथाकरणज्ञानमन्धस्य गमनं यथा ॥ ६॥
आत्मानं च पृथङ्मत्वा प्रेरितारं ततः पृथक् ।
असौ जुष्टस्ततस्तेन ह्यमृतत्वाय कल्पते ॥ ७॥
पशोः पाशस्य पत्युश्च तत्त्वतोऽस्ति पदं परम् ।
ब्रह्मवित् तद्विदित्वैव योनिमुक्तो भविष्यति ॥ ८॥
संयुक्तमेतद् द्वितयं क्षरमक्षरमेव च ।
व्यक्ताव्यक्तं बिभर्तीशो विश्वं विश्वविमोचकः ॥ ९॥
भोक्ता भोग्यं प्रेरयिता मन्तव्यं त्रिविधं स्मृतम् ।
नातः परं विजानद्भिर्वेदितव्यं हि किञ्चन ॥ १०॥
तिलेषु वा यथा तैलं दध्नि वा सर्पिरर्पितम् ।
यथापः स्रोतसि व्याप्ता यथारण्यां हुताशनः ॥ ११॥
एवमेव महात्मानमात्मन्यात्मविलक्षणम् ।
सत्येन तपसा चैव नित्ययुक्तोऽनुपश्यति ॥ १२॥
य एको जालवानीश ईशानीभिः स्वशक्तिभिः ।
सर्वांल्लोकानिमान् कृत्वा एक एव स ईशते ॥ १३॥
एक एव सदा रुद्रो न द्वितीयोऽस्ति कश्चन ।
संसृज्य विश्वभुवनं गोप्ता ते सञ्चुकोच यः ॥ १४॥
विश्वतश्चक्षुरेवायमुतायं विश्वतोमुखः ।
तथैव विश्वतोबाहुर्विश्वतः पादसंयुतः ॥ १५॥
द्यावाभूमी च जनयन् देव एको महेश्वरः ।
स एव सर्वदेवानां प्रभवश्चोद्भवस्तथा ॥ १६॥
हिरण्यगर्भं देवानां प्रथमं जनयेदयम् ।
विश्वस्मादधिको रुद्रो महर्षिरिति हि श्रुतिः ॥ १७॥
वेदाहमेतं पुरुषं महान्तममृतं ध्रुवम् ।
आदित्यवर्णं तमसः परस्तात्संस्थितं प्रभुम् ॥ १८॥
अस्मान्नास्ति परं किञ्चिदपरं परमात्मनः ।
नाणीयोऽस्ति न च ज्यायस्तेन पूर्णमिदं जगत् ॥ १९॥
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ।
सर्वव्यापी च भगवांस्तस्मात्सर्वगतश्शिवः ॥ २०॥
सर्वतः पाणिपादोऽयं सर्वतोऽक्षिशिरोमुखः ।
सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥ २१॥
सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः ।
सर्वस्य प्रभुरीशानः सर्वस्य शरणं सुहृत् ॥ २२॥
अचक्षुरपि यः पश्यत्यकर्णोऽपि शृणोति यः ।
सर्वं वेत्ति न वेत्तास्य तमाहुः पुरुषं परम् ॥ २३॥
अणोरणीयान्महतो महीयानयमव्ययः ।
गुहायां निहितश्चापि जन्तोरस्य महेश्वरः ॥ २४॥
तमक्रतुं क्रतुप्रायं महिमातिशयान्वितम् ।
धातुः प्रसादादीशानं वीतशोकः प्रपश्यति ॥ २५॥
वेदाहमेनमजरं पुराणं सर्वगं विभुम् ।
निरोधं जन्मनो यस्य वदन्ति ब्रह्मवादिनः ॥ २६॥
एकोऽपि त्रीनिमांल्लोकान् बहुधा शक्तियोगतः ।
विदधाति विचेत्यन्ते विश्वमादौ महेश्वरः ॥ २७॥