७ वायवीयसंहिता, अध्याय 5: वायवीयसंहितायां पूर्वखण्डे शिवतत्त्वज्ञानवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 67 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.१.५. पञ्चमोऽध्यायः ।
शिवतत्त्वज्ञानवर्णनम् ।
सूत उवाच ।
तत्र पूर्वं महाभागा नैमिषारण्यवासिनः ।
प्रणिपत्य यथान्यायं पप्रच्छुः पवनं प्रभुम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
नैमिषीया ऊचुः ।
भवान् कथमनुप्राप्तो ज्ञानमीश्वरगोचरम् ।
कथं च शिष्यभावस्ते ब्रह्मणोऽव्यक्तजन्मनः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
वायुरुवाच ।
एकोनविंशतिः कल्पो विज्ञेयः श्वेतलोहितः ।
तस्मिन्कल्पे चतुर्वक्त्रः स्रष्टुकामोऽतपत्तपः ॥ ३॥
तपसा तेन तीव्रेण तुष्टस्तस्य पिता स्वयम् ।
दिव्यं कौमारमास्थाय रूपं रूपवतां वरः ॥ ४॥
श्वेतो नाम मुनिर्भूत्वा दिव्यां वाचमुदीरयन् ।
दर्शनं प्रददौ तस्मै देवदेवो महेश्वरः ॥ ५॥
तं दृष्ट्वा पितरं ब्रह्मा ब्रह्मणोऽधिपतिं पतिम् ।
प्रणम्य परमज्ञानं गायत्र्या सह लब्धवान् ॥ ६॥
ततः स लब्धविज्ञानो विश्वकर्मा चतुर्मुखः ।
असृजत्सर्वभूतानि स्थावराणि चराणि च ॥ ७॥
यतः श्रुत्वाऽमृतं लब्धं ब्रह्मणा परमेश्वरात् ।
ततस्तद्वदनादेव मया लब्धं तपोबलात् ॥ ८॥
मुनय ऊचुः ।
किं तज्ज्ञानं त्वया लब्धं तथ्यात्तथ्यतरं शुभम् ।
यत्र कृत्वा परां निष्ठां पुरुषः सुखमृच्छति ॥ ९॥
वायुरुवाच ।
पशुपाशपतिज्ञानं यल्लब्धं तु मया पुरा ।
तत्र निष्ठा परा कार्या पुरुषेण सुखार्थिना ॥ १०॥
अज्ञानप्रभवं दुःखं ज्ञानेनैव निवर्त्तते ।
ज्ञानं वस्तुपरिच्छेदो वस्तु च त्रिविधं स्मृतम् ॥ ११॥
अजडं च जडं चैव नियन्तृ च तयोरपि ।
पशुः पाशः पतिश्चेति कथ्यते तत्त्रयं क्रमात् ॥ १२॥
अक्षरं च क्षरं चैव क्षराक्षरपरं तथा ।
तदेतत्त्रितयं भूम्ना कथ्यते तत्त्ववेदिभिः ॥ १३॥
अक्षरं पशुरित्युक्तः क्षरं पाश उदाहृतः ।
क्षराक्षरपरं यत्तत् पतिरित्यभिधीयते ॥ १४॥
मुनय ऊचुः ।
किं तच्च क्षरमित्युक्तं किं चाक्षरमुदाहृतम् ।
तयोश्च परमं किं वा तदेतद् ब्रूहि मारुत ॥ १५॥
वायुरुवाच ।
प्रकृतिः क्षरमित्युक्तं पुरुषोऽक्षर उच्यते ।
ताविमौ प्रेरयत्यन्यः स परः परमेश्वरः ॥ १६॥
मुनय ऊचुः ।
कैषा प्रकृतिरित्युक्ता क एष पुरुषो मतः ।
अनयोः केन सम्बन्धः कोऽयं प्रेरक ईश्वरः ॥ १७॥
वायुरुवाच ।
मायाप्रकृतिरुद्दिष्टा पुरुषो माययाऽऽवृतः ।
सम्बन्धो मलकर्मभ्यां शिवः प्रेरक ईश्वरः ॥ १८॥
मुनय ऊचुः ।
केयं माया समाख्याता किंरूपो मायया वृतः ।
मलं कीदृक् कुतो वास्य किं शिवत्वं कुतश्शिवः ॥ १९॥
वायुरुवाच ।
माया माहेश्वरी शक्तिश्चिद्रूपो मायया वृतः ।
मलश्चिच्छादको नैजो विशुद्धिः शिवता स्वतः ॥ २०॥
मुनय ऊचुः ।
आवृणोति कथं माया व्यापिनं केन हेतुना ।
किमर्थं चावृतिः पुंसः केन वा विनिवर्तते ॥ २१॥
वायुरुवाच ।
आवृतिर्व्यापिनोऽपि स्याद्व्यापि यस्मात्कलाद्यपि ।
हेतुः कर्मैव भोगार्थं निवर्तेत मलक्षयात् ॥ २२॥
मुनय ऊचुः ।
कलादि कथ्यते किं तत्कर्म वा किमुदाहृतम् ।
तत्किमादि किमन्तं वा किम्फलं वा किमाश्रयम् ॥ २३॥
कस्मै भोगेश्च किं भोग्यं किं वा तद्भोगसाधनम् ।
मलक्षयस्य को हेतुः कीदृक् क्षीणमलः पुमान् ॥ २४॥
वायुरुवाच ।
कला विद्या च रागश्च कालो नियतिरेव च ।
कलादयः समाख्याता यो भोक्ता पुरुषो भवेत् ॥ २५॥
पुण्यपापात्मकं कर्म सुखदुःखफलं तु यत् ।
अनादिमलभोगान्तमज्ञानात्मसमाश्रयम् ॥ २६॥
भोगः कर्मविनाशाय भोग्यमव्यक्तमुच्यते ।
बाह्यान्तःकरणद्वारं शरीरं भोगसाधनम् ॥ २७॥