Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 1

७.१.४. चतुर्थोऽध्यायः ।

वायुसमागमः ।

सूत उवाच ।

तस्मिन्देशे महाभागा मुनयः शंसितव्रताः ।

अर्चयन्तो महादेवं सत्रमारेभिरे तदा ॥ १॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 2

तच्च सत्रं प्रववृते सर्वाश्चर्यं महर्षिणाम् ।

विश्वं सिसृक्षमाणानां पुरा विश्वसृजामिव ॥ २॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 3

अथ काले गते सत्रे समाप्ते भूरिदक्षिणे ।

पितामहनियोगेन वायुस्तत्रागमत्स्वयम् ॥ ३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 4

शिष्यः स्वयम्भुवो देवः सर्वप्रत्यक्षदृग्वशी ।

आज्ञायां मरुतो यस्य संस्थिताः सप्तसप्तकाः ॥ ४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 5

प्रेरयञ्छश्वदङ्गानि प्राणाद्याभिः स्ववृत्तिभिः ।

सर्वभूतशरीराणां कुरुते यश्च धारणम् ॥ ५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 6

अणिमादिभिरष्टाभिरैश्वर्यैश्च समन्वितः ।

तिर्यक् करादिभिर्मेध्यैर्भुवनानि बिभर्ति यः ॥ ६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 7

आकाशयोनिर्द्विगुणः स्पर्शशब्दसमन्वयात् ।

तेजसां प्रकृतिश्चेति यमाहुस्तत्त्वचिन्तकाः ॥ ७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 8

तमाश्रमगतं दृष्ट्वा मुनयो दीर्घसत्रिणः ।

पितामहवचः स्मृत्वा प्रहर्षमतुलं ययुः ॥ ८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 9

अभ्युत्थाय ततः सर्वे प्रणम्याम्बरसम्भवम् ।

चामीकरमयं तस्मै विष्टरं समकल्पयन् ॥ ९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 10

सोऽपि तत्र समासीनो मुनिभिः सम्यगर्चितः ।

प्रतिनन्द्य च तान् सर्वान् पप्रच्छ कुशलं ततः ॥ १०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 11

वायुरुवाच ।

अत्र वः कुशलं विप्राः कच्चिद्वृत्ते महाक्रतौ ।

कच्चिद्यज्ञहनो दैत्या न बाधेरन्सुरद्विषः ॥ ११॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 12

प्रायश्चित्तं दुरिष्टं वा न कश्चित्समजायत ।

स्तोत्रमन्त्रजपैर्देवान् पितृन् पित्र्यैश्च कर्मभिः ॥ १२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 13

कच्चिदभ्यर्च्य युष्माभिर्विधिरासीत्स्वनुष्ठितः ।

निवृत्ते च महासत्रे पश्चात्किं वश्चिकीर्षितम् ॥ १३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 14

इत्युक्ता मुनयः सर्वे वायुना शिवभाविना ।

प्रहृष्टमनसः पूताः प्रत्यूचुर्विनयान्विताः ॥ १४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 15

मुनय ऊचुः ।

अद्य नः कुशलं सर्वमद्य साधु भवेत्तपः ।

अस्मच्छ्रेयोऽभिवृद्ध्यर्थं भवानत्रागतो यतः ॥ १५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 16

श‍ृणु चेदं पुरावृत्तं तमसाक्रान्तमानसैः ।

उपासितः पुरास्माभिर्विज्ञानार्थं प्रजापतिः ॥ १६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 17

सोऽप्यस्माननुगृह्याह शरण्यः शरणागतान् ।

सर्वस्मादधिको रुद्रो विप्राः परमकारणम् ॥ १७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 18

तमप्रतर्क्यं याथात्म्यं भक्तिमानेव पश्यति ।

भक्तिश्चास्य प्रसादेन प्रसादादेव निर्वृतिः ॥ १८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 19

तस्मादस्य प्रसादार्थं नैमिषे सत्रयोगतः ।

यजध्वं दीर्घसत्रेण रुद्रं परमकारणम् ॥ १९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 20

तत्प्रसादेन सत्रान्ते वायुस्तत्रागमिष्यति ।

तन्मुखाज्ज्ञानलाभो वस्तत्र श्रेयो भविष्यति ॥ २०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 21

इत्यादिश्य वयं सर्वे प्रेषिताः परमेष्ठिना ।

अस्मिन्देशे महाभाग तवागमनकाङ्क्षिणः ॥ २१॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 22

दीर्घसत्रं समासीना दिव्यवर्षसहस्रकम् ।

अतस्तवागमादन्यत्प्रार्थ्यं नो नास्ति किञ्चन ॥ २२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 23

इत्याकर्ण्य पुरावृत्तमृषीणां दीर्घसत्रिणाम् ।

वायुः प्रीतमना भूत्वा तत्रासीन्मुनिसंवृतः ॥ २३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 4: वायवीयसंहितायां पूर्वखण्डे वायुसमागमो, Verse 24

ततस्तैर्मुनिभिः पृष्टस्तेषां भावविवृद्धये ।

सर्गादि शार्वमैश्वर्यं समासादवदद् विभुः ॥ २४॥