Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं

Containing 66 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 1

७.१.३. तृतीयोऽध्यायः ।

नैमिषोपाख्यानम् ।

ब्रह्मोवाच ।

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।

आनन्दं यस्य वै विद्वान्न बिभेति कुतश्चन ॥ १॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 2

यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् ।

सह भूतेन्द्रियैः सर्वैः प्रथमं सम्प्रसूयते ॥ २॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 3

कारणानां च यो धाता ध्याता परमकारणम् ।

न सम्प्रसूयतेऽन्यस्मात्कुतश्चन कदाचन ॥ ३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 4

सर्वैश्वर्येण सम्पन्नो नाम्ना सर्वेश्वरः स्वयम् ।

सर्वैर्मुमुक्षुभिर्ध्येयः शम्भुराकाशमध्यगः ॥ ४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 5

योऽग्रे मां विदधे पुत्रं ज्ञानं च प्रहिणोति मे ।

तत्प्रसादान्मया लब्धं प्राजापत्यमिदं पदम् ॥ ५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 6

ईशो वृक्ष इव स्तब्धो य एको दिवि तिष्ठति ।

येनेदमखिलं पूर्णं पुरुषेण महात्मना ॥ ६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 7

एको बहूनां जन्तूनां निष्क्रियाणां च सक्रियः ।

य एको बहुधा बीजं करोति स महेश्वरः ॥ ७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 8

जीवैरेभिरिमांल्लोकान्सर्वानीशो य ईशते ।

य एको भागवान् रुद्रो न द्वितीयोऽस्ति कश्चन ॥ ८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 9

सदा जनानां हृदये सन्निविष्टोऽपि यः परैः ।

अलक्ष्यो लक्षयन्विश्वमधितिष्ठति सर्वदा ॥ ९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 10

यस्तु कालात्प्रमुक्तानि कारणान्यखिलान्यपि ।

अनन्तशक्तिरेवैको भगवानधितिष्ठति ॥ १०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 11

न यस्य दिवसो रात्रिर्न समानो न चाधिकः ।

स्वाभाविकी पराशक्तिर्नित्या ज्ञानक्रिये अपि ॥ ११॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 12

यदिदं क्षरमव्यक्तं यदप्यमृतमक्षरम् ।

तावुभावक्षरात्मानावेको देवः स्वयं हरः ॥ १२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 13

ईशते तदभिध्यानाद् योजनात्तत्वभावनः ।

भूयो ह्यस्य पशोरन्ते विश्वमाया निवर्तते ॥ १३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 14

यस्मिन्न भासते विद्युन्न सूर्यो न च चन्द्रमाः ।

यस्य भासा विभातीदमित्येषा शाश्वती श्रुतिः ॥ १४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 15

एको देवो महादेवो विज्ञेयस्तु महेश्वरः ।

न तस्य परमं किञ्चित्पदं समधिगम्यते ॥ १५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 16

अयमादिरनाद्यन्तः स्वभावादेव निर्मलः ।

स्वतन्त्रः परिपूर्णश्च स्वेच्छाधीनश्चराचरः ॥ १६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 17

अप्राकृतवपुः श्रीमांल्लक्ष्यलक्षणवर्जितः ।

अयं मुक्तो मोचकश्च ह्यकालः कालचोदकः ॥ १७॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 18

सर्वोपरिकृतावासः सर्वावासश्च सर्ववित् ।

षड्विधाध्वमयस्यास्य सर्वस्य जगतः पतिः ॥ १८॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 19

उत्तरोत्तरभूतानामुत्तरश्च निरुत्तरः ।

अनन्तानन्तसन्दोहमकरन्दमध्रुव्रतः ॥ १९॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 20

अखण्डजगदण्डानां पिण्डीकरणपण्डितः ।

औदार्यवीर्यगाम्भीर्यमाधुर्यमकरालयः ॥ २०॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 21

नैवास्य सदृशं वस्तु नाधिकं चापि किञ्चन ।

अतुलः सर्वभूतानां राजराजश्च तिष्ठति ॥ २१॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 22

अनेन चित्रकृत्येन प्रथमं सृज्यते जगत् ।

अन्तकाले पुनश्चेदं तस्मिन्प्रलयमेष्यति ॥ २२॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 23

अस्य भूतानि वश्यानि अयं सर्वनियोजकः ।

अयं तु परया भक्त्या दृश्यते नान्यथा क्वचित् ॥ २३॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 24

व्रतानि सर्वदानानि तपांसि नियमास्तथा ।

कथितानि पुरा सद्भिर्भावार्थं नात्र संशयः ॥ २४॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 25

हरिश्चाहं च रुद्रश्च तथान्ये च सुरासुराः ।

तपोभिरुग्रैरद्यापि तस्य दर्शनकाङ्क्षिणः ॥ २५॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 26

अदृश्यः पतितैर्मूढैर्दुर्जनैरपि कुत्सितैः ।

भक्तैरन्तर्बहिश्चापि पूज्यः सम्भाष्य एव च ॥ २६॥

Shiva Purana

७ वायवीयसंहिता, अध्याय 3: वायवीयसंहितायां पूर्वखण्डे नैमिषोपाख्यानं, Verse 27

तदिदं त्रिविधं रूपं स्थूलं सूक्ष्मं ततः परम् ।

अस्मदाद्यमरैर्दृश्यं स्थूलं सूक्ष्मं तु योगिभिः ॥ २७॥