७ वायवीयसंहिता, अध्याय 2: वायवीयसंहितायां पूर्वखण्डे मुनिप्रस्ताववर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
७.१.२. द्वितीयोऽध्यायः ।
मुनिप्रस्ताववर्णनम् ।
सूत उवाच ।
पुरा कालेन महता कल्पेऽतीते पुनः पुनः ।
अस्मिन्नुपस्थिते कल्पे प्रवृत्ते सृष्टिकर्मणि ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
प्रतिष्ठितायां वार्तायां प्रबुद्धासु प्रजासु च ।
मुनीनां षट्कुलीयानां ब्रुवतामितरेतरम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
इदं परमिदं नेति विवादः सुमहानभूत् ।
परस्य दुर्निरूपत्वान्न जातस्तत्र निश्चयः ॥ ३॥
तेऽभिजग्मुर्विधातारं द्रष्टुं ब्रह्माणमव्ययम् ।
यत्रास्ते भगवान् ब्रह्मा स्तूयमानः सुरासुरैः ॥ ४॥
मेरुशृङ्गे शुभे रम्ये देवदानवसङ्कुले ।
सिद्धचारणसम्बादे यक्षगन्धर्वसेविते ॥ ५॥
विहङ्गसङ्घसङ्घुष्टेमणिविद्रुमभूषिते ।
निकुञ्जकन्दरदरीगृहानिर्झरशोभिते ॥ ६॥
तत्र ब्रह्मवनं नाम नानामृगसमाकुलम् ।
दशयोजनविस्तीर्णं शतयोजनमायतम् ॥ ७॥
सुरसामलपानीयपूर्णरम्यसरोवरम् ।
मत्तभ्रमरसञ्छन्नरम्यपुष्पितपादपम् ॥ ८॥
तरुणादित्यसङ्काशं तत्र चारु महत्पुरम् ।
दुर्द्धर्षबलदृप्तानां दैत्यदानवरक्षसाम् ॥ ९॥
तप्तजाम्बूनदमयं प्रांशुप्राकारतोरणम् ।
निर्यूहवलभीकूटप्रतोलीशतमण्डितम् ॥ १०॥
महार्हमणिचित्राभिर्लेलिहानमिवाम्बरम् ।
महाभवनकोटीभिरनेकाभिरलङ्कृतम् ॥ ११॥
तस्मिन्निवसति ब्रह्मा सभ्यैः सार्द्धं प्रजापतिः ।
तत्र गत्वा महात्मानं साक्षाल्लोकपितामहम् ॥ १२॥
ददृशुर्मुनयो देवा देवर्षिगणसेवितम् ।
शुद्धचामीकरप्रख्यं सर्वाभरणभूषितम् ॥ १३॥
प्रसन्नवदनं सौम्यं पद्मपत्रायतेक्षणम् ।
दिव्यकान्तिसमायुक्तं दिव्यगन्धानुलेपनम् ॥ १४॥
दिव्यशुक्लाम्बरधरं दिव्यमालाविभूषितम् ।
सुरासुरेन्द्रयोगीन्द्रवन्द्यमानपदाम्बुजम् ॥ १५॥
सर्वलक्षणयुक्ताङ्ग्या लब्धचामरहस्तया ।
भ्राजमानं सरस्वत्या प्रभयेव दिवाकरम् ॥ १६॥
तं दृष्ट्वा मुनयः सर्वे प्रसन्नवदनेक्षणाः ।
शिरस्यञ्जलिमाधाय तुष्टुवुः सुरपुङ्गवम् ॥ १७॥
मुनय ऊचुः ।
नमस्त्रिमूर्तये तुभ्यं सर्गस्थित्यन्तहेतवे ।
पुरुषाय पुराणाय ब्रह्मणे परमात्मने ॥ १८॥
नमः प्रधानदेहाय प्रधानक्षोभकारिणे ।
त्रयोविंशतिभेदेन विकृतायाविकारिणे ॥ १९॥
नमो ब्रह्माण्डदेहाय ब्रह्माण्डोदरवर्तिने ।
तत्र संसिद्धकार्याय संसिद्धकरणाय च ॥ २०॥
नमोऽस्तु सर्वलोकाय सर्वलोकविधायिने ।
सर्वात्मदेहसंयोगवियोगविधिहेतवे ॥ २१॥
त्वयैव निखिलं सृष्टं संहृतं पालितं जगत् ।
तथापि मायया नाथ न विद्मस्त्वां पितामह ॥ २२॥
सूत उवाच ।
एवं ब्रह्मा महाभागैर्महर्षिभिरभिष्टुतः ।
प्राह गम्भीरया वाचा मुनीन् प्रह्लादयन्निव ॥ २३॥
ब्रह्मोवाच ।
ऋषयो हे महाभागा महासत्त्वा महौजसः ।
किमर्थं सहिताः सर्वे यूयमत्र समागताः ॥ २४॥
तमेवंवादिनं देवं ब्रह्माणं ब्रह्मवित्तमाः ।
वाग्भिर्विनयगर्भाभिः सर्वे प्राञ्जलयोऽब्रुवन् ॥ २५॥
मुनय ऊचुः ।
भगवन्नन्धकारेण महता वयमावृताः ।
खिन्ना विवदमानाश्च न पश्यामोऽत्र यत्परम् ॥ २६॥
त्वं हि सर्वजगद्धाता सर्वकारणकारणम् ।
त्वया ह्यविदितं नाथ नेह किञ्चन विद्यते ॥ २७॥