७ वायवीयसंहिता, अध्याय 1: वायवीयसंहितायां पूर्वखण्डे विद्यावतारकथनं, Verse 1
श्रीशिवमहापुराणम् ७ वायवीयससंहिता ॥
श्रीगणेशाय नमः ॥
Containing 71 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रीशिवमहापुराणम् ७ वायवीयससंहिता ॥
श्रीगणेशाय नमः ॥
अथ सप्तमी वायवीयसंहिता पूर्वखण्डः ।
७.१.१. प्रथमोऽध्यायः ।
विद्यावतारकथनम् ।
व्यास उवाच ।
नमः शिवाय सोमाय सगणाय ससूनवे ।
प्रधानपुरुषेशाय सर्गस्थित्यन्तहेतवे ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
शक्तिरप्रतिमा यस्य ह्यैश्वर्यं चापि सर्वगम् ।
स्वामित्वं च विभुत्वं च स्वभावं सम्प्रचक्षते ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
सप्तमी वायवीयसंहिता
तमजं विश्वकर्माणं शाश्वतं शिवमव्ययम् ।
महादेवं महात्मानं व्रजामि शरणं शिवम् ॥ ३॥
धर्मक्षेत्रे महातीर्थे गङ्गाकालिन्दिसङ्गमे ।
प्रयागे नैमिषारण्ये ब्रह्मलोकस्य वर्त्मनि ॥ ४॥
मुनयः शंसितात्मानः सत्यव्रतपरायणाः ।
महौजसो महाभागा महासत्रं वितेनिरे ॥ ५॥
तत्र सत्रं समाकर्ण्य तेषामक्लिष्टकर्मणाम् ।
साक्षात्सत्यवतीसूनोर्वेदव्यासस्य धीमतः ॥ ६॥
शिष्यो महात्मा मेधावी त्रिषु लोकेषु विश्रुतः ।
पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् ॥ ७॥
उत्तरोत्तरवक्ता च ब्रुवतोऽपि बृहस्पतेः ।
मधुरश्रवणानां च मनोज्ञपदपर्वणाम् ॥ ८॥
कथानां निपुणो वक्ता कालविन्नयवित्कविः ।
आजगाम स तं देशं सूतः पौराणिकोत्तमः ॥ ९॥
तं दृष्ट्वा सूतमायान्तं मुनयो हृष्टमानसाः ।
तस्मै साम च पूजां च यथावत्प्रत्यपादयन् ॥ १०॥
प्रतिगृह्य स तां पूजां मुनिभिः प्रतिपादिताम् ।
उद्दिष्टमासनं भेजे नियुक्तो युक्तमात्मनः ॥ ११॥
ततस्तत्सङ्गमादेव मुनीनां भावितात्मनाम् ।
सोत्कण्ठमभवच्चित्तं श्रोतुं पौराणिकीं कथाम् ॥ १२॥
तदा तमनुकूलाभिर्वाग्भिः पूज्य महर्षयः ।
अतीवाभिमुखं कृत्वा वचनं चेदमब्रुवन् ॥ १३॥
ऋषय ऊचुः ।
रोमहर्षण सर्वज्ञ भवान्नो भाग्यगौरवात् ।
सम्प्राप्तोऽद्य महाभाग शैवराज महामते ॥ १४॥
पुराणविद्यामखिलां व्यासात्प्रत्यक्षमीयिवान् ।
तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम् ॥ १५॥
रत्नानामुरुसाराणां रत्नाकर इवार्णवः ।
यच्च भूतं यच्च भव्यं यच्चान्यद्वस्तु वर्तते ॥ १६॥
न तवाविदितं किञ्चित् त्रिषु लोकेषु विद्यते ।
त्वमदृष्टवशादस्मद्दर्शनार्थमिहागतः ।
अकुर्वन्किमपि श्रेयो न वृथा गन्तुमर्हसि ॥ १७॥
तस्माच्छ्राव्यतरं पुण्यं सत्कथाज्ञानसंहितम् ।
वेदान्तसारसर्वस्वं पुराणं श्रावयाशु नः ॥ १८॥
एवमभ्यर्थितः सूतो मुनिभिर्वेदवादिभिः ।
श्लक्ष्णां च न्यायसंयुक्तां प्रत्युवाच शुभां गिरम् ॥ १९॥
सूत उवाच ।
पूजितोऽनुगृहीतश्च भवद्भिरिति चोदितः ।
कस्मात्सम्यङ् न विब्रूयां पुराणमृषिपूजितम् ॥ २०॥
अभिवन्द्य महादेवं देवीं स्कन्दं विनायकम् ।
नन्दिनं च तथा व्यासं साक्षात्सत्यवतीसुतम् ॥ २१॥
वक्ष्यामि परमं पुण्यं पुराणं वेदसम्मितम् ।
शिवज्ञानार्णवं साक्षाद् भुक्तिमुक्तिफलप्रदम् ॥ २२॥
शब्दार्थन्यायसंयुक्तैरागमार्थैर्विभूषितम् ।
श्वेतकल्पप्रसङ्गेन वायुना कथितं पुरा ॥ २३॥
विद्यास्थानानि सर्वाणि पुराणानुक्रमं तथा ।
तत्पुराणस्य चोत्पत्तिं ब्रुवतो मे निबोधत ॥ २४॥
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्याश्चैताश्चतुर्दश ॥ २५॥
आयुर्वेदो धनुर्वेदो गान्धर्वश्चेत्यनुक्रमात् ।
अर्थशास्त्रं परं तस्माद्विद्या ह्यष्टादश स्मृताः ॥ २६॥
अष्टादशानां विद्यानामेतासां भिन्नवर्त्मनाम् ।
आदिकर्त्ता कविः साक्षाच्छूलपाणिरिति श्रुतिः ॥ २७॥