Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं

Containing 73 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 1

२.१.७. सप्तमोऽध्यायः ।

विष्णुब्रह्मविवादवर्णनम् ।

ब्रह्मोवाच ।

सुप्ते नारायणे देवे नाभौ पङ्कजमुत्तमम् ।

आविर्बभूव सहसा बृहद्वै शङ्करेच्छया ॥ १॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 2

अनन्तयष्टिकायुक्तं कर्णिकारसमप्रभम् ।

अनन्तयोजनायाममनन्तोच्छ्रायसंयुतम् ॥ २॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 3

कोटिसूर्यप्रतीकाशं सुन्दरं तत्त्वसंयुतम् ।

अत्यद्भुतं महारम्यं दर्शनीयमनुत्तमम् ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 4

॥

द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डेः

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 4

कृत्वा यत्नं पूर्ववत्स शङ्करः परमेश्वरः ।

दक्षिणाङ्गान्निजान्मां वै साम्बः शम्भुरजीजनत् ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 5

स मायामोहितं कृत्वा मां महेशो द्रुतं मुने ।

तन्नाभिपङ्कजादाविर्भावयामास लीलया ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 6

एवं पद्मात्ततो जज्ञे पुत्रोऽहं हेमगर्भकः ।

चतुर्मुखो रक्तवर्णस्त्रिपुण्ड्राङ्कितमस्तकः ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 7

तन्मायामोहितश्चाहं नाविदं कमलं विना ।

स्वदेहजनकं तात पितरं ज्ञानदुर्बलः ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 8

कोऽहं वा कुत आयातः किं कार्यं तु मदीयकम् ।

कस्य पुत्रोऽहमुत्पन्नः केनैव निर्मितोऽधुना ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 9

इति संशयमापन्नं बुद्धिर्मां समपद्यत ।

किमर्थं मोहमायामि तज्ज्ञानं सुकरं खलु ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 10

एतत्कमलपुष्पस्य पत्रारोहस्थलं ह्यधः ।

मत्कर्ता च स वै तत्र भविष्यति न संशयः ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 11

इति बुद्धिं समास्थाय कमलादवरोहयम् ।

नाले नाले गतस्तत्र वर्षाणां शतकं मुने ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 12

न लब्धं तु मया तत्र कमलस्थानमुत्तमम् ।

संशयं च पुनः प्राप्तः कमले गन्तुमुत्सुकः ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 13

आरुरोहाथ कमलं नालमार्गेण वै मुने ।

कुड्मलं कमलस्याथ लब्धवान्न विमोहितः ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 14

नालमार्गेण भ्रमतो गतं वर्षशतं पुनः ।

क्षणमात्रं तदा तत्र ततस्तिष्ठन्विमोहितः ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 15

तदा वाणी समुत्पन्ना तपेति परमा शुभा ।

शिवेच्छया परा व्योम्नो मोहविध्वंसिनी मुने ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 16

तच्छ्रुत्वा व्योमवचनं द्वादशाब्दं प्रयत्नतः ।

पुनस्तप्तं तपो घोरं द्रष्टुं स्वजनकं तदा ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 17

तदा हि भगवान्विष्णुश्चतुर्बाहुः सुलोचनः ।

मय्येवानुग्रहं कर्तुं द्रुतमाविर्बभूव ह ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 18

शङ्खचक्रायुधकरो गदापद्मधरः परः ।

घनश्यामलसर्वाङ्गः पीताम्बरधरः परः ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 19

मुकुटादिमहाभूषः प्रसन्नमुखपङ्कजः ।

कोटिकन्दर्पसङ्काशःसन्दृष्टो मोहितेन सः ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 20

तद् दृष्ट्वा सुन्दरं रूपं विस्मयं परमं गतः ।

कालाभं काञ्चनाभं च सर्वात्मानं चतुर्भुजम् ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 21

तथाभूतमहं दृष्ट्वा सदसन्मयमात्मना ।

नारायणं महाबाहुं हर्षितो ह्यभवं तदा ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 22

मायया मोहितः शम्भोस्तदा लीलात्मनः प्रभोः ।

अविज्ञाय स्वजनकं तमवोचं प्रहर्षितः ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 23

ब्रह्मोवाच ।

कस्त्वं वदेति हस्तेन समुत्थाप्य सनातनम् ।

तदा हस्तप्रहारेण तीव्रेण सुदृढेन तु ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 24

प्रबुद्ध्योत्थाय शयनात्समासीनः क्षणं वशी ।

ददर्श निद्राविक्लिन्न नीरजामललोचनः ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 25

मामत्र संस्थितं भासाध्यासितो भगवान्हरिः ।

आह चोत्थाय ब्रह्माणं हसन्मां मधुरं सकृत् ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 7: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने विष्णुब्रह्मविवादवर्णनं, Verse 26

विष्णुरुवाच ।

स्वागतं स्वागतं वत्स पितामह महाद्युते ।

निर्भयो भव दास्येऽहं सर्वान्कामान्न संशयः ॥ २६॥