६ कैलाससंहिता, अध्याय 9: कैलाससंहितायां सूतोपदेशो, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
षष्ठी कैलाससंहिता ६.१०. दशमोऽध्यायः ।
सूतोपदेशः ।
व्यास उवाच ।
गतेऽथ सूते मुनयः सुविस्मिता विचिन्त्य चान्योऽन्यमिदं तु विस्मृतम् ।
यद्वामदेवस्य मतं मुनीश्वर प्रसूचितं तत्खलु कष्टमद्य नः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
कदानुभूयान्मुनिवर्यदर्शनं भवाब्धिदुःखौघहरं परं हि तत् ।
महेश्वराराधनपुण्यतोऽधुना मुनीश्वरः सत्वरमाविरस्तु नः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
इति चिन्तासमाविष्टा मुनयो मुनिपुङ्गवम् ।
व्यासं सम्पूज्य हृत्पद्मे तस्थुस्तद्दर्शनोत्सुकाः ॥ ३॥
॥
ॐ नमः शिवाय ॥
संवत्सरान्ते स पुनः काशीं प्राप महामुनिः ।
शिवभक्तिरतो ज्ञानी पुराणार्थप्रकाशकः ॥ ४॥
तं दृष्ट्वा सूतमायान्तं मुनयो हृष्टचेतसः ।
अभ्युत्थानासनार्घ्यादिपूजया समपूजयन् ॥ ५॥
सोऽपि तान्मुनिशार्दूलानभिनन्द्य स्मितोदरम् ।
प्रीत्या स्नात्वा जाह्नवीये जले परमपावने ॥ ६॥
ऋषीन्सन्तर्प्य च सुरान् पितॄंश्च तिलतण्डुलैः ।
तीरमागत्य सम्प्रोक्ष्य वाससी परिधाय च ॥ ७॥
द्विराचम्य समादाय भस्म सद्यादिमन्त्रतः ।
उद्धूलनादिक्रमतो विधार्याथ मुनीश्वरः ॥ ८॥
रुद्राक्षमालाभरणः कृतनित्यक्रियः सुधी ।
यथोक्ताङ्गेषु विधिना त्रिपुण्ड्रं रचति स्म ह ॥ ९॥
विश्वेश्वरमुमाकान्तं ससुतं सगणाधिपम् ।
पूजयामास सद्भक्त्या ह्यस्तौ नत्वा मुहुर्मुहुः ॥ १०॥
कालभैरवनाथं च सम्पूज्याथ विधानतः ।
प्रदक्षिणीकृत्य पुनस्त्रेधा नत्वा च पञ्चधा ॥ ११॥
पुनः प्रदक्षिणीकृत्य प्रणम्य भुवि दण्डवत् ।
तुष्टाव परया स्तुत्या संस्मरंस्तत्पदाम्बुजम् ॥ १२॥
श्रीमत्पञ्चाक्षरीं विद्यामष्टोत्तरसहस्रकम् ।
सञ्जप्य पुरतः स्थित्वा क्षमापय्य महेश्वरम् ॥ १३॥
चण्डीशं सम्प्रपूज्याऽथ मुक्तिमण्डपमध्यतः ।
निर्दिष्टमासनं भेजे मुनिभिर्वेदपारगैः ॥ १४॥
एवं स्थितेषु सर्वेषु नमस्कृत्य समन्त्रकम् ।
अथ प्राह मुनीन्द्राणां भाववृद्धिकरं वच ॥ १५॥
सूत उवाच ।
धन्या यूयं महाप्राज्ञा मुनयः शंसितव्रताः ।
भवदर्थमिह प्राप्तोऽहं तद्वृत्तमिदं शृणु ॥ १६॥
यदाहमुपदिश्याथ भवतः प्रणवार्थकम् ।
गतस्तीर्थाटनार्थाय तद्वृत्तान्तं ब्रवीमि वः ॥ १७॥
इतो निर्गत्य सम्प्राप्य तीरं दक्षपयोनिधेः ।
स्नात्वा सम्पूज्य विधिवद्देवीं कन्यामयीं शिवाम् ।
पुनरागत्य विप्रेन्द्राः सुवर्णमुखरीतटम् ॥ १८॥
श्रीकालहस्तिशैलाख्यनगरे परमाद्भुते ।
सुवर्णमुखरीतोये स्नात्वा देवानृषीनपि ॥ १९॥
सन्तर्प्य विधिवद्भक्त्या समुद्रं गिरिशं स्मरन् ।
समर्च्य कालहस्तीशं चन्द्रकान्तसमप्रभम् ॥ २०॥
पश्चिमाभिमुखं पञ्चशिरसं परमाद्भुतम् ।
सकृद्दर्शनमात्रेण सर्वाघक्षयकारणम् ॥ २१॥
सर्वसिद्धिप्रदं भुक्तिमुक्तिदं त्रिगुणेश्वरम् ।
ततश्च परया भक्त्या तस्य दक्षिणगां शिवाम् ॥ २२॥
ज्ञानप्रसूनकलिकां समर्च्य हि जगत्प्रसूम् ।
श्रीमत्पञ्चाक्षरीं विद्यामष्टोत्तरसहस्रकम् ॥ २३॥
जप्त्वा प्रदक्षिणीकृत्य स्तुत्वा नत्वा मुहुर्मुहुः ॥ २४॥
ततः प्रदक्षिणीकृत्य गिरिं प्रत्यहमादरात् ।
आमोदतीव मनसि प्रत्यहं नियमास्थितः ॥ २५॥
अनयन् चतुरो मासानेवं तत्र मुनीश्वराः ।
ज्ञानप्रसूनकलिकामहादेव्याः प्रसादतः ॥ २६॥