Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं

Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 1

२.१.६. षष्ठोऽध्यायः ।

विष्णूत्पत्तिवर्णनम् ।

ब्रह्मोवाच ।

भो ब्रह्मन्साधु पृष्टोऽहं त्वया विबुधसत्तम ।

लोकोपकारिणा नित्यं लोकानां हितकाम्यया ॥ १॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 2

यच्छ्रुत्वा सर्वलोकानां सर्वपापक्षयो भवेत् ।

तदहं ते प्रवक्ष्यामि शिवतत्त्वमनामयम् ॥ २॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 2

अचन्द्रमनहोरात्रमनग्न्यनिलभूजलम् ।

अप्रधानं वियच्छून्यमन्यतेजोविवर्जितम् ॥ २॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 3

शिवतत्त्वं मया नैव विष्णुनापि यथार्थतः ।

ज्ञातं च परमं रूपमद्भुतं च परेण न ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 4

॥

द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 4

महाप्रलयकाले च नष्टे स्थावरजङ्गमे ।

आसीत्तमोमयं सर्वमनर्कग्रहतारकम् ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 6

अदृष्टत्वादिरहितं शब्दस्पर्शसमुज्झितम् ।

अव्यक्तगन्धरूपं च रसत्यक्तमदिङ्मुखम् ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 7

इत्थं सत्यन्धतमसे सूचीभेद्ये निरन्तरे ।

तत्सद्ब्रह्मेति यच्छ्रुत्वा सदेकं प्रतिपद्यते ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 8

इतीदृशं यदा नासीद्यत्तत्सदसदात्मकम् ।

योगिनोऽन्तर्हिताकाशे यत्पश्यन्ति निरन्तरम् ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 9

अमनोगोचरं वाचां विषयं न कदाचन ।

अनामरूपवर्णं च न च स्थूलं न यत्कृशम् ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 10

अह्रस्वदीर्घमलघु गुरुत्वपरिवर्जितम् ।

न यत्रोपचयः कश्चित्तथा नोपचयोऽपि च ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 11

अभिधत्ते सचकितं यदस्तीति श्रुतिः पुनः ।

सत्यं ज्ञानमनन्तं च परानन्दं परं महः ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 12

अप्रमेयमनाधारमविकारमनाकृति ।

निर्गुणं योगिगम्यं च सर्वव्याप्येककारकम् ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 13

निर्विकल्पं निरारम्भं निर्मायं निरुपद्रवम् ।

अद्वितीयमनाद्यन्तमविकाशं चिदात्मकम् ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 14

यस्येत्थं संविकल्पन्ते संज्ञासंज्ञोक्तितः स्म वै ।

कियता चैव कालेन द्वितीयेच्छाऽभवत्किल ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 15

अमूर्तेन स्वमूर्तिश्च तेनाकल्पि स्वलीलया ।

सर्वैश्वर्यगुणोपेता सर्वज्ञानमयी शुभा ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 16

सर्वगा सर्वरूपा च सर्वदृक्सर्वकारिणी ।

सर्वैकवन्द्या सर्वाद्या सर्वदा सर्वसंस्कृतिः ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 17

परिकल्प्येति तां मूर्तिमैश्वरीं शुद्धरूपिणीम् ।

अद्वितीयमनाद्यन्तं सर्वाभासं चिदात्मकम् ।

अन्तर्दधे पराख्यं यद् ब्रह्म सर्वगमव्ययम् ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 18

अमूर्ते यत्पराख्यं वै तस्य मूर्तिः सदाशिवः ।

अर्वाचीनाः पराचीना ईश्वरं तं जगुर्बुधाः ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 19

शक्तिस्तदैकलेनापि स्वैरं विहरता तनुः ।

स्वविग्रहात्स्वयं सृष्टा स्वशरीरानपायिनी ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 20

प्रधानं प्रकृतिं तां च मायां गुणवतीं पराम् ।

बुद्धितत्त्वस्य जननीमाहुर्विकृतिवर्जिताम् ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 21

सा शक्तिरम्बिका प्रोक्ता प्रकृतिः सकलेश्वरी ।

त्रिदेवजननी नित्या मूलकारणमित्युत ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 22

अस्या अष्टौ भुजाश्चासन्विचित्रवदना शुभा ।

राकाचन्द्रसहस्रस्य वदने भाश्च नित्यशः ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 23

नानाभरणसंयुक्ता नानागतिसमन्विता ।

नानायुधधरा देवी फुल्लपङ्कजलोचना ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 24

अचिन्त्यतेजसा युक्ता सर्वयोनिः समुद्यता ।

एकाकिनी यदा माया संयोगाच्चाप्यनेकिका ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 25

परः पुमानीश्वरः स शिवः शम्भुरनीश्वरः ।

शीर्षे मन्दाकिनीधारी भालचन्द्रस्त्रिलोचनः ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 6: रुद्रसंहितायां प्रथमखण्डे सृष्टिव्याख्याने विष्णूत्पत्तिवर्णनं, Verse 26

पञ्चवक्त्रः प्रसन्नात्मा दशबाहुस्त्रिशूलधृक् ।

कर्पूरगौरसुसितो भस्मोद्धूलितविग्रहः ॥ २६॥