५ उमासंहिता, अध्याय 38, Verse 1
५.५१ ॥
श्रीगणेशाय नमः ॥
Containing 93 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.५१ ॥
श्रीगणेशाय नमः ॥
५.५१. एकपञ्चाशत्तमोऽध्यायः ।
क्रियायोगनिरूपणम् ।
मुनय ऊचुः ।
व्यासशिष्य महाभाग सूत पौराणिकोत्तम ।
अपरं श्रोतुमिच्छामः किमप्याख्यानमीशितुः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
उमाया जगदम्बायाः क्रियायोगमनुत्तमम् ।
प्रोक्तं सनत्कुमारेण व्यासाय च महात्मने ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
सूत उवाच ।
धन्या यूयं महात्मानो देवीभक्तिदृढव्रताः ।
पराशक्तेः परं गुप्तं रहस्यं शृणुतादरात् ॥ ३॥
व्यास उवाच ।
सनत्कुमार सर्वज्ञ ब्रह्मपुत्र महामते ।
उमायाः श्रोतुमिच्छामि क्रियायोगं महाद्भुतम् ॥ ४॥
कीदृक्च लक्षणं तस्य किं कृते च फलं भवेत् ।
प्रियं यच्च पराम्बायास्तदशेषं वदस्व मे ॥ ५॥
सनत्कुमार उवाच ।
द्वैपायन यदेतत्त्वं रहस्यं परिपृच्छसि ।
तच्छृणुष्व महाबुद्धे सर्वं मे वर्णयिष्यतः ॥ ६॥
ज्ञानयोगः क्रियायोगो भक्तियोगस्तथैव च ।
त्रयो मार्गाः समाख्याताः श्रीमातुर्भुक्तिमुक्तिदाः ॥ ७॥
ज्ञानयोगस्तु संयोगश्चित्तस्यैवात्मना तु यः ।
यस्तु बाह्यार्थसंयोगः क्रियायोगः स उच्यते ॥ ८॥
भक्तियोगो मतो देव्या आत्मनश्चैक्यभावनम् ।
त्रयाणामपि योगानां क्रियायोगः स उच्यते ॥ ९॥
कर्मणा जायते भक्तिर्भक्त्या ज्ञानं प्रजायते ।
ज्ञानात्प्रजायते मुक्तिरिति शास्त्रेषु निश्चयः ॥ ५.५१.१०॥
प्रधानं कारणं योगो विमुक्तेर्मुनिसत्तम ।
क्रियायोगस्तु योगस्य परमं ध्येयसाधनम् ॥ ११॥
मायां तु प्रकृतिं विद्यान्मायावी ब्रह्म शाश्वतम् ।
अभिन्नं तद्वपुर्ज्ञात्वा मुच्यते भवबन्धनात् ॥ १२॥
यस्तु देव्यालयं कुर्यात्पाषाणं दारवं तथा ।
मृन्मयं वाथ कालेय तस्य पुण्यफलं शृणु ।
अहन्यहनि योगेन यजतो यन्महाफलम् ॥ १३॥
प्राप्नोति तत्फलं देव्या यः कारयति मन्दिरम् ।
सहस्रकुलमागामि व्यतीतं च सहस्रकम् ।
स तारयति धर्मात्मा श्रीमातुर्धाम कारयन् ॥ १४॥
कोटिजन्मकृतं पापं स्वल्पं वा यदि वा बहु ।
श्रीमातुर्मन्दिरारम्भक्षणादेव प्रणश्यति ॥ १५॥
नदीषु च यथा गङ्गा शोणः सर्वनदेषु च ।
क्षमायां च यथा पृथ्वी गाम्भीर्ये च यथोदधिः ॥ १६॥
ग्रहाणां च समस्तानां यथा सूर्यो विशिष्यते ।
तथा सर्वेषु देवेषु श्रीपराम्बा विशिष्यते ॥ १७॥
सर्वदेवेषु सा मुख्या यस्तस्याः कारयेद् गृहम् ।
प्रतिष्ठां समवाप्नोति स च जन्मनि जन्मनि ॥ १८॥
वाराणस्यां कुरुक्षेत्रे प्रयागे पुष्करे तथा ।
गङ्गासमुद्रतीरे च नैमिषेऽमरकण्टके ॥ १९॥
श्रीपर्वते महापुण्ये गोकर्णे ज्ञानपर्वते ।
मथुरायामयोध्यायां द्वारावत्यां तथैव च ॥ ५.५१.२०॥
इत्यादिपुण्यदेशेषु यत्र कुत्र स्थलेऽपि वा ।
कारयन्मातुरावासं मुक्तो भवति बन्धनात् ॥ २१॥
इष्टकानां तु विन्यासो यावद्वर्षाणि तिष्ठति ।
तावद्वर्षसहस्राणि मणिद्वीपे महीयते ॥ २२॥
प्रतिमाः कारयेद्यस्तु सर्वलक्षणलक्षिताः ।
स उमायाः परं लोकं निर्भयो व्रजति धुवम् ॥ २३॥
देवीमूर्तिं प्रतिष्ठाप्य शुभर्तुग्रहतारके ।
कृतकृत्यो भवेन्मर्त्यो योगमायाप्रसादतः ॥ २४॥
ये भविष्यन्ति येऽतीता आकल्पात्पुरुषाः कुले ।
तांस्तांस्तारयते देव्या मूर्तिं संस्थाप्य शोभनाम् ॥ २५॥
त्रिलोकीस्थापनात्पुण्यं यद्भवेन्मुनिपुङ्गव ।
तत्कोटिगुणितं पुण्यं श्रीदेवीस्थापनाद्भवेत् ॥ २६॥
मध्ये देवीं स्थापयित्वा पञ्चायतनदेवताः ।
चतुर्दिक्षु स्थापयेद्यस्तस्य पुण्यं न गण्यते ॥ २७॥