५ उमासंहिता, अध्याय 36: धूम्रलोचनचण्डमुण्डरक्तबीजवधो, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 69 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
५.४७. सप्तचत्वरिंशोऽध्यायः ।
धूम्रलोचनचण्डमुण्डरक्तबीजवधः ।
ऋषिरुवाच ।
आसीच्छुम्भासुरो दैत्यो निशुम्भश्च प्रतापवान् ।
त्रैलोक्यमोजसाक्रान्तं भ्रातृभ्यां सचराचरम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
ताभ्यां प्रपीडिता देवा हिमवन्तं समाययुः ।
जननीं सर्वभूतानां कामदात्रीं ववन्दिरे ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
देवा ऊचुः ।
जय दुर्गे महेशानि जयात्मीयजनप्रिये ।
त्रैलोक्यत्राणकारिण्यै शिवायै ते नमो नमः ॥ ३॥
नमो मुक्तिप्रदायिन्यै पराम्बायै नमो नमः ।
नमः समस्तसंसारोत्पत्तिस्थित्यन्तकारिके ॥ ४॥
कालिकारूपसम्पन्ने नमस्ताराकृते नमः ।
छिन्नमस्तास्वरूपायै श्रीविद्यायै नमोऽस्तु ते ॥ ५॥
भुवनेशि नमस्तुभ्यं नमस्ते भैरवाकृते ।
नमोऽस्तु बगलामुख्यै धूमावत्यै नमो नमः ॥ ६॥
नमस्त्रिपुरसुन्दर्य्यै मातङ्गयै ते नमो नमः ।
अजितायै नमस्तुभ्यं विजयायै नमो नमः ॥ ७॥
जयायै मङ्गलायै ते विलासिन्यै नमो नमः ।
दोग्ध्रीरूपे नमस्तुभ्यं नमो घोराकृतेऽस्तु ते ॥ ८॥
नमोऽपराजिताकारे नित्याकारे नमो नमः ।
शरणागतपालिन्यै रुद्राण्यै ते नमो नमः ॥ ९॥
नमो वेदान्तवेद्यायै नमस्ते परमात्मने ।
अनन्तकोटिब्रह्माण्डनायिकायै नमो नमः ॥ १०॥
इति देवैः स्तुता गौरी प्रसन्ना वरदा शिवा ।
प्रोवाच त्रिदशान्सर्वान्युष्माभिः स्तूयतेऽत्र का ॥ ११॥
ततो गौरीतनोरेका प्रादुरासीत्कुमारिका ।
सोवाच मिषतां तेषां शिवशक्तिं परादरात् ॥ १२॥
स्तोत्रं मे क्रियते मातः समस्तैः स्वर्गवासिभिः ।
निशुम्भशुम्भदैत्याभ्यां प्रबलाभ्यां प्रपीडितैः ॥ १३॥
शरीरकोशाद्यत्तस्या निर्गता तेन कौशिकी ।
नाम्ना सा गीयते साक्षाच्छुम्भासुरनिबर्हिणी ॥ १४॥
चैवोग्रतारिका प्रोक्ता महोग्रतारिकापि च ।
प्रादुर्भूता यतः सा वै मातङ्गीत्युच्यते भुवि ॥ १५॥
बभाषे निखिलान्देवान्यूयं तिष्ठत निर्भयाः ।
कार्यं वः साधयिष्यामि स्वतन्त्राहं विनाश्रयम् ॥ १६॥
इत्युक्त्वा सा तदा देवी तरसान्तर्हिताभवत् ।
चण्डमुण्डौ तु तां देवीमद्राष्टां सेवकौ तयोः ॥ १७॥
दृष्ट्वा मनोहरं तस्या रूपं नेत्रसुखावहम् ।
पेततुस्तौ धरामध्ये नष्टसंज्ञौ विमोहितौ ॥ १८॥
गत्वा व्याजह्रतुः सर्वं राज्ञे वृत्तान्तमादितः ।
दृष्टा काचिन्मयापूर्वा नारी राजन्मनोहरा ॥ १९॥
हिमवच्छिखरे रम्ये संस्थिता सिंहवाहिनी ।
समन्ताद्देवकन्याभिः सेविता बद्धपाणिभिः ॥ २०॥
कुरुते पादसंवाहं काचित्संस्कुरुते कचान् ।
पाणिसंवाहनं काचित्काचिन्नेत्राञ्जनं न्यधात् ॥ २१॥
काचिद् गृहीत्वा हस्तेनादर्शं दर्शयते मुखम् ।
नागवल्लीं ददात्येका लवङ्गैलादिसंयुताम् ॥ २२॥
पतद्ग्रहं करे कृत्वा स्थिता काचित्सखी पुरः ।
भूषयत्यखिलाङ्गानि काचिद्भूषाम्बरादिभिः ॥ २३॥
कदलीस्तम्भजङ्घोरुः कीरनासाहिदोर्लता ।
रणन्मञ्जीरचरणा रम्यमेखलया युता ॥ २४॥
लसत्कस्तूरिकामोदमुक्ताहारचलस्तनी ।
ग्रैवेयकलसद्ग्रीवा ललन्ती दाममण्डिता ॥ २५॥
अर्धचन्द्रधरा देवी मणिकुण्डलधारिणी ।
रम्यवेणिर्विशालाक्षी लोचनत्रयभूषिता ॥ २६॥
साक्षरा मालिकोपेता पाणिराजितकङ्कणा ।
स्वर्णोर्मिकाङ्गुलिर्भ्राजत्पारिहार्यलसत्करा ॥ २७॥