५ उमासंहिता, अध्याय 35: महिषासुरवधोपाख्याने महालक्ष्म्यवतारवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 67 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
५.४६. षट्चत्वारिंशोऽध्यायः ।
महालक्ष्म्यवतारवर्णनम् ।
ऋषिरुवाच ।
आसीद्रम्भासुरो नाम दैत्यवंशशिरोमणिः ।
तस्माज्जातो महातेजा महिषो नाम दानवः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
स सङ्ग्रामे सुरान्सर्वान्निर्जित्य दनुजाधिपः ।
चकार राज्यं स्वर्लोके महेन्द्रासनसंस्थितः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
पराजितास्ततो देवा ब्रह्माणं शरणं ययुः ।
ब्रह्मापि तान्समादाय ययौ यत्र वृषाकपी ॥ ३॥
तत्र गत्वा सुराः सर्वे नत्वा शङ्करकेशवौ ।
स्ववृत्तं कथायामासुर्यथावदनुपूर्वशः ॥ ४॥
भगवन्तौ वयं सर्वे महिषेण दुरात्मना ।
उज्जासिताश्च स्वर्लोकान्निर्जित्य समराङ्गणे ॥ ५॥
भ्रमामो मर्त्यलोकेऽस्मिन्न लभेमहिशं क्वचित् ।
कां कां न दुर्दशां नीता देवा इन्द्रपुरोगमाः ॥ ६॥
सूर्याचन्द्रमसौ पाशी कुबेरो यम एव च ।
इन्द्राग्निवातगन्धर्वा विद्याधरसुचारणाः ॥ ७॥
एतेषामपरेषां च विधेयं कर्म सोऽसुरः ।
स्वयं करोति पापात्मा दैत्यपक्षाभयङ्कर ॥ ८॥
तस्माच्छरणमापन्नान्देवान्नस्त्रातुमर्हथः ।
वधोपायं च तस्याशु चिन्तयेथां युवां प्रभू ॥ ९॥
इति देववचः श्रुत्वा दामोदरसतीश्वरौ ।
चक्रतुः परमं कोपं रोषाघूर्णितलोचनौ ॥ १०॥
ततोऽतिकोपपूर्णस्य विष्णोः शम्भोश्च वक्त्रतः ।
तथान्येषां च देवानां शरीरान्निर्गतं महः ॥ ११॥
अतीव महसः पुञ्जं ज्वलन्तं दशदिक्षु च ।
अपश्यंस्त्रिदशाः सर्वे दुर्गाध्यानपरायणाः ॥ १२॥
सर्वदेवशरीरोत्थं तेजस्तदतिभीषणम् ।
सङ्घीभूयाभवन्नारी साक्षान्महिषमर्दिनी ॥ १३॥
शम्भुतेजस उत्पन्नं मुखमस्याः सुभास्वरम् ।
याम्येन बाला अभवन्वैष्णवेन च बाहवः ॥ १४॥
चन्द्रमस्तेजसा तस्याः स्तनयुग्मं व्यजायत ।
मध्यमैन्द्रेण जङ्घोरू वारुणेन बभूवतुः ॥ १५॥
भूतेजसा नितम्बोऽभूद् ब्राह्मेण चरणद्वयम् ।
आर्केण चरणाङ्गुल्यः कराङ्गुल्यश्च वासवात् ॥ १६॥
कुबेरतेजसा नासा रदनाश्च प्रजापतेः ।
पावकीयेन नयनत्रयं सान्ध्येन भ्रूद्वयम् ॥ १७॥
आनिलेन श्रवोद्वन्द्वं तथान्येषां स्वरोकसाम् ।
तेजसा सम्भवा पद्मालया सा परमेश्वरी ॥ १८॥
ततो निखिलदेवानां तेजोराशिसमुद्भवाम् ।
तामालोक्य सुराः सर्वे परं हर्षं प्रपेदिरे ॥ १९॥
निरायुधां च तां दृष्ट्वा ब्रह्माद्यास्त्रिदिवेश्वराः ।
सायुधां तां शिवां कर्तुं मनः सन्दधिरे सुराः ॥ २०॥
ततः शूलं महेशानो महेशान्यै समर्पयत् ।
चक्रं च कृष्णो भगवान् शङ्खं पाशं च पाशभृत् ॥ २१॥
शक्तिं हुताशनोऽयच्छन्मारुतश्चापमेव च ।
बाणपूर्णेषुधी चैव वज्रघण्टे शचीपतिः ॥ २२॥
यमो ददौ कालदण्डमक्षमालां प्रजापतिः ।
ब्रह्मा कमण्डलुं प्रादाद्रोमरश्मीन्दिवाकरः ॥ २३॥
कालः खड्गं ददौ तस्यै फलकं च समुज्वलम् ।
क्षीराब्धी रुचिरं हारमजरे च तथाम्बरे ॥ २४॥
चूडामणिं कुण्डले च कटकानि तथैव च ।
अर्द्धचन्द्रं च केयूरान्नूपुरौ च मनोहरौ ॥ २५॥
ग्रैवेयकमङ्गुलीषु समस्तास्वङ्गुलीयकम् ।
विश्वकर्मा च परशुं ददौ तस्यै मनोहरम् ॥ २६॥
अस्त्राण्यनेकानि तथाभेद्यं चैव तनुच्छदम् ।
सुरम्यसरसां मालां पङ्कजं चाम्बुधिर्ददौ ॥ २७॥