५ उमासंहिता, अध्याय 34: मधुकैटभवधे महाकालिकावतारवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 81 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
५.४५. पञ्चचत्वारिंशोऽध्यायः ।
महाकालिकावतारवर्णनम् ।
मुनय ऊचुः ।
श्रुता शम्भोः कथा रम्या नानाख्यानसमन्विता ।
नानावतारसंयुक्ता भुक्तिमुक्तिप्रदा नृणाम् ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
इदानीं श्रोतुमिच्छामस्त्वत्तो ब्रह्मविदांवर ।
चरित्रं जगदम्बाया भगवत्या मनोहरम् ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
परब्रह्ममहेशस्य शक्तिराद्या सनातनी ।
उमा या समभिख्याता त्रैलोक्यजननी परा ॥ ३॥
सती हैमवती तस्या अवतारद्वयं श्रुतम् ।
अपरानवतारांस्त्वं ब्रूहि सूत महामते ॥ ४॥
को विरज्येत मतिमान् गुणश्रवणकर्मणि ।
श्रीमातुर्ज्ञानिनो यानि न त्यजन्ति कदाचन ॥ ५॥
सूत उवाच ।
धन्या यूयं महात्मानः कृतकृत्याः स्थ सर्वदा ।
यत्पृच्छथ पराम्बाया उमायाश्चरितं महत् ॥ ६॥
शृण्वतां पृच्छतां चैव तथा वाचयतां च तत् ।
पादाम्बुजरजांस्येव तीर्थानि मुनयो विदुः ॥ ७॥
ते धन्या कृतकृत्याः स्युर्धन्या तेषां प्रसूः कुलम् ।
येषां चित्तं भवेल्लीनं श्रीदेव्यां परसंविदि ॥ ८॥
ये न स्तुवन्ति देवेशीं सर्वकारणकारणाम् ।
मायागुणैर्मोहिताः स्युर्हतभाग्या न संशयः ॥ ९॥
न भजन्ति महादेवीं करुणारससागराम् ।
अन्धकूपे पतन्त्येते घोरे संसाररूपिणि ॥ १०॥
गङ्गां विहाय तृप्त्यर्थं मरुवारि यथा व्रजेत् ।
विहाय देवीं तद्भिन्नं तथा देवान्तरं व्रजेत् ॥ ११॥
यस्याः स्मरणमात्रेण पुरुषार्थचतुष्टयम् ।
अनायासेन लभते कस्त्यजेत्तां नरोत्तमः ॥ १२॥
एतत्पृष्टः पुरा मेधाः सुरथेन महात्मना ।
यदुक्तं मेधसा पूर्वं तच्छृणुष्व वदामि ते ॥ १३॥
स्वारोचिषेऽन्तरे पूर्वं विरथो नाम पार्थिवः ।
सुरथस्तस्य पुत्रोऽभून्महाबलपराक्रमः ॥ १४॥
दानशौण्डः सत्यवादी स्वधर्मकुशलः कृती ।
देवीभक्तो दयासिन्धुः प्रजानां परिपालकः ॥ १५॥
पृथिवीं शासतस्तस्य पाकशासनतेजसः ।
बभूवुर्नव ये भूपाः पृथ्वीग्रहणतत्पराः ॥ १६॥
कोलानाम्नीं राजधानीं रुरुधुस्तस्य भूपतेः ।
तैः समं तुमुलं युद्धं समपद्यत दारुणम् ॥ १७॥
युद्धे स निर्जितो भूपः प्रबलैस्तैर्द्विषद्गणैः ।
उज्जासितश्च कोलाया हृत्वा राज्यमशेषतः ॥ १८॥
स राजा स्वपुरीमेत्याकरोद्राज्यं स्वमन्त्रिभिः ।
तत्रापि च महापक्षैर्विपक्षैः स पराजितः ॥ १९॥
दैवाच्छत्रुत्वमापन्नैरमात्यप्रमुखैर्गणैः ।
कोशस्थितं च यद्वित्तं तत्सर्वं चात्मसात्कृतम् ॥ २०॥
ततः स निर्गतो राजा नगरान्मृगयाछलात् ।
असहायोऽश्वमारुह्य जगाम गहनं वनम् ॥ २१॥
इतस्ततस्तत्र गच्छन्राजा मुनिवराश्रमम् ।
ददर्श कुसुमारामभ्राजितं सर्वतोदिशम् ॥ २२॥
वेदध्वनिसमाकीर्णं शान्तजन्तुसमाश्रितम् ।
शिष्यैः प्रशिष्यैस्तच्छिष्यैः समन्तात्परिवेष्टितम् ॥ २३॥
व्याघ्रादयो महावीर्या अल्पवीर्यान्महामते ।
तदाश्रमे न बाधन्ते द्विजवर्यप्रभावतः ॥ २४॥
उवास तत्र नृपतिर्महाकारुणिको बुधः ।
सत्कृतो मुनिनाथेन सुवचो भोजनासनैः ॥ २५॥
एकदा स महाराजश्चिन्तामाप दुरत्ययाम् ।
अहो मे हीनभाग्यस्य दुर्बुद्धेर्हीनतेजसः ॥ २६॥
हृतं राज्यमशेषेण शत्रुवर्गैर्मदोद्धतैः ।
मत्पूर्वै रक्षितं राज्यं शत्रुभिर्भुज्यतेऽधुना ॥ २७॥