५ उमासंहिता, अध्याय 33: व्यासोत्पत्तिवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 144 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
५.४४. चतुश्चत्वारिंशोऽध्यायः ।
व्यासोत्पत्तिवर्णनम् ।
मुनय ऊचुः ।
व्यासोत्पत्तिं महाबुद्धे ब्रूहि सूत दयानिधे ।
कृपया परया स्वामिन् कृतार्थान्नः कुरु प्रभो ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
व्यासस्य जननी प्रोक्ता नाम्ना सत्यवती शुभा ।
विवाहिता तु सा देवी राज्ञा शन्तनुना किल ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
तस्यां जातो महायोगी कथं व्यासः पराशरात् ।
सन्देहोऽत्र महाञ्जातस्तं भवाञ्छेत्तुमर्हति ॥ ३॥
सूत उवाच ।
एकदा तीर्थयात्रायां व्रजन्योगी पराशरः ।
यदृच्छयागतो रम्यं यमुनायास्तटं शुभम् ॥ ४॥
निषादमाह धर्मात्मा कुर्वन्तं भोजनं तदा ।
नयस्व यमुनापारं जलयानेन मामरम् ॥ ५॥
इत्युक्तो मुनिना तेन निषादः स्वसुतां जगौ ।
मत्स्यगन्धाममुं बाले पारं नावा नय द्रुतम् ॥ ६॥
तापसोऽयं महाभागे दृश्यन्तीगर्भसम्भवः ।
तितीर्षुरस्ति धर्माब्धिश्चतुराम्नायपारगः ॥ ७॥
इति विज्ञापिता पित्रा मत्स्यगन्धा महामुनिम् ।
संवाहयति नौकायामासीनं सूर्यरोचिषम् ॥ ८॥
कालयोगान्महायोगी तस्यां कामातुरोऽभवत् ।
दृष्ट्वा योऽप्सरसां रूपं न कदापि विमोहितः ॥ ९॥
ग्रहीतुकामः स मुनिर्दाशकन्यां मनोहराम् ।
दक्षिणेन करेणैतामस्पृशद्दक्षिणे करे ॥ १०॥
तमुवाच विशालाक्षी वचनं स्मितपूर्वकम् ।
किमिदं क्रियते कर्म वाचंयमविगर्हितम् ॥ ११॥
वसिष्ठस्य कुले रम्ये त्वं जातोऽसि महामते ।
निषादजा त्वहं ब्रह्मन् कथं सङ्गो घटेत नौ ॥ १२॥
दुर्लभं मानुषं जन्म ब्राह्मणत्वं विशेषतः ।
तत्रापि तापसत्वं च दुर्लभं मुनिसत्तम ॥ १३॥
विद्यया वपुषा वाचा कुलशीलेन चान्वितः ।
कामबाणवशं यातो महदाश्चर्यमत्र हि ॥ १४॥
प्रवृत्तमप्यसत्कर्म कर्तुमेनं न कोऽपि ह ।
भुवि वारयितुं शक्तः शापभीत्यास्य योगिनः ॥ १५॥
इति सञ्चिन्त्य हृदये निजगाद महामुनिम् ।
तावद्धैर्यं कुरु स्वामिन्यावत्त्वां पारयामि न ॥ १६॥
सूत उवाच ।
इति श्रुत्वा वचस्तस्या योगिराजः पराशरः ।
तत्याज पाणिं तरसा सिन्धोः पारं गतः पुनः ॥ १७॥
पुनर्जग्राह तां बालां मुनिंः कामप्रपीडितः ।
कम्पमाना तु सा बाला तमुवाच दयानिधिम् ॥ १८॥
दुर्गन्धाहं मुनिश्रेष्ठ कृष्णवर्णा निषादजा ।
भवांस्तु परमोदारविचारो योगिसत्तमः ॥ १९॥
नावयोर्घटते सङ्गो काचकाञ्चनयोरिव ।
तुल्यजात्याकृतिकयोः सङ्गः सौख्यप्रदो भवेत् ॥ २०॥
इत्युक्तेन तया तेन क्षणमात्रेण कामिनी ।
कृता योजनगन्धा तु रम्यरूपा मनोरमा ॥ २१॥
पुनर्जग्राह तां बालां स मुनिः कामपीडितः ।
ग्रहीतुकामं तं दृष्ट्वा पुनः प्रोवाच वासवी ॥ २२॥
रात्रौ व्यवायः कर्तव्यो न दिवेति श्रुतिर्जगौ ।
दिवासङ्गे महान्दोषो निन्दा चापि दुरासदा ॥ २३॥
तस्मात्तावत्प्रतीक्षस्व यावद्भवति यामिनी ।
पश्यन्ति मानवाश्चात्र पिता मे च तटे स्थितः ॥ २४॥
तयोक्तमिदमाकर्ण्य वचनं मुनिपुङ्गवः ।
नीहारं कल्पयामास सद्यः पुण्यबलेन वै ॥ २५॥
नीहारे च समुत्पन्ने तमसा रात्रिसन्निभे ।
व्यवायचकिता बाला पुनः प्रोवाच तं मुनिम् ॥ २६॥
योगिन्नमोघवीर्यस्त्वं भुक्त्वा गन्तासि मां यदि ।
सगर्भा स्यां तदा स्वामिन्का गतिर्मे भवेदिति ॥ २७॥