५ उमासंहिता, अध्याय 32: व्यासपूजनप्रकारो, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
५.४३. त्रिचत्वारिंशोऽध्यायः ।
व्यासपूजनप्रकारः ।
शौनक उवाच ।
आचार्यपूजनं ब्रूहि सूत व्यासगुरोऽधुना ।
ग्रन्थस्य श्रवणान्ते हि किं कर्तव्यं तदप्यहो ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
सूत उवाच ।
पूजयेद्विधिवद्भक्त्याचार्यं श्रुत्वा कथां पराम् ।
ग्रन्थान्ते विधिवद्दद्यादाचार्याय प्रसन्नधीः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
ततो वक्तारमानम्य सम्पूज्य च यथाविधि ।
भूषणैर्हस्तकर्णानां वस्त्रैः सौम्यादिभिः सुधीः ॥ ३॥
शिवपूजासमाप्तौ तु दद्याद्धेनुं सवत्सिकाम् ।
कृत्वासनं सुवर्णस्य पलमानस्य साम्बरम् ॥ ४॥
तत्रास्थाप्य शुभं ग्रन्थं लिखितं ललिताक्षरैः ।
आचार्याय सुधीर्दद्यान्मुक्तः स्याद्भवबन्धनैः ॥ ५॥
ग्रामो गजो हयश्चापि यथाशक्त्यपराणि च ।
मुने सर्वाणि देयानि वाचकाय महात्मने ॥ ६॥
विधानसहितं सम्यक् श्रुतं हि सफलं स्मृतम् ।
पुराणं शौनकमुने सत्यमेवोदितं मया ॥ ७॥
तस्माद्विधानयुक्तं तु शृणुयाद्भक्तितो मुने ।
पुराणं निगमार्थाढ्यं पुण्यदं हृदयं श्रुतेः ॥ ८॥