Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं

Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 1

॥

श्रीगणेशाय नमः ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 1

२.१.५. पञ्चमोऽध्यायः ।

नारदस्य काशीक्षेत्रगमनम् ।

सूत उवाच ।

अन्तर्हिते हरौ विप्रा नारदो मुनिसत्तमः ।

विचचार महीं पश्यन् शिवलिङ्गानि भक्तितः ॥ १॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 2

॥

श्रीगौरीशङ्कराभ्यां नमः ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 2

पृथिव्या अटनं कृत्वा शिवरूपाण्यनेकशः ।

ददर्श प्रीतितो विप्रा भुक्तिमुक्तिप्रदानि सः ॥ २॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 3

॥

श्रीशिवमहापुराणम् ॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 3

अथ तं विचरन्तं कौ नारदं दिव्यदर्शनम् ।

ज्ञात्वा शम्भुगणौ तौ तु सुचित्तमुपजग्मतुः ॥ ३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 4

॥

द्वितीयायां रुद्रसंहितायां प्रथमः सृष्टिखण्डः

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 4

शिरसा सुप्रणम्याशु गणावूचतुरादरात् ।

गृहीत्वा चरणौ तस्य शापोद्धारेच्छया च तौ ॥ ४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 5

शिवगणावूचतुः ब्रह्मपुत्र सुरर्षे हि श‍ृणु प्रीत्यावयोर्वचः ।

तवापराधकर्तारावावां विप्रौ न वस्तुतः ॥ ५॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 6

आवां हरगणौ विप्र तवागस्कारिणौ मुने ।

स्वयम्वरे राजपुत्र्या मायामोहितचेतसा ॥ ६॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 7

त्वया दत्तश्च नौ शापः परेशप्रेरितेन ह ।

ज्ञात्वा कुसमयं तत्र मौनमेव हि जीवनम् ॥ ७॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 8

स्वकर्मणः फलं प्राप्तं कस्यापि न हि दूषणम् ।

सुप्रसन्नो भव विभो कुर्वनुग्रहमद्य नौ ॥ ८॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 9

सूत उवाच ।

वच आकर्ण्य गणयोरिति भक्त्युक्तमादरात् ।

प्रत्युवाच मुनिः प्रीत्या पश्चात्तापमवाप्य सः ॥ ९॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 10

नारद उवाच ।

श‍ृणुतं मे महादेवगणौ मान्यतमौ सताम् ।

वचनं सुखदं मोहनिर्मुक्तं च यथार्थकम् ॥ १०॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 11

पुरा मम मतिर्भ्रष्टासीच्छिवेच्छावशाद् ध्रुवम् ।

सर्वथा मोहमापन्नः शप्तवान्वां कुशेमुषिः ॥ ११॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 12

यदुक्तं तत्तथा भावि तथापि श‍ृणुतां गणौ ।

शापोद्धारमहं वच्मि क्षमेथामघमद्य मे ॥ १२॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 13

वीर्यान्मुनिवरस्याप्त्वा राक्षसेशत्वमादिशम् ।

स्यातां विभवसंयुक्तौ बलिनौ सुप्रतापिनौ ॥ १३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 14

सर्वब्रह्माण्डराजानौ शिवभक्तौ जितेन्द्रियौ ।

शिवापरतनोर्मृत्युं प्राप्य स्वं पदमाप्स्यथः ॥ १४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 15

सूत उवाच ।

इत्याकर्ण्य मुनेर्वाक्यं नारदस्य महात्मनः ।

उभौ हरगणौ प्रीतौ स्वं पदं जग्मतुर्मुदा ॥ १५॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 16

नारदोऽपि परं प्रीतो ध्यायन् शिवमनन्यधीः ।

विचचार महीं पश्यन् शिवतीर्थान्यभीक्ष्णशः ॥ १६॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 17

काशीं प्राप्याथ स मुनिः सर्वोपरिविराजिताम् ।

शिवप्रियां शम्भुसुखप्रदां शम्भुस्वरूपिणीम् ॥ १७॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 18

दृष्ट्वा काशीं कृतार्थोऽभूत्काशीनाथं ददर्श ह ।

आनर्च परमप्रीत्या परमानन्दसंयुतः ॥ १८॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 19

समुदः सेव्य तां काशीं कृतार्थो मुनिसत्तमः ।

नमन्संवर्णयन्भक्त्या संस्मरन्प्रेमविह्वलः ॥ १९॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 20

ब्रह्मलोकं जगामाथ शिवस्मरणसन्मतिः ।

शिवतत्त्वं विशेषेण ज्ञातुमिच्छुः स नारदः ॥ २०॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 21

नत्वा तत्र विधिं भक्त्या स्तुत्वा च विविधैस्तवैः ।

पप्रच्छ शिवसत्तत्त्वं शिवसंयुक्तमानसः ॥ २१॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 22

नारद उवाच ।

ब्रह्मन्ब्रह्मस्वरूपज्ञ पितामह जगत्प्रभो ।

त्वत्प्रसादान्मया सर्वं विष्णोर्माहात्म्यमुत्तमम् ॥ २२॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 23

भक्तिमार्गं ज्ञानमार्गं तपोमार्गं सुदुस्तरम् ।

दानमार्गं च तीर्थानां मार्गं च श्रुतवानहम् ॥ २३॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 24

न ज्ञातं शिवतत्त्वं च पूजाविधिमतः क्रमात् ।

चरित्रं विविधं तस्य निवेदय मम प्रभो ॥ २४॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 25

निर्गुणोऽपि शिवस्तात सगुणः शङ्करः कथम् ।

शिवतत्त्वं न जानामि मोहितः शिवमायया ॥ २५॥

Shiva Purana

२ रुद्रसंहिता - १ सृष्टिखण्डः, अध्याय 5: रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने नारदप्रश्नवर्णनं, Verse 26

सृष्टेः पूर्वं कथं शम्भुः स्वरूपेण प्रतिष्ठितः ।

सृष्टिमध्ये स हि कथं क्रीडन्संवर्तते प्रभुः ॥ २६॥