५ उमासंहिता, अध्याय 29: मनुनवपुत्रवंशवर्णनं, Verse 1
॥
श्रीगणेशाय नमः ॥
Containing 64 sacred Sanskrit shlokas with multi-author commentaries and translations.
॥
श्रीगणेशाय नमः ॥
५.३६. षट्त्रिंशोऽध्यायः ।
मनुनवपुत्रवंशवर्णनम् ।
सूत उवाच ।
मनोर्वैवस्वतस्यासन्पुत्रा वै नव तत्समाः ।
पश्चान्महोन्नता धीराः क्षत्रधर्मपरायणाः ॥ १॥
॥
श्रीगौरीशङ्कराभ्यां नमः ॥
इक्ष्वाकुः शिबिनाभागौ धृष्टः शर्यातिरेव च ।
नरिष्यन्तोऽथ नाभागः करूषश्च प्रियव्रतः ॥ २॥
॥
श्रीशिवमहापुराणम् ॥
अकरोत्पुत्रकामस्तु मनुरिष्टिं प्रजापतिः ।
अनुत्पन्नेषु पुत्रेषु तत्रेष्ट्यां मुनिपुङ्गवः ॥ ३॥
सा हि दिव्याम्बरधरा दिव्याभरणभूषिता ।
दिव्यसंहनना चैवमिला जज्ञे हि विश्रुता ॥ ४॥
तामिडेत्येव होवाच मनुर्दण्डधरस्तथा ।
अनुगच्छस्व मामेति तमिडा प्रत्युवाच ह ॥ ५॥
धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् ।
इडोवाच ।
मित्रावरुणयोरंशैर्जातास्मि वदतां वर ॥ ६॥
तयोः सकाशं यास्यामि न मेऽधर्मे रुचिर्भवेत् ।
एवमुक्त्वा सती सा तु मित्रावरुणयोस्ततः ॥ ७॥
गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् ।
अंशैस्तु युवयोर्जाता मनुयज्ञे महामुनी ॥ ८॥
आगता भवतोरन्ति ब्रूतं किं करवाणि वाम् ।
अन्यान् पुत्रान् सृज विभो तैर्वंशस्ते भविष्यति ॥ ९॥
सूत उवाच ।
तां तथावादिनीं साध्वीमिडां मन्वध्वरोद्भवाम् ।
मित्रावरुणनामानौ मुनी ऊचतुरादरात् ॥ १०॥
मित्रावरुणावूचतुः ।
अनेन तव धर्मज्ञे प्रश्रयेण दमेन च ।
सत्येन चैव सुश्रोणि प्रीतौ द्वौ वरवर्णिनि ॥ ११॥
आवयोस्त्वं महाभागे ख्यातिं चैव गमिष्यसि ।
मनोर्वंशकरः पुत्रस्त्वमेव च भविष्यसि ॥ १२॥
सुद्युम्न इति विख्यातस्त्रिषु लोकेषु विश्रुतः ।
जगत्प्रियो धर्मशीलौ मनुवंशविवर्धनः ॥ १३॥
सूत उवाच ।
निवृत्ता सा तु तच्छ्रुत्वा गच्छन्ती पितुरन्तिके ।
बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता ॥ १४॥
सोमपुत्रात्ततो जज्ञे तस्यां राजा पुरूरवाः ।
पुत्रोऽतिसुन्दरः प्राज्ञ उर्वशीपतिरुन्नतः ॥ १५॥
जनयित्वा च सा तत्र पुरूरवसमादरात् ।
पुत्रं शिवप्रसादात्तु पुनः सुद्युम्नतां गतः ॥ १६॥
सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः ।
उत्कलश्च गयश्चापि विनताश्वश्च वीर्यवान् ॥ १७॥
उत्कलस्योत्कला विप्रा विनताश्वस्य पश्चिमा ।
दिक्पूर्वा मुनिशार्दूल गयस्य तु गया स्मृता ॥ १८॥
प्रविष्टे तु मनौ तात दिवाकरतनुं तदा ।
दशधा तत्र तत्क्षेत्रमकरोत्पृथिवीमिमाम् ॥ १९॥
इक्ष्वाकुः श्रेष्ठदायादो मध्यदेशमवाप्तवान् ।
वसिष्ठवचनादासीत्प्रतिष्ठानं महात्मनः ॥ २०॥
प्रतिष्ठां धर्मराज्यस्य सुद्युम्नोऽथ ततो ददौ ।
तत्पुरूरवसे प्रादाद् राज्यं प्राप्य महायशाः ॥ २१॥
मानवो यो मुनिश्रेष्ठाः स्त्रीपुंसोर्लक्षणः प्रभुः ।
नरिष्यन्ताच्छकाः पुत्रा नभगस्य सुतोऽभवत् ॥ २२॥
अम्बरीषस्तु बाह्लेयो बाह्लकं क्षेत्रामाप्तवान् ।
शर्यातेर्मिथुनं त्वासीदानर्तो नाम विश्रुतः ॥ २३॥
पुत्रः सुकन्या कन्या च या पत्नी च्यवनस्य हि ।
आनर्तस्य हि दायादो रैभ्यो नाम स रैवतः ॥ २४॥
आनर्तविषये यस्य पुरी नाम कुशस्थली ।
महादिव्या सप्तपुरीमध्ये या सप्तमी मता ॥ २५॥
तस्य पुत्रशतं त्वासीत्ककुद्मी ज्येष्ठ उत्तमः ।
तेजस्वी सुबलः पारो धर्मिष्ठो ब्रह्मपालकः ॥ २६॥
ककुद्मिनस्तु सञ्जाता रेवती नाम कन्यका ।
महालावण्यसंयुक्ता दिव्यलक्ष्मीरिवापरा ॥ २७॥